________________
४२०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [षष्ठे विधिनियमविध्यरे दिति भेदस्याभेदस्य चाव्याघातः । एवं तर्हि पृथिवीत्वजातिमात्रमभिन्नं द्रव्यैकत्वविघातकम् , बीजस्य अङ्करस्य च नानात्वम् । तस्मान्न तदेवोत्पद्यते तदेव विनश्यति। ततश्च यथा बीजमङ्करात् पृथगेवेष्यते तथा पश्चिादित्वमपि पार्थिवत्वाद् भिन्नमेषितव्यमिति भेदनिर्भेदद्रव्यनिर्मूलनम् । 5 अपि च त्वयैवापादितं भेदबहुत्वं द्रव्यैकत्वविघाति, तत्परिहारार्थमुत्थितेन पार्थिवत्वमपि नानवोत्थापितम् । भेदकं चाभेदकादन्यदभेदकं च भेदकात्, भेदकत्वादभेदकत्वात् , यथा द्रव्यक्रिये।
ननु घट उत्पद्यमान एव शिवकत्वेन पिण्डत्वेन विनश्यति इति स एवोत्पद्यते
, भेदात् तत्कालौ च स्त इति नानित्यशून्यते दोषाविति । अत्रोच्यते - एवं तहरीत्यादि यावद् न तदेवोत्प10 द्यते तदेव विनश्यतीति । अयमिदानीमस्मत्परिकल्पितो भेद एवापतितस्तवापि अश्मसिकतामृल्लोष्टवत्रादि
भेदे सति पृथिवी नाम न कदाचिदन्यास्ति तद्वयतिरेकेण, किन्तु पृथिवीत्वजातिमात्रमभिन्न तद्भेदव्यापि । तच्च 'द्रव्यमेकम्' इत्यस्य त्वत्पक्षस्य विघातकं जातिमात्रमभिन्नं शेषं सर्वं भिन्नमिति सिध्यति, वीजस्य अङ्करस्य च नानात्वम् , बीजाद् विनश्यतोऽन्योऽङ्कुर उत्पद्यमानत्वात्, विनंष्टुम॒तादन्य इव देवदत्तो यज्ञदत्तादुत्पद्यमान इति । तस्माद् न तदेव उत्पद्यते तदेव विनश्यति, अन्यनिवृत्त्यर्थावधारणस्य भेद15 सत्यत्वे सति आनर्थक्यात् । ततश्च यथा बीजमित्यादिदृष्टान्तः। यथा अङ्करादिकालेषु भिन्नेष्वपि व्रीहित्व
सामान्याभेदे सति पृथगेव बीजमङ्करादिष्यते मा भूत् पूर्वोक्तोऽनुत्पादादिदोष इति त्वया तथा पांश्वादित्वमपि पांशुमृत्पिण्डादित्वमपि पार्थिवत्वाद् भिन्नमेषितव्यम् । ततः किमिति चेत्, ब्रूमः - इति भेदनिर्भेदद्रव्यनिर्मूलनम् , इत्यस्मात् पाश्वादित्वभेदाभ्युपगमात् सर्वप्रभेदनिर्भेदं द्रव्यं न भवति । ततश्च लक्षणाभावाद् द्रव्यमेव निर्मूलितं त्वयेति । 20 अपि चेत्यादि । त्वयैवापादितं भेदानां बहुत्वं द्रव्यैकत्वविघाति । कतमेन वचनेन इति चेत्,
'पार्थिवत्वादेकत्वमुत्पत्तुर्विनंष्टश्च नेतरद्रव्यांशीभ्यां बीजाङ्कुराभ्याम् , ताभ्यां चानेकत्वम्' इत्यनेन वचनेना२९९-१ पादितम् । किश्चान्यत्, इदमप्यन्यदनिष्टं तत्परिहारार्थमुत्थितेन त्वयापादितम् । कथम् ? यच्चोदितोऽसि
"बीजाङ्कुरनानात्वं क्षणिकातिशयः शून्यवादिता च भवतः' इति तत्परिहारार्थमुत्थितेन ननु पृथिवीद्रव्यत्वाभेद इत्यादिना वचनेन पार्थिवत्वमपि नानैवोत्थापितम् । कथमिति तदुच्यते - अभेदकं पार्थिवत्वम् , बीजादि 25 भेदकम् , भेदकं चाभेदकादन्यत् अभेदकं च भेदकात् , भेदकत्वादिति स्वभावभेदं हेतुत्वेनाह, इतश्च अस्मादन्यदभेदकत्वादिति, उभयोदृष्टान्तो द्रव्यक्रिये, यथा द्रव्यात् सर्वभेदनिर्भेदादन्या तथाभूतवस्तुत्वव्यक्तिलक्षणा क्रिया क्रियातश्च द्रव्यम् , तथा च पार्थिवत्वमभेदकत्वाद् बीजादेर्भेदकाद् भिन्नस्वभावं तद्वद् भेदकत्वात् नाना स्यात् क्रियाया इव द्रव्यमिति । ___ आह - ननु घट उत्पद्यमान इत्यादि याँवद् घटत्वेनोत्पद्यत इति । यत् त्वयोक्तं 'यदेव उत्पद्यते
१ मात्रभिन्नं प्र०॥ २त्यर्थव प्र०॥ ३ शाशाभ्यां प्र० ॥ ४ दृश्यतां पं० २॥ ५ दृश्यता पृ० ४१९ पं० १॥ ६ दृश्यतां पृ० ४१९ पं० ४ ॥ ७ यावत् य०॥ ८ दृश्यतां पृ० ४२१ टि. १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org