________________
४१८
न्यायागमानुसारिणीवृत्त्यलङ्कतम् षष्ठे विधिनियमविध्यरे जिका क्रिया, ततो यदेवोत्पद्यते तदेव विनश्यति युगपदयुगपद्भाविपृथिव्यादिभेदाविभागद्रव्यखावस्थत्वात् । ____ अस्त्विति चेत्, ततोऽङ्कुरोत्पत्तौ तस्यैव विनाशित्वादनुत्पन्नोऽविनष्टश्च सर्व एवेति खवचनादिविरोधाः, तथा चाङ्करपत्रादिनिराकरणादपि च लोकादिविरोधाः ।
२९७
5 ञ्जिका क्रियेति, क्रियायाश्चाविभागावस्थद्रव्यविषययथासन्निधिव्यक्तिक्रियात्वादविभागस्यैव सन्निहितस्य व्यञ्जिका हि क्रिया । ततः किमिति चेत् , ततो यदेव उत्पद्यते तदेव विनश्यति, ऊर्द्धपत्तिरुत्पत्तिरात्मलाभः प्रत्यक्षोपलब्धिः, विविधमदर्शनं विनाशोऽनुपलब्धिरभावः । एकरूपत्वाच्च वस्तुनस्तदभिव्यञ्जनाच क्रियाया उत्पत्तिविनाशयोरप्यभेदाद् यदेवोत्पद्यते तदेव विनश्यति । किं कारणम् ? युगपदयुगपद्भावि
पृथिव्यादिभेदाविभागद्रव्यस्वावस्थत्वात् । यदा चौविभागावस्थं द्रव्यम् क्रिया च तद्वयञ्जिका च 10 तदामी युगपद्भाविनः पृथिव्यप्तेजोवाय्वाकाशकालादिभेदा रूपरसगन्धस्पर्शसङ्ख्यासंस्थानादिभेदाश्च ये चायुग
पद्भाविनो मृत्पिण्डशिवकादिभेदास्ते सर्वेऽप्यविभागाँवस्थामात्रमित्यापन्नाः । तस्मात् सर्वभेदानामविभागावस्थामात्रत्वादुत्पत्तिर्विनाश इत्यप्ययुगपद्भाविनौ भेदौ तयोश्च अविभागावस्थद्रव्यत्वम् , ततश्चैक्यम् , एकत्याच 'यदेवोत्पद्यते तदेव विनश्यति' इति साधूक्तं देशकालादिभेदाभावात् ।
अस्त्विति चेत् । स्यान्मतम् – एकत्वादुत्पत्त्यादिभेदैक्याद् यदेवोत्पद्यते तदेव विनश्यति इत्यस्तु, 15 तर्हि को दोष इत्यत्र दोषकुतूहलं चेद् ब्रूमः -- यदि बीजाङ्कुराययुगपद्भाविनामपि पृथिव्यादियुगपद्भाविभेद
मूलत्वाद् यदेवोत्पद्यते तदेव विनश्यति ततोऽङ्करोत्पत्तौ तस्यैव विनाशित्वमिति दोष उदाहरणेन स्फुटी• क्रियते, यस्माद् बीजोच्छूनमूलादिपूर्वभेदानां पत्रनालाँद्युत्तरभेदानां च विनाशावस्थत्वात् 'अङ्कुर एवैकः'
इति सत्यं ततोऽङ्करोत्यत्तावङ्कुर एव विनश्यति, ततश्च दृष्टेष्टविरुद्धावनुत्पत्त्यविनाशदोषौ स्याताम् , अङ्कुरोत्पत्तौ तस्यैव अङ्करस्यैव विनाशित्वाद् न बीजं विनष्टं नाङ्कुर उत्पन्नः, विनंष्टुरुत्पत्तुश्चाभेदात् । भेदे तु 20 सति युज्येत 'बीजं विनष्टमङ्कर उत्पन्नः' इति । स चोत्पन्नश्चेद् न "विनष्टः, विनष्टश्चेद् नोत्पन्न इत्युभयाव्यवस्थानाद् नोत्पन्नो न विनष्ट इति । अस्तु नामानुत्पन्नोऽविनष्टश्च, किंनामको ममायं दोषो न्यायलक्षणोक्त इति चेत् , उच्यते-नैक एव, किं तर्हि ? सर्व एवेति स्ववचनादिविरोधाः, उत्पद्यते चेद् न विनश्यति विनश्यति चेद् नोत्पद्यते, त्वया चोच्यते – यदेवोत्पद्यते तदेव विनश्यतीति, देशकालादिभेदाभावे कथमूर्द्ध
पदविविधादर्शनभेदेन तदेव' इति चाभेदेन निर्देशो विरुद्धार्थः ? अतः स्ववचनविरोधः । उत्पत्ति25 विनाशयोर्वा रूढिभेदादेकाधिकरणविरोधाल्लोके प्रतीतत्वाल्लोकविरोधः । प्रत्यक्षत एवोत्पादविनाशभेददर्शनात् प्रत्यक्षविरोधः । उत्पद्यमानघुटवदुत्पद्यमानत्वाद् न विनश्यति विनश्यत्त्वाच्च नोत्पद्यते भिन्नघटवदित्यनुमानविरोधः । तथा चाङ्करपत्रादिनिराकरणादपि च लोकादिविरोधा इति व्याख्यानमनन्तरोक्तस्यार्थस्य . १ अत्र 'यथा'शब्दप्रयोगोऽपि साधुरेव भाति, दृश्यतां पृ० ३१०-२॥ २ डे० विनान्यत्र वाविभागा प्र० ॥ ३ वायुग प्र०॥ ४ गाद्यावस्था प्र० । अत्र गद्रव्यावस्था इत्यपि पाठः स्यात् ॥ ५ स्थाद्र य० ॥ ६ क्यादेवों प्र०॥ ७°लादि उत्त प्र०॥ ८(चाविभागावस्थत्वात् ?)॥ ९"त्पत्त्यायंकुर एव प्र.। दृश्यतां पृ. ४२१ पं० १७॥ १०विनष्टः प्रतिषु नास्ति ॥ ११ एवेति वचनाप्र० ॥ १२ विधिनादर्शन प्र० । दृश्यतां पं० ७ ॥ १३ तदेति चामेदेन प्र०॥ १४ घटवत्पद्यमान य० प्रतिषु नास्ति । १५ (तत्पूर्वाङ्करपत्रादिनिराकरणादपि ?)। दृश्यतां पृ० ३०३-२॥
तदेति चाभेदेन प्र० ॥१ एवढे घटचा पधमा १३ विध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org