________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ षष्ठे विधिनियमविध्यरे
तथाव्यवस्थान विनाशात् । तथाव्यवस्थानाविनाशे एव हि सपक्षमपि तत् स्यात् 'अग्निरत्र धूमात्' इति यथा, विनाशेऽवस्थानविपरीतवृत्तित्वात् ।
एवं त्रिकादियोग भङ्गेष्वपि यावद्योगम् ।
C
४२८
ते । किं कारणम् ? तथाव्यवस्थानविनाशात्, यथा स्फुटितपृष्ठत्वात् खरं खरविषाणम् आकाश5 स्फोट वदिति वचनवत् । तद्वैधर्म्येण साधनव्यवस्थां दर्शयति - तथाव्यवस्थानाविनाश एव हि सपक्षमपि तत् स्यात्, तद्धि साधनं साधनं भवत् पक्षेण सहापि सत्येव व्यवस्थितस्यार्थस्याविनाशे भवितुमईति, नाविनाशे । किमिव ? ‘अग्निरत्र धूमात्' इति यथा यथा हि धूमो धूमरूपेण व्यवस्थितो व्यवस्थिते एवानौ अग्नितया तद्वत्तया च प्रदेशे, यद्युभयव्युदासानुगृहीतसमुदायार्थसाध्यता यदि धर्मविशिष्टधर्मिसाध्यता सर्वथा व्यवस्थितस्य वस्तुनो व्याप्यो धूमांशो व्यापकेन अभ्यंशेन व्याप्तस्तमंशं व्यवस्थित एव व्यवस्थितं 10 गमयति अविनष्टमविनष्टोऽविनष्टस्येति स्यात् साधनत्वं साध्यत्वं च । त्वन्मते तु पुनर्विविधादर्शने विनाशेऽत्यन्ताभावेऽन्यभवनरूपे वा विपरीतात्मके त्वयेष्टयावस्थायावश्यं विनंष्टव्यमित्यवस्थानविपरीतवृत्तित्वात् अन्यथाभवनरूपत्वादस्य धूमाख्यस्यांशस्य पक्षधर्मत्वमसिद्धम् । अतः प्रदेशस्याप्यन्यथावृत्तत्वादभूतत्वाद्वा आश्रग्रासिद्धिः । विपरीतवृत्तेर्विरुद्धतापि च, पक्षधर्मत्वमभ्युपगम्य धूमं धूमरूपेणावस्थितमग्नेरग्निरूपेणावस्था.. नस्य अन्यथाभूतत्वात् । अथवा अवस्थान विपरीतवृत्तित्वादिति, त्वन्मतेनेत्थं विरुद्धता, मन्मतसंवादेन तु वदीयसर्वहेतुविरुद्धता । अवस्थानविनाशद्वयरूप एवाग्निस्त्वयाभ्युपगतः, तत्र यावन्तमंशमग्नित्वव्यवस्थानरूपं स्पृशति तावता अभ्यन्तरे सपक्षे च दृष्टः यावन्तं च 'विनाशरूपं स्पृशति तावता अभित्वव्यवस्थानाभावे तद्विपरीते वा विपक्षे दृष्टः तस्मादनैकान्तिक इति हेतुदोषाः । तस्यैवाग्नेरवस्थानविनाशद्व्यंशस्य तद्वतः प्रदेशस्य च द्व्यंशस्य व्यवस्थानांशमात्रे दर्शनाद् वनस्पतिचैतन्ये स्वापवदव्यापिपक्षधर्मश्च साधनं तद्वृत्त्यवृत्त्योः । एवं दृष्टान्तेऽपि साध्यसाधनधर्मधर्म्यसिद्धिदोषास्तदव्यावृत्त्यादिदोषाश्च योज्याः ।
15
३०४-२
20 ' एवं त्रिकादियोगभङ्गेष्वपि यावद्योगमिति । एते द्विकसंयोगभङ्गेषु षट्सु दोषा उक्ताः । तथा त्रिकादियोगभङ्गेष्वपि वाच्या इत्यतिदिशति, उक्तदिक्पातित्वात् तेषामपि विकल्पानाम् । तत्रैकस्त्रिकसंयोगः – यदेवोत्पद्यते तदेवावतिष्ठते विनश्यति चेति प्रथमः, यदेवोत्पद्यते तदेव विनश्यत्यवतिष्ठते चेति द्वितीय इत्युत्पत्ति..... प्रधानौ द्वौ त्रिकसंयोगौ, तथा विनाशप्रधानौ स्थितिप्रधानौ च । अथवा 'यदेवोत्पद्यते तदेवोत्पद्यते विन३०५-१ श्यति' इत्यनुत्पत्तिदोष परिहारार्थमुत्पत्तिस्वरूपं विनाशसमानाधिकरणमवधारयन् विकल्पयेत्, तथा शेषेष्वपीति
१ द्विनाश भा० ॥ २ नोभावो प्र० ॥ ३ धर्म च भा० । धर्मे च य० । “अवृक्षव्यवच्छिन्नस्यापि स्वार्थस्य नानुमानाय नाभिधानाय स्याद् वृक्षशब्दः, न प्रभवतीत्यर्थः । तदेकदेशवर्तित्वात् स्वार्थस्य धर्मिणः पक्षस्यानुमेय - स्याभिधेयस्य एकदेशे वर्तितुं शीलमस्य धर्मः साधु वा वृत्तिरस्येति तदेकदेशवर्ती, किमुक्तं भवति ? अव्यापिपक्षधर्मत्वात् समस्तानुमेयावृत्तित्वादित्यर्थः । अवनस्पतिव्यवच्छिन्नचैतन्यसाधनार्थस्वापवत् यथा 'चेतना वनस्पतयः' इति प्रतिज्ञायां 'खापात्' इति हेतुर्धर्मिणो वनस्पतेरेकदेशे शिरीषादौ वर्तमानोऽपि तालादिषु अवर्तमानो न चैतन्यानुमानाय प्रभवति अव्यापित्वात् तथा वृक्षशब्दोऽपि अवृक्षव्यावृत्त्यर्थो वृक्षस्वार्थांशवृत्तिर्नानुमानाय नाभिधानाय प्रभवति ।" इति वक्ष्यते नयचक्रवृत्तौ अष्टमारे ॥ ४ दृश्यतां पृ० २६० दि० ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org