________________
उत्पत्तिविनाशस्थितीनामैकाधिकरण्यखण्डनम् ] द्वादशारं नयचक्रम्
४२७ है अथोत्पादैकाधिकरण्ये दोषदर्शनात् तदेव विनश्यति तदेवावतिष्ठते । अत्रापि तथा वा सर्वथा वा अवतिष्ठमाने कुतो विनाशो विनाशे वावस्थानम् ? इति त एव खवचनादिविरोधाः क्षणिकवादातिशयनादि च पूर्ववत् । ___ अथोच्यत-उत्पादविनाशपूर्वतायामेते दोषा मा भूवनिति तदेवावतिष्ठते तदेवोत्पद्यत इत्युच्येत । अत्रापि तथा वा सर्वथा वा उत्पद्यमानेऽवस्थानं कुतः, अवतिष्ठमाने वोत्पत्तिः ? इति त एव स्ववचनादिविरोधाः क्षणिकवादातिशयनादि । - अथ यदेवावतिष्ठते तदेव विनश्यति, अत्रापि तथा वा सर्वथा वा विनश्यति कुतोऽवस्थानम्, अवस्थाने वा विनाशः? इति पूर्ववत् स्ववचनादिविरोधाः क्षणिकवादातिशयनादि शून्यता वा। अवतिष्ठते वान्वयः, विनश्यति व्यतिरेकः । अनन्वयगोचरव्यतिरेकमात्रोपलब्धेश्च 'तदेवावतिष्ठते तदेव विनश्यति' इति पूर्ववत् त 10 एव खवर्चनादिविरोधाः । अवस्थितार्थविनाशाभ्युपगमेनाशेषसाधनावयवध्वंसः,
___ अथोत्पादैकाधिकरण्य इत्यादि द्वितीयविकल्पे विनाशप्रधानस्थितिपक्षेऽनन्तरोद्वाहितेऽपि उक्तवदेव दोषाः स्थानाभिधानेन तु योज्याः, योजनादिक्प्रदर्शनं तु तथा वा सर्वथा वेति स्थितिप्रकारेण विनश्येत् उत्पत्तिस्थितिविनाशप्रकारेण वा "विनश्येत् इति विकल्प्यते । उत्पत्तिप्रधानविकल्पाभिहितदोषवदत्रापि विनाशप्राधान्येन स्थित्या सह योजितं तथा वा सर्वथा वा विनश्यति अवतिष्ठमाने कुतो विनाशः १ 15 विनाशे वा कुतोऽवस्थानम् ? इति त एवाधिकृताः स्ववचनादिविरोधाः क्षणिकवादातिशयनादि च पूर्ववत् । एवं तावदुत्पादपूर्वयोर्विनाशपूर्वयोश्चोत्पाद स्थितिविकल्पयोर्दोषा उक्ताः। . अथोच्येत-उत्पादविनाशपूर्वतायामित्यादि पूर्ववदुच्चार्य दोषांश्चानुमत्य त्यक्त्वा चतुरोऽपि विकल्पानिमौ निर्दोषौ विकल्पावित्याश्रयेत् । तत्राद्यस्तावत् तदेवावतिष्ठते तदेवोत्पद्यत इत्युच्येतेत्यादि यावत् क्षणिकवादातिशयनादीति पूर्ववदत्रापि व्याख्या कार्या 'अवतिष्ठमीने' इत्युच्चारणेन तु "योज्य इति । 20 . अथ यदेवावतिष्ठते तदेव विनश्यतीति स्थितिपूर्वद्वितीयविकल्पेऽपि व्याख्यानं तदेव योज्यं यावत् क्षणिकवादातिशयनादीति गतार्थं शून्यता वेति । अस्मिन् विकल्पेऽन्यथापि दोषाभिधित्सयाहअवतिष्ठते वान्वय इत्यादि यावत् स्ववचनादिविरोधा इति । अनन्वयगोचरेत्यादि, अवस्थानमन्वयः, व्यतिरेको विनाशः, अन्वयशून्यो व्यतिरेक एवानन्वयः, स एव गोचरो व्यतिरेकः, अर्थशून्यो विनाश एव इत्यर्थः । तन्मात्रोपलब्धेश्च सर्वत्रैव "बीजाङ्कुरपत्रादौ तदेवावतिष्ठते तदेव विनश्यति' इतीत्थमपि व्यप-३०४-१ देशो न सम्भवतीति पूर्ववत् त एव विरोधा अनेनापि प्रकारेणेति । एवं तावत् पक्षदोषा अभिहिताः । न" केवलं पक्षदोषा एव, किं तर्हि ? अवस्थितार्थविनाशाभ्युपगमेनानेन भवतोऽशेषसाधनावयवा . १ दृश्यतां पृ० ४२४ पं० २॥ २ (इत्युच्यते ?)॥ ३ (चान्वयः ?)॥ ४ दृश्यतां पृ० ४२७ टि० १३ ॥ ५विनाशादिति भा० । विनाशाविति य०॥ ६ 'योजितव्यम्' इत्यपि पाठोऽत्र स्यात् ॥ ७ दृश्यतां पृ० ४२५ टि. ७॥ ८ मत त्यक्त्वा प्र०॥ ९ इत्युच्यतेत्यादि य० । (इत्युच्यत इत्यादि )॥ १०°मान प्र० ॥ ११ अत्र 'प्रन्थः' इति शेषः । व्याख्याया विवक्षितत्वे तु योज्या इत्येव समीचीनः पाठः कल्पनीयः ॥ १२ व्याख्यातं तदेष य० । व्याख्याततदेव भा०॥ १३ इत्यादि यावत् स्ववचनविरोधा इति य० । इत्यादिविरोधा इति भा०॥ १४ 'त्यादि २ अवस्था भा० । 'त्यादि २ अनवस्था य० ॥ १५ बीजेकुर" प्र०॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org