________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [ षष्ठे विधिनियमविध्यरे
अथैतत् साम्यमुभयसत्त्वाद् मा भूदित्यन्यतरसत्त्वं कार्यास स्वाभ्युपगमपरिहारेण 'कार्यमेव सत्' इति । अत्र कार्यसमीपे 'एव' कार इत्यन्यत्र प्रतियोगिनि सत्त्व नियमः 'सेवं कार्ये एव नियतं नान्यत् सत्' इति, ततश्च न कारणं सत्, तथा च सतोऽसदिति असतश्च सदिति संज्ञा क्रियते, कार्यसत्त्वं खरविषाणादिसत्व तुल्यम्, B नाममात्रे विसंवादः । कार्यासत्व निवृत्त्येकान्तत्यागाच्चाभ्युपगमविरोधः स्ववचनादिविरोधाः । सदेवकारे तु सदनवधृतेः पूर्वदोषा एव ।
४३३
अथोच्येत - सर्वथा सत्त्वादेककारणतया न कश्चिद् विशेषोऽस्ति, यदेव कारणकाले कार्यसत्त्वं तदेव कारणसत्त्वमपीति नावधारणकृतो दोषो नापि पूर्वस्तुत्यत्वापत्तिदोषः । एवमप्येकत्वाद् विशेषाभावः, ततो यथैव कारणमनुपादानसिद्धं 10 सामान्यमन्तर्भाविताशेषविशेषसत्त्वात्मकमेवं कार्यस्यानुपादानसिद्धत्वात् सामान्यत्वादन्तर्भाविताशेषविशेष सत्त्वात्मकत्वात् कार्यमपि कारणवदेवाक्रमं स्यात् ।
अथैतत् साम्यमित्यादि । पूर्वदोषपरिहारेणान्यतरसत्त्वपरिग्रहे 'कार्यमसत्' इति नेच्छतोऽवश्यं 'कार्यमेव सत्' इत्यवधारणपक्षः स्यात् । स चै सत्कारणप्रतिषेधवादविपर्ययेण दोषाभिधानवदिहापि कार्यो यावद् नाममात्रे विसंवाद इति । एवं च सति कार्या सत्त्वनिवृत्त्येकान्तत्यागाच्चाभ्युपगमविरोध इत्यादि गतार्थं 15 तथैव । अथ 'कार्यमेव सत्' इत्यवधार्यमाण एते दोषा इति सत्त्वं नावधार्यते 'कार्यमस्त्येव कारणमप्यस्ति ' इतीष्टत्वादिति चेत्, अवैलक्षण्यादिकृताः पूर्वदोषा एव ।
अथोच्येत - सर्वथा सत्त्वादित्यादि यावदनेकविषयत्वात् तुल्यत्वस्येति । पक्षद्वयोक्तदोषपरिहारार्थमित्थं कल्पयेत् - सर्वथा सत्त्वात् सर्वपिण्ड शिवकघटादिप्रभेदाभेदादेककारणता, तया न कश्चिद् C: विशेषोऽस्ति, यथैकस्यैवाहे : 'संवर्ते विवर्ते वाऽभिन्नस्य कारणस्य कारणता, नाहे: पृथग्भूतौ संवर्तविवत 20 तथा तथा तस्यैवावस्थानात्, नाप्यहिः संवर्तो विवर्तो वा न भवति तथेति । तद् भावयति - यदेव कारणे३०७-१ त्यादि यावत् कारणसत्त्वमपीति । इति नावधारणेत्याद्युपनयः, इतिशब्दस्य हेत्वर्थत्वाद् यदि 'कार्य*मेव सत्' अथ 'कारणमेव सत्' इत्युच्येत यदि 'सदेव कारणं कार्यं च' इत्युच्यते सर्वथा तस्य कारणस्य स्वसंवर्तविवर्तैकरूपत्वाद् नावधारणकृतो दोषोऽस्ति परमतापेक्षत्वादवधारणस्यापि । नापि पूर्वः तुल्यत्वापत्तिदोषः खपुष्पाद्य स द्विलक्षणप्रादुर्भावाप्रादुर्भाव कारण कार्यावैलक्षण्यदोषो वास्ति, एकत्वात् । अनेकं 25 हि तुल्यमतुल्यं वा स्यात् 'इदमनेन तुल्यं घटादि पटादि वा' इति । निरस्तपूर्वापरीभावात्मनि कार्ये कतर भिन्नं कारणं नाम ? कारणात्मकभावितकार्यत्वाद्वा कतरत् कारणम् ? इति । न त्वस्ति भेदः, तस्माददोष इति । अत्रोच्यते - एवमप्येकत्वाद् विशेषाभावः त्वयोक्तोऽधुना । ततः किम् ? तत इति यथैव
I
( पृ० १६४ पं० २ । ( चासत्कार्यप्रतिषेधवाद विपर्ययेण ? ) ॥ ६ सर्वे य० ॥ प्रभेदाचैक भा० । (प्रभेदाभेदाच्चैककारणतया ? ) ॥ ८ विवर्तभिन्नस्य य० ॥ १६६ पं० १ ॥ १० कार्या विलक्षणदोषो प्र० ॥
१ दृश्यतां पृ० ५०८-२, पृ० १६४ पं० १ ॥ २ दृश्यतां पृ० ५०९-१, पृ० १६४ पं० ४ ॥ ३ दृश्यतां पृ० ५०९-१, पृ० १६५ पं० २, पृ० १६८ पं० ५ ॥ ४ दृश्यतां पृ० १६५ पं० ४ ॥ ५ चासत्कारण य० । दृश्यतां ७ प्रभेदाभेदाचै (चै?) क° य० । ९ पूर्व प्र० । दृश्यतां पृ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org