________________
उत्पादविनाशकाधिकरण्ये दोषप्रदर्शनम्] द्वादशारं नयचक्रम्
४१९ क्षणिकवादातिशयोऽतः, तद्यथा-तत्र हि उत्पादादन्यो विनाशक्षणः जातस्य विनाशात्, इह तु उत्पाद एव विनाशः प्रसक्तः क्रियार्थकालरहितद्रव्योत्पादादित्वात् । शून्यवादता वा, सर्वस्याविनष्टानुत्पन्नास्थितत्वात् खपुष्पवत् ।
ननु पृथिवीद्रव्यत्वाभेदे स्त उत्पादविनाशौ तत्कालौ च तदंशवीजाङ्कुरभेदा
लोकप्रतीतिद्वारेण सुखप्रतिपाद्यत्वादिति गतार्थम् । वचनद्वारेण तु प्राच्यं वाक्यम् , उक्त्याश्रयत्वादेषां । दोषाणामिति ।
__एवं तावदुत्पादविनाशाद्यंभावदोषः । न केवलमेत एव दोषाः, किं तर्हि ? 'अनित्यतादोषश्च । स च क्षणिकवादं वातिलङ्घय अनित्यत्वदोषोऽतिशयेन वर्तत इति । अत इत्यस्मादेव हेतोः, कस्मात् ? 'यदेव २९, उत्पद्यते तदेव विनश्यति' इत्यभ्युपगमात् । स चैवमनित्यत्वातिशयदोषः प्रदश्यते, तद्यथा-तत्र हीत्यादि। तत्र हि क्षणिकवादे न हि यदेव उत्पद्यते तदेव विनश्यति, किं तर्हि ? क्षणोऽस्यास्तीति क्षणिक इत्युत्पादा-10 दन्यो विनाशक्षणः उत्पत्तुर्विनंष्टुश्चेत्यभ्युपगम्यते, भिन्नस्य कालस्य क्षणाख्यत्वात् , तस्मिंश्च काले जातस्य विनाशाद् , न जायमानस्य । स हि क्षणिकवादी नैकमेवोत्पादक्षणं विनाशक्षणं चेच्छति एकस्योपत्तिभङ्गासक्तिभयात् । यथोक्तं यद्येकस्मिन् क्षणे जातः[
] इत्यादि । क्षणानां क्षणवर्तिनां च भेदात् 'जातस्य' इति च नाशनंष्टक्षणानां च भेदं सूचयति । इह तु 'यदेव उत्पद्यते तदेव विनश्यति' इति . वादे उत्पादे एव विनाशः प्रसक्तः क्रियार्थकालरहितद्रव्योत्पादादित्वात् , क्रियाशब्दवाच्योऽर्थः 15 क्रियैव वार्थः क्रियाप्रयोजनो वा कालः क्रियार्थकालः, स एव ते वैयाकरणस्येष्टः, यद्यप्यन्येषामन्यथा, यथोक्तम् - परिणामवती क्रियैव कालः [
] इत्यादि । तादृग्विधकालरहितं द्रव्यं क्रियास्मककालविनाभूतं तदेव उत्पादो विनाशोऽवस्थानं चेतीष्टत्वात् क्षणिकवादातिशायी अयं क्षणिकवादस्त्वदीय इति साधूक्तम् । नानित्यवादेऽपि तिष्ठति अनवस्थानादुत्पादादीनाम् , किं तर्हि ? शून्यवादता वा, यथा प्रागुक्तं सर्वस्याङ्कुरानुत्पादाविनाशवदनवस्थानमपीति शून्यतासाधनं गतार्थं यावत् खपुष्पवदिति । 20
___ ननु पृथिवीत्यादि यावदभेदस्य चाव्याघात इति । स्यान्मतम् - पृथिवीद्रव्यत्वं शिवछंदिष्वभिन्नम् , तस्मिंश्चाभिन्ने तदुत्पादविनाशयोश्चाभेदे सत्येव पृथिवीद्रव्यत्वेनानुत्पन्नाविनष्टत्वे सँत्यैक्ये च स्त उत्पादविनाशौ तत्कालौ च, तस्यैव पृथिवीद्रव्यत्वस्य चाँशाभ्यां बीजाकुरींख्याभ्यां भेद इत्यस्ति .. भेदः कारकसद्भावादित्युत्पत्तिरस्ति तथा विनाशस्तत्कालौ च, इतिशब्दस्य हेत्वर्थत्वादेवं भेदस्याभेदस्य च व्याघातो नास्ति, तस्मात् तदेवोत्पद्यते तदेव विनश्यति पृथिवीद्रव्यत्वाभेदात् तदंशबीजाङ्कर-25
२९८-२
१ दृश्यतां पृ० ३०३-२॥ २ दृश्यतां पृ० ३०३-२॥ ३ दृश्यतां पृ० ४२० पं० २३ ॥ ४ वाच्यं य० ॥ ५°द्यदोषभावः य० ॥ ६नित्यता प्र० ॥ ७°श्यतीति भा० ॥ ८ उत्पतिस्तुर्वि भा० । उत्पत्तिस्तुर्वि य० ॥ ९ उत्पादे एव प्र० ॥ १० कालतः प्र. ॥ ११ ते वैया भा० । तैर्वैया य० ॥ १२ दृश्यतां पृ० १७ पं० ५॥ १३ चती प्र० ॥ १४ दृश्यतां पृ० ४१८ पं० ३ ॥ १५ °दित्वभिन्नम् प्र०॥ १६ सत्यैकेवस्त प्र०॥ १७ पांशाभ्यां भा०। पाशाभ्यां य० ॥ १८ राभ्यां भा० डे० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org