________________
४१७
व्यक्रियाद्वयखण्डनम् ] द्वादशारं नयचक्रम् द्रव्यभावत्यागाद् द्वयविभागवचनं व्यर्थम् , ततश्च तथाभवनविनाभूतसन्निधानमपि निर्मूलम् , सर्वनिर्मूलता चैवम् , अव्यक्तिरपि असन्निहितत्वात् खपुष्पवत् । अथोच्येत-सन्निहिततथाभूतवस्तुतत्त्वव्यक्ति द्रव्यमेव स्थित्यादिस्वावस्थमस्तु, एवं तर्हि सर्वप्रभेदनिर्भेदत्वमसत्यं द्रव्यस्य क्रियायाश्चाक्रियात्वमव्यञ्जकत्वात् प्रागेव तथाभूतव्यक्तिव्यर्थत्वात् ।
अथैतचेदुभयं नेच्छति ततोऽविभागावस्थत्वाद् द्रव्यमविभागावस्थं तद्व्य
२९६.३
'प्रवृत्तिसामान्यमेव भावः' इत्युक्तत्वाद् विशेषास्तत्रैव सम्भवन्ति । अतोऽस्य व्यतिरेकसम्भवाद् यदपि ओदनादि फलं तदपि प्रवृत्तिसामान्यमेव । तस्माद् भावादेव क्रियाया एव सर्वस्येष्टैस्य कृतत्वाद् 'द्रव्यं भावः' इत्येतत् त्यक्तम् । तत्त्यागाद् द्वयविभागवचनं व्यर्थम्, 'द्रव्यं क्रिया च वस्तु' इत्युभयाभ्युपगमो मूलत एव विघटते । ततश्च तथाभवनेन प्रवृत्तिलक्षणेन विनाभूतस्य सन्निधानमपि निर्मूलम् । ततश्च यदि द्वे अपि द्रव्यक्रिये विभक्ते न स्तः ततस्तयोर्लक्षणमनुपपन्नम् , अतश्च विभागेन लक्षणाभावात् तयोरभावः खपुष्यवत् । तदभावात् क्रिया कुतः तथाभवनक्रियासन्निधिलक्षणं द्रव्यं प्रवृत्तिसामान्यं वा कुतः तथाभवनविनाभूतत्वात् खपुष्पवदेवेति । सर्वनिर्मूलता चैवमिति सन्निधिनिर्मूलत्वात् क्रियायों अव्यक्तिर्भेदानामव्यक्तिश्च तया विनेत्यत आह - अव्यक्तिरपि असन्निहितत्वात् खपुष्पवत् ।
अथोच्येतेत्यादि । स्यान्मतम् --भावस्य प्रागुक्तवत् स्थित्युत्पत्तिलया अकल्पमानाः समनन्तरोक्त-13 दोषदर्शनात् , सन्निहिततथाभूतवस्तुतत्त्वव्यक्ति द्रव्यमेव उक्तवत् सम्मूच्छितसर्वप्रभेदं स्थित्यादिस्वार्वस्थमस्तु, ताश्च स्थित्याद्यवस्थाः क्रिययाभिव्यक्तिं नीयन्त इति । अत्रोच्यते-एवं तर्हि सर्वप्रभेदनिर्भेदत्वमसत्यं द्रव्यस्य, ते हि स्थित्यादिभेदा द्रव्यस्यैव संवृत्ता इति निर्भेदत्वोक्तिया॑हन्यते । किञ्चान्यत् , क्रियायाश्चाक्रियात्वम्, सन्निहिततथाभूतवस्तुतत्त्वव्यक्तिः क्रियेष्यते, ते हि भेदाः क्रिययाभिव्यज्यन्ते चेद् भेदाः प्रागपि क्रियाभिव्यक्तेः सन्ति, तथाभूतत्वात् क्रियाया व्यक्तिकरत्वाभावः । तस्माच्चान्यञ्जनात् क्रिया 20 द्रव्यवत् खरविषाणवद्वा न क्रियेति । ततश्च द्रव्यस्याद्रव्यत्वात् क्रियायाश्चाक्रियात्वादशेषपक्षध्वंसित्वम् , अनुपपन्नस्वावस्थत्वाद् द्रव्यस्य क्रियायाश्च खपुष्पवदभाव इति ।
अथैतच्चेदुभयं द्रव्यनिर्भदासत्वादद्रव्यं सन्निहिततथाभूतवस्तुव्यक्त्यभावादक्रियास्वं च नेच्छति : भवान् सर्ववस्तुत्यागभयात् ततोऽविभागेत्यादि, अविभागावस्थत्वात् , विभागा भेदाः स्थित्याद्यवस्थाः, तदभावाद् द्रव्यमविभागमित्यसदापन्नम् , मा भूद् द्रव्यस्य भेदात्मकस्याद्रव्यत्वमिति क्रियायाश्चाक्रियात्वम-25 न्यञ्जकत्वात् प्रागेव तथाभूतव्यक्तिव्यर्थत्वाद् मा भूदिति किमापन्नम् ? द्रव्यमविभागावस्थम् । तद्य
१ दृश्णता पं० २५॥ २°वंत्यततोऽस्य य० ॥ ३ प्रकृतत्वाद् प्र० ॥ ४ नमतेतश्च प्र०॥ ५ या व्यक्ति प्र० ॥ ६°लयाः कल्पमानाः भा० । लयाः कल्ममानाः य० । (स्थित्युत्पत्तिलयकल्पनाया ? ) ॥ ७ सन्निहितत्वात् खपुष्पवत् तथाभूतवस्तुतत्त्वव्यक्ति य० ॥ ८ स्थस्तु प्र० ॥९ऽतो भा० । ( अतो ? ) ।
नय० ५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org