________________
४२४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् षष्ठे विधिनियमविध्यरे .. अथ विनाशसामानाधिकरण्ये दोषदर्शनात् तदेवोत्पद्यते तदेवावतिष्ठते, अत्रापि तथा वा सर्वथा वा अवतिष्ठमाने उत्पत्तिः कुतः, उत्पद्यमाने वावस्थानम् ? इति ववचनादिविरोधाः पूर्ववत् ।
यापिखतत्त्वानुमतांशुतन्तुवत्तु प्रदीर्घद्रव्यपूर्वोत्तरावस्था बीजाङ्कुरत्वादय
B एवं तावदुत्पादविनाशयोः संयोगेनायं विकल्पः सप्रसङ्गपरिहारप्रच!ऽभिहितः तथा वक्ष्यमाणेषू३०१-२ पादस्थितिसंयोगे स्थित्युत्पादसंयोगे स्थितिविनाशसंयोगे विनाशोत्पादसंयोगे विनाशस्थितिसंयोगे त्रिकादि
संयोगेषु च समानः प्रच! द्रष्टव्यः 'यदेव उत्पद्यते तदेव विनश्यति' इत्यतः प्रभृति यावदयमवधिरिति, ग्रन्थयोजनया योजयिष्यते।
अथ विनाशसामानाधिकरण्ये इत्यादि । उत्पादविनाशैकाधिकरण्ये दोषदर्शनाद् निर्दोषोय:10मिति विकल्पान्तरमाश्रीयते - तदेव उत्पद्यते तदेवावतिष्ठत इति । अत्रापि न निर्दोषमेवेति ब्रुमः, अत्रापि हि द्वयी गतिः तेनापि उत्पत्तिप्रकारेणावतिष्ठमाने यद्वा उत्पादेनैवावतिष्ठमानं तदेवोत्पद्यते तदेव विनश्यति चेति यद्वा स्थित्युत्पत्तिविनाशप्रकारैः सर्वथावतिष्ठमानं तदेवोत्पद्यते तदेव विनश्यति च' इत्युच्यते ? यदि तथोत्पादेनैव अवतिष्ठमानमुत्पद्यते विनश्यतीत्युच्यते तत उत्पादेनैवावस्थितत्वात् "किमिति पुनरुत्पद्यते ?
अथ सर्वथाप्यवतिष्ठमानमुत्पद्यत इति उच्येत ततस्त्र्यात्मकं सत् कथमुत्पद्यते ? उत्पत्तिरूपस्य चावस्थित15 त्वाद्, नोत्पद्यत इति उत्पत्तिद्विधापि कुत इति, असम्भव इत्यर्थः । अस्ति चोत्पत्तिः । उत्पद्यमाने वावस्थानं 'कुतः' इति वर्तते । यद्युत्पद्यते कथमवतिष्ठते ? यद्यवतिष्ठते कथमुत्पद्यते ? इति स्ववचनविरोधः पूर्ववदिति, यथाङ्कुरोत्पत्तिविनाशकाधिकरण्योदाहरणे स्ववचनादिविरोधास्तथात्राप्युत्पत्तिस्थितिसामानाधिकरण्ये योज्या इति ।
व्यापीत्यादि यावत् प्रकल्प इति । स्यान्मतम् – यथा स्वतत्त्वानुमतांशुतन्तुवत्तु, व्याप्नोतीति 20व्यापी, अविशेषितत्वात् सर्वस्य व्याप्यस्य कार्यस्य व्यापकं कारणमुच्यते व्यापीति । 'व्यापिनः स्वतत्त्वमेव' ३०२.१ इत्यनुमतोंऽशुस्त्वयापि द्रघ्यार्थवादाश्रयिर्णी, व्यापि स्वतत्त्वमस्येति वा विग्रहः, स च व्यापिस्वतत्त्वानुमतोंs
शुरेव तन्तुाप्यः, कारणमयत्वात् कार्यस्य । किमुक्तं भवति ? यथांशुमयस्तन्तुरतोंऽशुरेव तन्तुरिति दृष्टान्तः अंशुरपि तन्तुस्तन्तुरप्यंशुरिति वा, तथा बीजमयोऽङ्कुरो बीजमेवारः अङ्कुरोऽपि बीजं बीजमप्यकुर इति वा दार्टान्तिकः । तद् वर्णयति -- प्रदीर्घद्रव्येत्यादि, प्रकृष्टदीर्घत्वस्य द्राधीयसो द्रव्यस्य मेर्वादेरिव पूर्वोत्तरतया 25 स्थित्युत्पत्तिविनाशावस्था ब्यापिस्वतत्त्वानुमतबीजाङ्कुरत्वादय इति, अस्मिन् प्रकल्पे तदेवोत्पद्यते तदेवा
१ दृश्यतां पृ० ३०३-२॥ २ दृश्यतां पृ० ३०३-१॥ ३ दृश्यता पं० १॥ ४ दृश्यतां पृ० ३०३-२॥ ५ दृश्यता पृ. ३०४-१॥ ६ दृश्यतां पृ. ३०३-१॥७ दृश्यतां पृ. ३०३-२॥ ८ दृश्यतां पृ० ३०४-२॥९'समानप्रचों द्रष्टव्यः' इत्यपि पाठोऽत्र स्यात्, 'समानप्रच) विकल्पः' इत्याशयः॥ १० दृश्यतां पृ० ४१८ पं० १॥ ११ अयं विकल्प इत्यर्थः ॥ १२द्यते देव विन भा० । 'द्यते विनय०॥ १३ स्थित्युत्तिप्र०॥ १४॥ एतच्चिदान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ १५ उत्पत्तिर्विधापि प्र. ॥ १६ दृश्यतां पृ० ४१८ पं० ४ ॥ १७ नुनातांशुप्र०॥ १८ णो प्र० ॥ १९ स्या प्र.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org