________________
४२२
न्यायागमानुसारिणीवृस्य लङ्कृतम्
[ षष्ठे विधिनियमविध्यरे
एव भवनभागा अभिव्यज्यन्ते तांश्च भावोऽपि तथाभिव्यनक्ति तथा उत्पत्तिस्थितिविनाशा अभिन्नस्यैवावस्थाः स्युः ।
नन्वस्माभिरपीदमुक्तम् – अनन्यत्वाद् द्रव्यखावस्थात्वे सति अविरोधात् पूर्वोत्तराभावादभिभवैक्यानापत्तेरविद्यमानपार्थक्यात् कस्यचिद् व्यक्त्यव्यक्ती नोपपद्येते, कुत उत्पादादिः ?
अपि च लोकप्रतीतव्यक्तिधर्मविपरीतत्वादुत्पादाद्यभावः, क्रियाखावस्था
कॅत्वाद् भिन्नयोरप्यभेदः तथा बीजाङ्कुरादिभेद इत्यभिप्रायः । यथा मृदः कुम्भावस्था युगपद्भाविनां रूपरसा३००-१ दीनामयुगपद्भाविनां च शिवकादीनां नियतानि भवनानि, मृद्रव्यस्यैव कर्तृभवनस्य रूपादिशिवकादित्वेन तेन प्रकारेण नियता एव भवनभागा मायाकारकपताकिकावद् नानियताभिव्यक्तयोऽभिव्यज्यन्ते प्रथमभवन10 शब्दस्य कर्तृभवनार्थत्वात् । तांश्च भवनभागान् क्रियापि तथाभिव्यनक्ति नान्यथा, भावशब्दस्य द्वितीयस्य क्रियावाचित्यात् । यदि भिन्नस्य मृत्कुम्भाद्ययुगपदवस्था रूपादिपृथिव्यादियुगपदेवस्था वा स्युः तास्तस्य मृद्रव्यस्यैव न स्युः, कस्मात् ? अन्यतरेणावरुद्धावकाशत्वाद् घटपटादिवत् । भवन्ति चैकस्य । तस्मादभिन्नमृत्कुम्भावस्थावदुत्पत्तिस्थितिविनाशा अभिन्नस्यैवावस्थाः स्युः, को दोषः ? इति ।
अत्रोच्यते - नन्वस्माभिरपीदमित्यादि यावत् कुत उत्पादादिरिति । नन्वस्माभिस्ते एव नोपio पैद्येते इत्युक्तं 'व्यक्त्यव्यक्ती' इत्यभिसम्बध्यते तथानियतभवनभागद्रव्यावस्थाया व्यञ्जनमव्यञ्जनं वेति । कस्मात् ? अनन्यत्वात् सर्वस्य सर्वात्मकत्वाच्च । तच्चानन्यद् द्रव्यमेव, तस्य च स्थित्युत्पत्तिविनाशा अनन्ये, किं कारणम् ? त्याभ्युपगतानां स्थित्यादीनां द्रव्यस्वावस्थात्वात्, 'द्रव्यस्यैव स्वावस्थाः स्थित्यादयः परस्परतोऽनन्याः' इति हि समाश्रितस्त्वयायं पक्षः, परस्परभिन्नस्थित्यादीनां द्रव्यस्वावस्थात्वे सर्वपक्षार्थ - ध्वंसित्वभयात् । तस्माद् द्रव्यस्वावस्थात्वादविरोधः स्थित्यादीनाम्, न यथा स्वप्नजागरणयोर्विरोधः । 20 तस्माद् द्रव्यस्वावस्थात्वादविरोधः । अविरोधाच्चानन्यत्वमासाम् । अनन्यत्वाच्च 'पूर्वमिदम्, उत्तरमिदम्' इति क्रमभाव:, ततः पूर्वोत्तराभावात् कः केनाभिभूतो येनैक्यमापद्येरन् स्थित्यादयः यत एतत् स्यात् 'इयमनया क्रिययाभिव्यज्यतेऽवस्था नेयम्' इति च । कस्मात् ? अविद्यमानपार्थक्यात् पृथक्सद्धानां हि `ऐक्यापत्तिः स्यात् सति अविरोधे तन्तुपटत्ववत् । तस्मादभिभवैक्यानापत्तेः पूर्वोत्तराभावात् द्रव्यस्वावस्थात्वे सति अविरोधादनन्यत्वात् कस्यचिद् व्यक्त्यव्यक्ती नोपपद्येते । कुतस्तदनुपपत्तेः 25 तथानियतभवनभागर्व्यक्त्यव्यक्तिभावाभ्यामुत्पादादिभेदः ? इति तदवस्थो दोषः ।
3
किचान्यत्, अपि चेत्यादि । अभ्युपगम्याभिन्नार्थैक्यापत्तिविषये व्यक्त्यव्यक्ती लोकप्रतीतव्यक्तिधर्मविपरीतत्वादुत्पादाद्यभाव इति ब्रूमः । लोके हि पूर्ववृत्तिव्यतिरिक्तो व्यञ्जकः प्रसिद्धोऽन्यः उदकाञ्जनदीपादियोगो भूगन्धचक्षुरिन्द्रियशक्त्यभिव्यक्तिघटादिदर्शन हेतुर्यथासङ्ख्यम्, युजिक्रियासाधनभूयोगि च
३००-२
१ क्रियापि नक्ति य० ॥ २ दृश्यत पं० २५ ॥ ४ पंद्यते भा० । ७ भुजिय० ॥
Jain Education International
एतचिहान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ३ उत्पातादि प्र० । पद्यते य० ॥ ५ क्यान्यपत्तेः प्र० ॥ ६ व्यक्तव्यक्ति प्र० ॥
For Private & Personal Use Only
www.jainelibrary.org