________________
४३०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [षष्ठे विधिनियमविध्यरे .. यत् तत् सत् ततोऽन्यत् कार्यम् , तदतुल्यविकल्पत्वात्, घटपटवत् । कथमतुल्यविकल्पता ? इहे कार्यकारणयोर्द्वयोरपि सत्त्वं कार्यासत्त्वमेव वेत्येतद् विकल्पद्वयं स्यात्, इतरयोरभ्युपगतप्रतिपक्षत्वाद् वादाभावात्।
. तद् यदि तावदुभयसत्त्वं तत उपलब्धिलक्षणप्राप्तत्वे तदात्मकसत्त्वाविशिष्टउत्वात् कारणखात्मवत् कारणाविर्भाववद् नित्यं कार्याविर्भावः स्यात् । अथ न कारणा. अत्रानुमानं कारणकार्यनानात्वेऽभिधीयते -यंत् तत् सत् ततोऽन्यत् कार्यम् , तदतुल्यविकल्पत्वात् , घटपटवत् , यत् त्वया कारणं कार्यं च सदित्यभिमतं तत्र बीजादेः पुरुषादेश्च कारणात् तनुभुवनाद्यनुरादि कार्यमन्यदित्य भिप्रायः । पक्षीक्रियते तु 'सत्' इत्यभिमताद् वस्तुनोऽन्यत् तत् कार्यमिति । विशेषहेतुः - तदतुल्यविकल्पत्वादिति, सता तेनातुल्यो विकल्पोऽस्येति कार्यमभिसम्बध्यते, तस्य त्वया 10 कारणादनन्यत्वेनेष्टत्वाद् नाश्रयासिद्धिदोषो हेतोः । घटपटवदिति दृष्टान्तः, यथा घटः पटेनातुल्यविकल्पो लोके पृथुकुक्षिबुध्नवृत्तोर्ध्वग्रीवाद्याकारादिविकल्पः पटाच्चतुरस्रदीर्घा दिसंस्थानादिविकल्पादन्यो दृष्टस्तथा कार्य सतोऽन्यदिति । ____ अत्राह - कथमतुल्यविकल्पतेति, असिद्धमतुल्यविकल्पत्वमिति चोदकाभिप्रायः । अत्र चत्वारो भङ्गाः सम्भाव्यन्ते- यो वा कारणं सत् कार्यं चेति, यो वा कारणं सत् कार्यमसत् , कार्यं सत् कारणमसत्, 15 कार्यमसत् कारणं चेति वा । तेषु द्वौ सम्भवेताम् , न द्वौ । तद्यथा- इह 'कार्यकारणयोईयोरपि सत्त्वं
कार्यसत्त्वमेव वा' इत्येतद् विकल्पद्वयं स्यादिति 'कारणं सत् कार्य च सत् , कारणमसत् कार्य सत्' इत्येतौ विकल्पौ भवितुमर्हतो नेतराविति । कस्मात् ? इतरयोरभ्युपगतप्रतिपक्षत्वाद् वादाभावात् , अभ्युपगतः प्रतिपक्षो यस्मिन् येन वा वादिना सोऽभ्युपगतप्रतिपक्षो विकल्पो वादी वा, तद्भावादभ्युपगतप्रतिपक्षत्वात् , किं भवति ? वादाभावो भवति अवसितप्रयोजनत्वात् , परश्चेदभ्युपगच्छति किमिति वादः 20 क्रियते ? तौ च विकल्पौ 'सत् कारणमसत् कार्यम् , असत् कारणमसत् कार्य च' इति यदि त्वमभ्युपग३०६-१ च्छसि अवसितप्रयोजनः स्यामहम् , अतो वादाभावादिदं विकल्पद्वयं स्यादिति ।
- किश्चातः ? उच्यते - तद् यदि तावदुभयसत्त्वम् , 'कार्यसत्त्वं कारणसत्त्वं च' इत्ययं विकल्पः परीक्ष्यते, तिष्ठतु तावदसत् कारणं सत् कार्यमिति विकल्पः । अत्रोभयसत्त्वे कारणांविर्भाववत् कार्याविर्भावः स्यादिति पक्षार्थः सम्बध्यते, उपलब्धिलक्षणप्राप्तत्वे सति तदात्मकसत्त्वांविशिष्टत्वात् 20 कारणस्वात्मवत् , यथावरणातिदूरातिसामीप्याद्यनुपलब्धिकारणविरहे सति सत्त्वात्मकं कारणमाविर्भवति नित्यं मृदादि तथानुपलब्धिकारणांसत्त्वे सति तदात्मकसत्त्वाविशिष्टकार्यमाविर्भवेद् नित्यमिति । - अथेत्यादि । एतेन सत्त्वेऽपि आविर्भावानाविर्भावकृतं वैलक्षण्यमापद्यते कारणकार्ययोः, ततश्च सद्वि.. १ यत् तत् सतोऽन्यत् कार्यम्प्र० । दृश्यतां पृ० ४३५ पं० १५, पृ० ४३४ पं० ५,५०६-२, तुलना - पृ० १६० पं० ४,४७८-२ । 'यत् सत् ततोऽन्यत् कार्यम्' इत्यपि पाठोऽत्र स्यादिति भाति ॥ २ दृश्यतां पृ० १६१ पं० २॥ ३ दृश्यतां पृ० ४३४ पं० ७॥ ४ दृश्यतां पृ० १७० पं० १५-२२ ॥ ५ व्यास्त्रः यो वा भा० । व्यास्तु यो वा य० । ( सम्भाव्या स्ते यो वा ? सम्भाव्यास्त्रयो वा ? ) ॥ ६ चेतो भा० । चेते य० ॥ ७ पा० विनान्यत्र मह(महं ?) ततोवादा डे० वि० २० । महतो वादा भा० ॥ ८°विर्भाववसत्कार्या पा० डे० वि० । विर्भावसत्कार्या' २०॥ ९ विशिष्टकारणस्वात्मवत् प० । दृश्यतां पृ० ४३४ पं० ७॥ १०°णसत्त्वे प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org