________________
४२६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [षष्ठे विधिनियमविध्यरे तदेवावतिष्ठते इत्युत्पत्तिरेवावस्थानमित्यापन्नम् , उक्तस्थितित्यागात् , अंतश्च क्षणिक त्वापत्तिः, उभयात्यागाभिमती वानेकान्तापत्तिः।
____ अथोच्येत-उत्पादपूर्वत्व एते दोषा मा भूवन्निति तदेव विनश्यति तदेवोत्पद्यते । अत्रापि यदेव विनश्यति बीजं तदेवोत्पद्यत इत्यङ्कराप्रादुर्भाव एव प्राप्त । इति पूर्ववत् खैवचनादिविरोधाः तत्पूर्वपत्राद्यपोहाच लोकादिविरोधाः । तदेव विनश्यति तदेवोत्पद्यते इति क्षणिकवादातिशयनादि च पूर्ववत् ।
त्पत्तिरूपत्वात् । तस्मादनुत्पन्नमस्थितं खपुष्पादि, तद्वैलक्षण्येन यदेव उत्पद्यते तदेवावतिष्ठते, नानुत्पत्तिकम३०३-१ वतिष्ठते, तस्मादुत्पत्त्यनुमितमेवावस्थानं द्रव्यस्येति । अत्रोच्यते - एवं सति यदेवेत्यादि यावत् क्षणिक
स्वापत्तिरिति । इत्थं तीदं व्याख्यानं संवृत्तम् - यदेवेति यस्मादित्यर्थः अव्ययत्वाद् यच्छब्दस्य, यत एवो10 त्पद्यते तत एवावतिष्ठत इति प्रागुक्तोत्पत्तृस्थात्रैक्यवदुत्पत्तिस्थित्यैक्यापत्तिः, अत उत्पत्तिरेवावस्थानमित्यापन्नम् , किं कारणम् ? उक्तस्थितित्यागात् , उत्पत्तिरेव स्थितिरित्यनुमिमानेन स्थितिरुत्पत्तिरेव कृतेति योक्ता व्यापिस्वतत्वानुमतांशुतन्तुवत् तु प्रदीर्घद्रव्यपूर्वोत्तरावस्था स्थितिरिति सा त्यक्ता स्यात्, तत्त्यागादुत्पत्तिरेवावस्थानम् , न स्थिति ना काचिदित्यतश्च क्षणिकत्वापत्तिः, उत्पद्यत उत्पद्यत एव नावतिष्ठते किञ्चिदिति 'सर्वं क्षणिकम्' इत्युक्तं भवति । स्यान्मतम् – क्षणिकत्वदोषो मा भूदिति 'केनचित् प्रकारेण 15 स्थितम् , उत्पद्यते केनचित्' इतीष्यत इति । ततश्च उभयात्यागाभिमतौ वानेकान्तापत्तिः, यदि स्थित्युत्पत्ती न यक्त त्वया ततस्तेऽभ्युपगमविरोधिनी स्याद्वादप्रक्रिया अनेकान्तवस्तुतत्त्वा आपद्यत इति ।
.. अथोच्येत-उत्पादपूर्वत्व एते दोषा इत्यादि । 'यदेवोत्पद्यते तदेव विनश्यति, यदेवोत्पद्यते तदेवावतिष्ठते' इत्युभयोरुत्पादप्रधानयोर्विकल्पयोर्ये दोषास्तानपरिहार्यान् प्रत्युच्चार्यानुमत्य चासौ तौ विकल्पौ त्यक्त्वा विकल्पान्तरे निर्दोषे मन्यमानः श्रयेत विनाशप्रधाने । तत्राद्यस्तावद् विकल्पः-तदेव विनश्यति 20 तदेवोत्पद्यत इति । अस्मिन्नपि विकल्प दोष उच्यते-लोके तावत् प्रत्यक्षादिप्रसिद्धम् 'अङ्कुरोत्पत्तौ बीजं
विनश्यति' । तव पुनर्यदेव विनश्यति बीजं तदेवोत्पद्यते नाङ्कुर इत्यङ्कराप्रादुर्भाव एव प्राप्तः, इति३०३.२ शब्दस्य हेत्वर्थत्वात् ततश्च पूर्ववत् स्ववचनादिविरोधाः, तत्पूर्वपत्राद्यपोहाच्च लोकादिविरोधाः,
अङ्कुराभावेऽङ्करपूर्वाणां पत्रकाण्डनालपुष्पफलशूकादीनामुत्तरेषां लोके प्रत्यक्षादिप्रमाणप्रसिद्धानामङ्खराप
लापवदपलापाल्लोकादिविरोधाः, पूर्ववद् वचनलोकद्वाराभ्यां दोषाभिधानमिति । 25 तदेवेत्यादि, 'तदेव विनश्यति तदेवोत्पद्यते' इति वचनेनानन्यभूतस्यैकस्मिन्नेव काले विनाश उत्पादश्वेति क्षणिकवादातिशयः पूर्ववत् , भिन्नकालविनाशोत्पादो हि क्षणिकवादः, स चानेनातिशय्यते । आदिग्रहणादविनष्टानुत्पन्नास्थितत्वात् खपुष्पवद् बीजाङ्करशून्यता स्यादिति ।
१'उत्पत्तेश्च क्षणिकत्वापत्तिः' इत्यपि मूलं स्यात्, दृश्यतां टि० ७॥ २'प्राप्तः, ततश्च पूर्ववत् स्ववचनादिविरोधाः' इत्यपि मूलं स्यात् ॥ ३ दृश्यतां पृ० ४१८ पं० ४ ॥ ४ तव्यस्येति भा० । नव्यस्येति य० । अत्र तस्येति इत्यपि पाठः स्यात् ॥ ५क्यात्पत्तिः भा० । क्योत्पत्तिः य० ॥ ६ दृश्यतां पृ० ४२४ पं० ४ ॥ ७काचिदित्युत्पतश्च य० । काचिदित्यत्यतश्च भा० । अत्र काचिदित्युत्पत्तेश्च इत्यपि पाठः स्यात् ॥ ८ शयेत प्र० ॥ ९ सूकादी भा० । सूक्ष्मैकादी य० ॥ १० दृश्यतां पृ० ४१९ पं० ५॥ ११ दृश्यतां पृ० ४१९ पं० ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org