________________
कारणकार्यनानात्वसाधनम्] द्वादशारं नयचक्रम् विर्भाववद् नित्यं कार्याविर्भावः सच्च कार्यमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत् कारणम् , असत्, सद्विलक्षणत्वात् खपुष्पवत्। ननु घटसत्त्वं पटसत्त्वविलक्षणम् , न, इतरेतरासत्त्ववैलक्षण्यात् । अथैवमपि वैलक्षण्ये कारणसत्त्वनिश्चयो न निवर्तते आवि
र्भावात्मकं च तत् न तर्हि अनाविर्भावात्मकत्वात् कार्य सत् खपुष्पवत् । इतरथा हि नित्यमेवाविर्भवेत् सत्त्वात् कारणवत्, कारणं वा नाविर्भवेत् अनाविर्भावक-5 सत्त्वाविशिष्टत्वात् कार्यवत् ।
अथ न कार्यानित्यप्रादुर्भाववत् कारणप्रादुर्भावः सच कारणमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत् कार्यम् , असत्, सद्विलक्षणत्वात् खपुष्पवत्, इतरः कारणवत् । खपुष्पमपि वा सत्, आविर्भावानुपलब्धेः, कार्यवत् । ननु घटसत्त्वं पटसत्त्वविलक्षणम्, न, इतरेतरासत्त्ववैलक्षण्यात् । अथैवमपि वैलक्षण्ये कार्यसत्त्व-10 विनिश्चयो न व्यावर्तते अनित्याविर्भावात्मकं च तत् न तर्हि आविर्भावात्मकत्वात् कारणं सत्, न त्वेवं भवति । अतः कारणं सत्, उपलभ्यत्व आविर्भावकत्वात्, कृतवत् । कृतमपि कारणवत् सत्, उपलभ्यत्वे आविर्भावकत्वात्, कारणवदेव । न तु कार्य सत्, उपलभ्यत्वे आविर्भावानुपलब्ध्यात्मकत्वात्, खपुष्पवत् । सत्त्वे वा विशेषो वक्तव्यः, अविशेष वैलक्षण्यानुपपत्तेः । विशेषोन्नयनेऽपि विशेषस्या-18 सदाश्रयत्वात् ततोऽन्यत्वमेव, तत्रासत्त्वमेव अघटपटवत् । लक्षणत्वादसत् कारणमापद्यतेऽभ्युपगमप्रत्यक्षादिविरुद्धम् । तस्यानैकान्तिकत्वचोदना-ननु घटसत्त्वं पटसत्त्वविलक्षणमिति । सतो हि घटात् पटो विलक्षणः संश्च दृष्टः, खपुष्पमसत् , तत्र सन्देहः - किं खपुष्पवदसत् कार्यं स्यात् ? घटविलक्षणपटवेत् सत् स्यात् ? इति । अत्रोच्यते - न, इतरेतरासत्त्ववैलक्षण्यात्, घटः पटात्मना नास्ति पटोऽपि घटात्मना नात्येवेति असत्त्वांशाभ्यामेव वैलक्षण्यमनयोः, अतो 20 विपक्षासिद्धेः सपक्ष एव वृत्ते नैकान्तिकः । शेषो ग्रन्थः सत्कार्यवादविपर्ययेण तुल्यगमत्वार्दुक्तानु-.. सारेणोह्यो यावदनाविर्भावकसत्त्वाविशिष्टत्वात् कार्यवदिति प्रथमचक्रकं कार्यसत्त्वप्रसङ्गेन ।।
अथ न कार्यानित्यप्रादुर्भाववदित्यादि कारणसत्त्वपँसंगचक्रकं द्वितीयं यावदुपसंहारग्रन्थः- अतः ३०६-६ कारणं सत् , उपलभ्यत्व आविर्भावकत्वात् , कृतदिति कृतघटवादित्यर्थः । स्यान्मतम् - कृतं घटादि. कार्यमकृतात् कार्यात् कारणाच्चान्यद् विलक्षणं च तत् तस्मादसैदिति। एतच्च न, विशिष्टं कृतमपि कारणवत् 20 सत् , उपलभ्यत्वे आविर्भावकत्वात् , कारणवदेवेति उपलभ्यत्वविशेषणमावरणाद्यभावप्रकाशाद्युपलब्धि-. प्रदर्शनमिति । शेषं प्रागुंक्तसत्कार्यवादद्वितीयचक्रकविपर्ययेण तुल्यगमं यावत् ततोऽन्यत्वमेवेति। तत्र किमुक्तं भवति ? तद्वयाख्यानार्थमाह -तत्रासत्त्वमेवाघटपटवदिति । यथा घटाभाव एव पटोऽघटस्तथा विशेषो. ऽपि कल्प्यमानोऽसत्वांशद्वारेण स्याद् नान्यथेत्यविशेषाद् वैलक्षण्यानुपपत्तिरिति द्वितीयं चक्रकं समाप्तम् ।
१ दृश्यतां पृ० ४३४ पं० १४ ॥२ एतचिह्नान्तर्गतपाठस्य मूलत्वे सन्देहः ॥ ३ दृश्यतां पृ० ४३४ पं० १८ ॥ ४ दृश्यतां पृ०४३४ पं० १९ पृ० १६३ पं०४॥५°वत्स्यात भा० । व स्यात य०॥६ दृश्यतां पृ० १६२ पं० १॥ ७प्रसंगभंगचक्रकं य० ॥ ८॥ एतच्चिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ९ सदनित्येतच्चन य० ॥ १० वत्वारणवदे भा० ॥ ११ दृश्यतां पृ० १६३ पं० १॥ १२ कल्पमा प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org