________________
म्
अथ षष्ठो विधिनियमविध्यरः ।
नन्वेवमुभयमप्यवस्तु, अनुपपन्नखावस्थत्वात् खपुष्पवत् । खा अवस्थाः स्थित्युत्पत्तिविनाशाः । ता यदि भावस्य ततो द्रव्यमनवस्थमिति द्रव्यप्रभेदासम्भवः । भाव एव तु स तथाभूत आपद्यते, तद्भेदस्य तदात्मकत्वात्, मृद्वत् । 5 प्रवृत्ति भाववचनात् तु प्रवृत्तावेव व्यतिरेकसम्भवाद् भावादेव सर्वस्य कृतत्वाद्
एवं विधिनियमभङ्गारे द्रव्यक्रियात्मकवादे संहृते षष्ठनय आह - नन्वेवमित्यादि विचाराश्रयं दोषापादनसाधनम् । उभयमपि 'द्रव्यं क्रिया च' इत्यवस्तु अनुपपन्न स्वावस्थत्वात्, अनुपपन्नाः स्त्री अवस्था अस्य, तद्भावादनुपपन्न स्वावस्थत्वात् खपुष्पवदिति । कास्ताः स्वा अवस्थाः ? उच्यते - स्वा अवस्थाः स्थित्युत्पत्तिविनाशाः । ताश्च द्रव्यस्य वा स्युः क्रियाया वा ? किचातः ? ता यदि भावस्य ताः स्थित्या10 दयः प्रागुक्ततथाभूतसन्निहितवस्तुत्वव्यक्तिलक्षणायाः क्रियाया इष्यन्तेऽवस्था इति ततो द्रव्यमनवस्थं 'प्राप्तम्, अनवस्थालक्षणत्वादुभयोरन्यतरकल्पनावैयर्थ्यादवस्थाव्यतिरिक्तलक्षणाभावात् । भवतु द्रव्यमनवस्थम्, को दोष इति चेत्, उच्यते - द्रव्यमनवस्थमिति द्रव्यप्रभेदासम्भवः प्राप्तः, इतिशब्दस्य हेत्वर्थत्वादनवस्थत्वादित्यर्थः, द्रव्यप्रभेदा रूपादिगत्यादिविवर्ताः, ते न सम्भवन्ति अनवस्थत्वादसत्त्वात् खपुष्पस्येव । ततश्च यदुक्तं द्रव्यस्य लक्षणं तस्य हानिः । कतमस्य इति चेत्, उच्यते, 'सर्वप्रभेदनिर्भेदं बीजम्' 15 इत्यस्य । तस्मान्नास्ति द्रव्यम्, अनवस्थत्वात् खपुष्पवत् ।
२९६-१
ततः किं प्राप्तम् ? भाव एव तु स तथाभूत आपद्यते, द्रव्यभूता क्रियैव आपद्यते, कस्मात् ? तद्भेदस्य तदात्मकत्वात्, स्थित्युत्पत्तिविनाशा हि द्रव्यभेदाभिमता ट्रॅव्यस्यैव चेदात्मानो भवन्ति, तत एतदर्थादापन्नम् - क्रियाया आत्मेति, क्रियैव च द्रव्यं संज्ञामात्रभेदात् । मृद्वदिति दृष्टान्तः, यथा मृद्भेदाः पिण्डशिवकादयो मृदात्मकाः सन्तो मृद्भूता एव तथा स्थित्यादयो द्रव्यभूतभावभेदा एवेति द्रव्याभावेऽर्था20 पत्त्या स्थित्यादयः क्रियाया भेदा इत्यापन्नाः ।
यदपि च कैल्पितं प्रवृत्तिसामान्यव्यतिरेकेण कारकवत्या ओदनादिफलोद्देशिन्याः परिग्रहार्थ विशेष - ग्रहणं तदपि न कार्यम् । कस्मात् ? प्रवृत्तिभाववचनात् तु मत्पक्षे प्रवृत्तावेव व्यतिरेकसम्भवः,
१ दृश्यतां पृ० ३०१-१ ॥ २ स्वावस्था पा० डे० लीं० रं० ही ० । स्वावस्था भा० ॥ ३ उच्यते भा० पा० ॥ ४ इष्यंते अवस्था य० । इष्यंता अवस्था भा० ॥ ५वस्थात्वा प्र० ॥ ६ दृश्यतां पृ० ३७८ पं० १ ॥ ७ द्रव्यस्य वेदा य० । द्रव्यस्यवे भेदा य० । ( द्रव्यस्य भेदात्मानो ? ) ॥ ८ सन्ति भा० ॥ ९ र्थोपस्या प्र० ॥
१० दृश्यतां पृ० ३९९ पं० ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org