________________
उत्पादविनाशैकाधिकरण्यखण्डनम ] द्वादशारं नयचक्र में
४२३
द्रव्यभेदनिषेधाद् द्रव्यमात्राभ्युपगमाद् व्यक्तिधर्मत्यागाद् व्यक्तिकारणाभावात् । अहेतुतो वा व्यक्ताव्यक्तेरपि तद्वत्तेति नित्यमेव व्यक्तिरव्यक्तिर्वा सर्वस्य स्यात् । परिणामाद् नैवमिति चेत्, न उक्तदोषतुल्यत्वात् ।
1
भूदकादिद्रव्यजातमुपलभ्यते यथा न तु तथा तद्द्रव्यव्यतिरिक्तम्, 'यदेवोत्पद्यते तदेव विनश्यति' इति द्रव्यं स्वावस्था विभागं ब्रुवता त्वया न ततोऽन्यः संयोगः संयोगी वाभ्युपगम्यते द्रव्य क्रियापृथग्भूतः द्रव्य - 5 स्वावस्थामात्रत्वादुत्पादादीनाम् । किं कारणम् ? क्रियास्वावस्थाद्रव्यभेदनिषेधात्, 'उत्पादादयः क्रियायाः स्वावस्था:' इत्येतं पक्षं 'द्रव्यस्यापि परस्परभिन्नाः सन्त्योऽवस्थाः' इत्येतं च पक्षं यस्माद् निषिद्धवन्तो वयं द्रव्यनिर्मूलत्वादिदोषात् । तस्मादभ्युपगतं त्वया न किञ्चिद् द्रव्यव्यतिरिक्तमस्तीति । ततश्च तदभ्युपगमाद् व्यक्तिधर्मस्त्यक्तः, तद्विपर्ययधर्मणो द्रव्यमात्रस्याभ्युपगमात् । तत्त्यागाच्च व्यक्तिरनुत्तरमेव व्यक्तिकारणाभावादिति ।
स्यान्मतम् - निर्हेतुका व्यक्तिरव्यक्तिर्वा द्रव्यधर्मः स्वभावः । यथोक्तम् -
सुदूरमपि सन्धाय सङ्गीणासूपपत्तिषु ।
न स्वभावागमावन्ते कश्चिन्न प्रतिपद्यते ॥ [
१ परिस्पभिन्नाः य० । पस्पभिन्नाः भा० ॥ २ द्रव्यव्यतिमस्तीति य० । द्रव्यतिमस्तीति भा० ॥ ३ द्रव्ये धर्मः भा० ॥ ४ “सुदूरमपि गत्वेह विहितासूपपत्तिषु- । कः स्वभावागमावन्ते शरणं न प्रपद्यते ॥ १२३ ॥” इति हरिभद्रसूरिविरचिते शास्त्रवार्तासमुच्चये समुचितायां कारिकायां पाठः ॥ ५ वा व्यक्तेव्यक्तेरपि पा० वि० । वा व्यक्तेरपि पा० वि० विना ॥ ६ 'तुका तथैवा प्र० । ( 'तुका ते तथैवा ? ) ॥ ७ अत्र 'रोत्पत्तिः इत्यपि पाठः स्यात् । दृश्यतां पृ० ४२३ पं० २३ । तुलना - "अथ कोऽयं परिणामः ? अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः ।" इति पातञ्जलयोगदर्शन वैयासिकभाष्ये ३।१३ ॥ ८ दृश्यतां पं० २० ॥ ९ दृश्यतां पृ० ४१६ पं० २ ॥
] इति । एतच्चायुक्तम्, अहेतुतो वो [ व्यक्तौ अव्यक्तेरपि तद्वत्तेति, तेन तुल्यं तद्वत्, तद्भाव स्तद्वत्ता, व्यक्तिवद्भाव इत्यर्थः । कथम् ? यथा व्यक्तिर्निहर्तेका तथैवाव्यक्तिरपि निर्हेतुका । ततः किमिति चेत्, 15 उच्यते- इति नित्यमेव व्यक्तिरव्यक्तिर्वा सर्वस्य स्यात् निर्हेतुकत्वात् मृदवस्थायां घटाव्यक्तिवद् घटावस्थायामव्यक्तिर्घटस्य स्यात्, घटावस्थायां घटव्यक्तिवद् मृदवस्थायां व्यक्तिः स्यात्, मृत्पिण्डे घटव्यक्तिवद् गगनेऽपि स्यात्, वियत्यव्यक्तिवद् मृद्यप्यव्यक्तिर्वा स्यादित्यादि ।
परिणामाद् नैवमिति चेत् । स्यान्मतम् - यथा स्वयोक्तं न तथा भवितुमर्हति परिणामाभ्युपगमात्, अवस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्तौ धर्मान्तरापत्तिः परिणामः, तस्माद् मृत्पिण्डशिवकादिपरि- 20 णामैः स्थित्युत्पत्तिविनाशा भविष्यन्ति, न निर्हेतुकाः । तस्मादेव परिणामाद् व्यक्त्यव्यक्ती च स्त इति एतदपि न, उक्तदोषतुल्यत्वात् । य एतेऽस्माभिर्भावस्वावस्थात्वपक्षे द्रव्यस्वावस्थात्वपक्षे च भिन्नाभिन्नात्मकद्वैधे दोषा उक्तास्ते तुल्या एव परिणामपक्षेऽपि द्रष्टव्याः परिणामावस्थयोः श्रुतिमात्रभेदात्, “उत्पत्तिप्रादुर्भावत्वात् 'विनाश' निवृत्तित्वात् 'अवस्थितस्य' इति च स्वशब्देनैव स्थितिवचनात् । परिणामोच्चारणेन च नन्वेवमुभयमपि अवस्तु इत्यादिरादितो ग्रन्थो योज्यो यावदयमेवावधिरिति । तस्मादपरिहारः परिणामः | 25
Jain Education International
10
For Private & Personal Use Only
३०१-१
www.jainelibrary.org