________________
पदार्थादिनिरूपणम्]
द्वादशारं नयचक्रम् द्वयर्थता उक्तवत् । पदार्थो द्रष्यक्रिये । वाक्यमाख्यातशब्दः। तदर्थ उक्त उभय. भाक् । नयविनिर्गमसूत्रम् - अत्थित्तं अत्थित्ते परिणमति [ भगवतीसू० १॥३॥३२] इति ।
द्रव्यशब्दः किंसाधनोऽत्राभिप्रेत इति चेत्, उच्यते-द्रव्यमपि भावसाधनम् , यत् तद् २९५-२ द्रूयते केनापि यो द्रवति गच्छति सततं प्रवर्तते तस्य यद् द्रवणं गमनं सततप्रवृत्तिः स भावस्तद् भवनम् , तत्साधनो द्रव्यशब्दः, कर्तृसाधनाविनाभाविभावसाधनव्याख्यानस्य सोपपत्तिकस्य विस्तरेण कृतत्वात् सैव । द्वयर्थता उक्तवत् , द्रव्यक्रियात्मकद्वयर्थता परस्पराविनाभाविनी करणादीनां तदव्यतिरिक्तस्वरूपत्वात सर्वत्र घटपटादिबीजाङ्करादिषु च सर्वैकात्म्यस्य सुभावितत्वादिति । पदार्थों द्रव्यक्रिये 'उक्तवत्' इति वर्तते । वाक्यमाख्यातशब्द इति, आख्यातं साव्ययकारकवाक्यमेकैमिति वाक्यम् , तदर्थ उक्तः वाक्यार्थ उक्तः उभयभाक् द्रव्यक्रियाद्वयात्मकवस्तु भजते वाक्यार्थ इति विस्तरेणोक्तोऽनेन विधिनियमभङ्गेन नैगमैकदेशद्रव्यार्थेन ।
नयविनिर्गमसूत्रम् - अत्थित्तं अत्थित्ते परिणमतीति, अस्तित्वं भावो भावेऽस्तित्वे परिणमति । भावो भाव एव सततं वर्तते परितः समन्ताद् नमति परिणमति तं तं भावमापद्यते सैदा कर्तृसहित एव ।
10
इति उभयनयः पञ्चमोऽरः परिसमाप्तः ॥
१ दृश्यतां पृ० २९६ टि० १ ॥ २ मद्य य० ॥ ३°कविति प्र०॥ ४ सप्तम्यन्तोऽयं निर्देश्वः ॥ ५ तदा य० ॥ ६°सहित वेति उभयनयः पञ्चमोऽरः परिसमाप्तः प्र० । दृश्यतां पं० ५॥ .....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org