________________
उत्पत्तिविनाशादीनामैकाधिकरण्यखण्डनम्] द्वादशारं नयचक्रम्
४२९ अत्र पक्षेऽमी दोषा इत्यन्यदुत्पद्यतेऽन्यद् विनश्यतीत्यादि यथावस्तुबीजाकुरकर्माद्यात्मधर्माणुस्थूलपृथिव्यादिवत्। ..
द्वयोर्द्वयोरपि धर्मयोस्त्रिकसंयोगाः कार्याः । उत्पादेनाभिभवाद् विनाशस्य उत्पादस्य प्रादुर्भावाद् अवस्थानस्योत्पादेन सहभावादन्योन्याभिभवोद्भवमिथुनवृत्तयो हि गुणाः सत्त्वरजस्तमोभिधाना उत्पत्तिविनाशस्थित्याख्या भवन्तीति। तथा चतुष्कसंयोगाः पञ्चकसंयोगाः षट्कसंयोगाश्च सम्भवन्तो योज्याः। यावद्योगमिति । संकलकरणोपायेन यावन्तो भङ्गास्तावन्त इत्यर्थः, यावन्ति वा दर्शनान्यर्थतः सम्भवन्ति तदर्शनानुसारेण तावन्तो भङ्गाः कार्या इत्यर्थः, अभिहितसामानाधिकरण्यानुपपत्तिदोषदिशा भङ्गोपचयाश्रयेण दोषोपचयमपि वर्धयद्भिर्व्याख्येयमित्युपायं दर्शयति ।
अत्र पक्ष इति द्रव्यस्यावस्थामात्रं स्थित्यादयो न भिन्नाश्च परस्परत इत्यस्मिन् पक्षेऽमी दोषा इति तस्माद् विपर्ययोऽस्त्विति तदुपसंहरति- इत्यन्यदुत्पद्यतेऽन्यद् विनश्यतीत्यादि । 'आदि'ग्रहणात् ।। 'अन्यद् विनश्यति अन्यदुत्पद्यते, अन्यदुत्पद्यतेऽन्यदवतिष्ठते,* अन्यद् विनश्यति अन्यदवतिष्ठते, अन्यदवतिष्ठतेऽन्यदुत्पद्यते, अन्यद्वतिष्ठतेऽन्यद् विनश्यति' इत्यादिभङ्गाः सम्भवन्तो ग्राह्याः । यथावस्तुबीजाकुरकर्माद्यात्मधर्माणुस्थूलपृथिव्यादिवत् , यद् यद् वस्तु यथावस्तु, बीजमन्यद् वस्तु विनश्यति अङ्कुरोऽन्य उत्पद्यते द्रव्यम् , कर्म गमनमुत्पद्यते स्थानं विनश्यति, आदिग्रहणाद् निर्णयबुद्ध्यादिर्गुण उत्पद्यते संशयबुद्ध्यादिविनश्यति, आत्माकाशकालदिङ्मनोद्रव्याणि नोत्पद्यन्ते न विनश्यन्ति अवतिष्ठन्त एव, तथाणवोऽपि, पटादि 15 स्थूलमुत्पद्यते पिण्डादि विनश्यति, धर्मोऽभिषेचनादिकर्मणोत्पाद्य उत्पद्यते गुणः संस्कारप्रयत्नादिश्च कारण-३०५-२ विनाशादिभिश्च विनश्यति, न विभुत्वादिरिति । . १“अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥ १२ ॥” साङ्ख्यका० ॥ २ संभवतो भा० ॥ ३ संकल' भा० ॥ ३ * * अन्यदुत्पद्यतेऽन्यद् विनश्यति अन्यदवतिष्ठते भा० । अन्यद् विनश्यति. अन्यदुत्पद्यते अन्यदवतिष्ठते य० ॥ ४ “एवं श्रुतिस्मृतिविधिभ्यो धर्मो भवतीत्युक्त्वा इदानीमेषां धर्मसिद्धौ प्रकारविशेषमाह, तथाहि - दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय [वै० सू० ९।२।१], श्रुतिस्मृतिपरिदृष्टानां स्नानादीनां दृष्टस्य मलापकर्षादेरनभिसन्धाने प्रयोगोऽभ्युदयाय भवति । के ते ? अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्था(स्थ्य ? स्थ?)यज्ञदानप्रोक्षणदिनक्षत्रमन्त्रकालनियमाश्चादृष्टाय [वै० सू० ९।२।२], विशिष्टदेशकालापेक्षेण अम्भसा यः शरीरस्य संयोगस्तदभिषेचनं स्नानम् । नक्तंदिनं वासोऽनाहाररूप उपवासः।ब्रह्मशब्देनात्मा, ब्रह्मणि चरणमात्ममनसोर्यः संयोगः ख्यादिपरिहाररूपो ब्रह्मचर्यम् । ज्ञानाद्यर्थिनो गुरुचर्यापरस्य तद्गृहेषु वसनं गुरुकुलवासः । शास्त्रविधिना [ग्रामा]निर्गता(तोऽ)रण्यप्रस्थितो वा(व)नप्रस्थः, तस्य कर्म वानप्रस्था(स्थ्यम् ? स्थम् ?)। यज्ञाः पाकयज्ञादयः । दानं सुवर्णादिदानमभयदानं च । प्रोक्षणं सन्ध्योपासनादि । दिनियमादयोऽन्ये विशेषाः, दिनियमः 'प्राङ्मुखोऽन्नानि भुञ्जीत', नक्षत्रनियमः 'कृत्तिकाखादधीत', मन्त्रनियमो 'देवस्य त्वेति निर्वपति', कालनियमो 'वसन्ते ब्राह्मणोऽग्नीनादधीत' । एवमेतत् सर्व दृष्टप्रयोजनतिरस्कारेण प्रयुज्यमानं धर्माय सम्पद्यत इति ।" इति [पुण्यनामधेयमुनिश्रीपुण्यविजयमहोदयसकाशाल्लब्धायां हस्तलिखितायां प्राचीनतमायां ] चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ० २४ A ॥ २ एतादृशी सदसत्कार्यविषयिका चर्चा प्रथमारे [पृ० १६०-१७१], नवमारे [पृ० ४७८-२], दशमारे [पृ. ५०६-२-५०९-२] च दृश्यते । सापि चर्चा मूलनिर्णयेऽर्थपरिज्ञाने पाठसंशोधने चात्रानुसन्धेया ॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org