________________
उत्पादस्थित्यकाधिकरण्यखण्डनम् ] द्वादशार नयचक्रम्
४२५ इति प्रकल्पे बीजस्यांशूनां वा अनुत्पाद्यविनाशित्वाद् नित्यत्वादङ्कुरतन्त्वनुपपत्तिरेवेति त एव विरोधाः पूर्वस्तम्बनित्यत्वाद्वा बीजानुपपत्तेः।
स्तम्बोत्तरबीजोत्पत्तेस्तु अङ्कुरवत् स्थितिभिन्नोत्पत्तित्वात् सर्वस्य द्रव्यात्मनो. ऽनित्यताऽव्यापिता च पूर्वाद्यभाव एव वाऽभेदत्वात् ।। .. अथोच्येत-यदुक्तं भवति यदेवोत्पद्यते तदेवावतिष्ठत इति तदुक्तं भवति उत्पत्तिरूपमेवावस्थानमिति खपुष्पवैलक्षण्येनैवमेवोच्यते । एवं सति यदेवोत्पद्यते वतिष्ठते इत्युत्पत्तिस्थितिसामानाधिकरण्ये स्ववचनादिविरोधा न सन्ति, तस्य वस्तुनोऽवस्थामात्रभिन्नस्यानुत्पन्नाविनाशिनः स्थितस्यैवोत्पादादिति । अत्रोच्यते – एतस्मिन्नपि प्रकल्पे बीजस्य दार्टान्तिकस्य अंशूनां वा दृष्टान्तभूतानां वाशब्दादन्यस्य वा कस्यचिद् वस्तुनः प्रदीर्घस्य अनुत्पादित्वादविनाशित्वाच्च नित्यत्वम्, नित्यत्वात् स्थितिरेव नोत्पादविनाशाविति कुतोऽङ्कुरो बीजात् ? कुतोऽशुभ्यस्तन्तुः ? अतोऽङ्गुर-10 तन्त्वनुपपत्तिरेवेति । ततः किमिति 'चेत्, इति त एव विरोधाः, उत्पत्त्यभावात् पूर्ववत् स्ववचनादिविरोधास्तदवस्था एवेति । पूर्वस्तम्बनित्यत्वाद्वा बीजानुपपत्तेः 'त एव विरोधाः' इति वर्तते, ननु त्वदुक्तेनैव न्यायेन व्यापिस्वतत्त्वानुमतपूर्वस्तम्बबीजत्वं प्रदीर्घद्रव्यस्थितत्वं चेति पूर्वस्तम्बस्यानुत्पाद्यविनाशित्वाद् नित्यत्वम् , नित्यत्वाद् बीजानुपपत्तिः, अतोऽपि तदेव उत्पद्यते तदेवावतिष्ठते' इति स्ववचनादिविरोधा इति दूषणं न्यायस्य व्यापितां दर्शयति ।
16 अथ मा भूवनेते दोषा इति स्तम्बादुत्तरकालं बीजोत्पत्तिरिष्यते ततः स्तम्बोत्तरबीजोत्पत्तेस्तु, हेतोः अङ्करवदित्यादि । यथाङ्कुरो बीजादुत्पद्यमानः स्थितादन्य उत्पद्यते पूर्वदोषभयात् पूर्वस्तम्बाच्च बीजं तथा सर्वमपि स्थितिभिन्नोत्पत्ति, तस्मात् स्थितिभिन्नोत्पत्तित्वात् सर्वस्य द्रव्यात्मनोऽनित्यताऽव्यापिता च । यथाङ्कुरो बीजादिस्थितादुत्पन्नोऽनित्योऽव्यापी च तथा त्वदभ्युपगतप्रदीर्घद्रव्यात्मनोऽप्यनित्यत्वमव्यापित्वं च स्यात् तथैव । किञ्चान्यत् , एवं पूर्वाद्यभाव एव वाऽभेदत्वात् , 'पूर्वमिदं बीजादि, 20 उत्तरमिदमडरादि' इत्येतस्य वाऽभावः, कस्मात् ? अभेदत्वात् , अभिन्नं हि तद्वस्तु द्रव्यं न क्रिया, व्यापिखतत्त्वबीजाङ्कुरादिप्रादुर्भावस्य क्रियाविषयत्वात् तस्य प्रदीर्घत्वकल्पनाभ्रान्तित्वात् किं पूर्वम् ? किमुत्तरम् ? इति पूर्वोत्तरस्थित्युत्पत्तिकल्पवचनानुपपत्तिः ।
____ अथोच्येत इत्यादि यावत् खपुष्पवैलक्षण्येनैवमेवोच्यत इति । स्यात् परिहारार्थव्याख्याशङ्का - "तदेवोत्पद्यते तदेवावतिष्ठते' इत्यनेन वचनेन 'किमुक्तं भवति ? इति तदाचष्टे - यदुक्तं भवति यदेवो त्पद्यते तदेवावतिष्ठत इति तदुक्तं भवति इत्यर्थं कथयत्यनेन, वचनेनेति । स पुनरयमर्थ एवं कथितो भवति - उत्पत्तिरूपमेवावस्थानमिति कथितो भवति । यदि "नोत्पद्येतावस्थिताभिमतं नावतिष्ठेत अनु
१ वेदेति इति प्र० ॥ २ दूषणन्यायस्य प्र० ॥ ३ तश्चैव भा० । तव्वैव ही० । तवैव पा० डे० वि० '२०॥ ४चाभावः प्र०॥ ५ वि. विनान्यत्र द्रव्यमक्रिया प्र० । द्रव्यमक्रिया वि०॥ ६°ण्येनैवोच्यत
। ७** एतच्चिह्नान्तर्गतः र्थव्याख्या इत्यत आरभ्य अथोच्येत उत्पादविनाशपर्वतायामित्या [पृ. ४२७ पं०१८] इत्येतत्पर्यन्तः पाठो वि० २० ही० प्रतिषु नास्ति ॥ ८॥ एतचिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति । ९मकिमुक्तं भा०॥ १० नोत्पद्यतेवस्थि य०॥
नय०५४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org