________________
उत्पादविनाशैकाधिकरण्यखण्डनम्] द्वादशारं नयचक्रम्
४२१ स एव विनश्यति, तथा घटत्वेन विनश्यन् घटत्वेनोत्पद्यते शिवकत्वेनेव विनश्यंइछत्रकत्वेन । अयमपरिहार उक्तोत्तरत्वात् , शिवकेनैवोत्पत्तौ शिवकेनैव विनंष्टव्यं ततोऽभिन्नत्वात् घटोत्पादवत् । एवं त्वनुत्पत्तौ विनाशस्याप्यभावाद् घटादिभवनाभावः, भवनसम्बन्धव्यतिक्रमाभावात् सर्वमभूतं नास्तीत्येवमाद्यापद्यते।।
अथोच्येत-ऐक्य एव मृत्कुम्भावस्थयोः मृगव्यस्यैव भवनस्य तथानियता:
तदेव विनश्यति' तत्रानुत्पत्त्यविनाशववचनविरोधादिक्षणिकवादातिशयशून्यतादोषा न सम्भवन्ति प्रत्यक्षवचनादीनां तथात्वात् , यस्माद् घट उत्पद्यमान एव शिवकत्वेनोत्पद्यमानः पिण्डत्वेन विनश्यति पूर्वोत्तरकालयोरपि सद्रव्यपृथिवीमृत्त्वाभेदवद् घटाभेदात् पिण्डावस्थायां शिवकाद्यवस्थायां मृदादियावत्परमाण्यवस्थायां कपालादियावत्परमाण्ववस्थायां च घट एव इति स एवोत्पद्यते स एव विनश्यति, 'इति'शब्दस्य हेत्वर्थत्वात् उक्तहेत्वर्थत्वात् तस्माद् घट एव पिण्डत्वेनोत्पद्यमानः शिवकत्वेन विनश्यति, तस्माद् 10 नानुत्पत्त्यादिदोषाः । यथा च पिण्डत्वेनोत्पद्यमानः शिवकत्वेन घट' एव विनश्यति तथा पुनर्घटत्वेन विनश्यन् 'घटत्वेनोत्पद्यते, किमिव ? शिवकत्वेनेव विनश्यंश्छत्रकत्वेन, यथा शिवकत्वानन्तरं छत्रकत्वं जायमानं तदोत्पन्नं विनष्टं च तथा देशान्तरभावान्तरान्तरितघदविनाशर्घटसम्भवयोरपि अभेदो वस्तुत्वादिभ्यः पिण्डशिवकत्ववदिति ।
अत्रोच्यते - अयमपरिहार उक्तोत्तरत्वात् , नन्वत्रोक्तमेव प्रागकुरस्यैव विनाशित्वादिदोषजातम् , 15 तस्य पिण्डशिवकसंज्ञामात्रपृथकृतादुक्तिमात्रभेदाद् न परिहारो भवति, यस्मादर्थतो यदेव 'शिवकोत्पत्तौ शिवकेनैव विनाशः' इति तदेव 'अङ्कुरोत्पत्तावडरेणैव विनाशः' इत्युक्तम् । ततोऽयं ते दोषो बलादापात्यते - शिवकेनैवोत्पत्तौ शिवकेनैव विनंष्टव्यमिति । किं कारणम् ? ततोऽभिन्नत्वात् , यतो यदभिन्नं तदुत्पत्तौ तेनैव विनंष्टव्यम् , यथा त्वदुक्तानन्तरघटोत्पादेवदिति । एवं त्वनुत्पत्तावित्यादि । एवं चेदुत्पत्तिर्नेष्यते तस्यैवावस्थितस्य घटस्य नैवोत्पत्तिरस्ति अत्यन्तं घटाख्याद् भावादन्यत्वात् खपुष्पवत् , अनुत्पन्नस्य च विनाशा-20 भावः खपुष्पवदेव, विनाशस्याप्यभावाद् घटादिभवनाभावः, अपिशब्दादुत्पत्तेरप्यभावाद् घटादीनामुत्पत्तिविनाशशून्यत्वाद् भवनाभावः अस्तित्वाभावः, उत्पत्तिविनाशौ हि भवनसम्बन्धः, तद्वयतिक्रमस्य चाभावात् सर्वमभूतं नास्तीत्येवमादि आपद्यते । आदिग्रहणादवस्तु असद् अभावो निरुपाख्यमित्यादि ।
अत्र पुनः परिहारः- अथोच्येतैक्य एवेत्यादि । यथा सत्येवैक्ये मृत्कुम्भावस्थयोः सर्वसर्वात्म
१ अत्र प्रतिषु 'घटत्वेनोत्पद्यते' इति पाठः प्रतीकत्वेन टीकायामुपलभ्यते, अग्रे तु यद्यपि 'घटत्वेन विनश्यन् पटत्वेनोस्पद्यते..... देशान्तरभावान्तरान्तरितघटविनाशपटसम्भवयोरपि' इति पाठ उपलभ्यते तथापि तत्र 'पट'शब्दस्थाने 'घट'शब्द एवोचित इति भाति । यदि तु नेदं रोचते तर्हि अत्रापि पटत्वेनोत्पद्यते इति अग्रेऽपि च 'घटत्वेन विनश्यन् पटत्वेनोत्पद्यते.....देशान्तरभावान्तरान्तरितघटविनाशपटसम्भवयोरपि' इति पाठः खीकर्तव्यः ॥ २ “अभूतं नास्तीत्यनान्तरम्”-वै० सू० ९।१।९ । दृश्यतां पृ. ३०८-२॥ ३ भेदतद्धटाभेदात् प्र०॥ ४ हेत्वर्थात् उक्तहेत्वर्थात् य० ॥ ५ पटत्वे प्र० । दृश्यतां टि० १॥ ६ पटस' प्र० । दृश्यतां टि० १॥ ७°कत्वसं य० ॥ ८ दृश्यतां पृ. ४१८ पं० ३ ॥ ९ ततोऽयं । त दोषो भा० । ततोऽयं दोषो य०॥ १० 'दविति य० ॥ ११ सम्बन्धतद्वयति य० । सम्बन्धवद्वयति भा०॥ १२ सर्वासर्वात्म य० । सर्वात्म भा०॥.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org