________________
४१४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
अयं च धर्मो वृतादीनामप्यविशिष्टः । अत्र ब्रूमः - वस्तुनः प्रवृत्तौ ...
वैधम्र्येण ।
एवमयं स उभयनयः । नैगमदेशत्वाद्द्रव्यार्थोऽयम् । द्रव्यमपि भावसाधनम् ।
शङ्कय तत्प्रतिसमाधानं पुनरुच्यते - न वयं वस्तुन्यसहभावतां निवृत्तिं ब्रूमः, निवृत्तिरत्रास्माभि5 नर्थधर्मप्रकल्पिता विवक्षिता, किं तर्हि ? शब्दधर्मप्रकल्पिता विवक्षिता, अर्थगता हि निवृत्तिरसहभावजनिता घटपटादिवदेकत्रासम्भवात्, शब्दगता तु विज्ञानप्रवृत्तिनिवृत्तिमात्रकृता सा, देवदत्ते सन्निहितसत्ताद्रव्यत्वगतिस्थितिवृत्त्यवृत्त्यादिसर्वधर्मसम्बन्धिन्यपि 'गच्छति देवदत्तः' इत्युक्ते 'तिष्ठति आस्ते शेते' इत्यादिक्रियाकलापं निवर्त्य देवदत्तं 'गच्छति' शब्दो गमनेनैव सम्बन्धयति तद्विषयैकविज्ञानाधानहेतुत्वात् न तथा नि निवृत्तिः सम्भवति सततसन्निहितसर्वधर्मात्मकत्वाद् देवदत्तस्य । तदुदाहरति - किं तर्हि ? पचती10 त्यादि गतार्थम्, उदाहृतार्थसंवादी दार्शन्तिकोऽर्थः - अयं च धर्मो वृतादीनामप्यविशिष्टः, 'वर्तते, हते, चेते' इत्यादयोऽपि शब्दाः क्रियान्तरनिवृत्तिविज्ञानाधानधर्मिणो न वस्तुगतान् धर्मान् निवर्तयितु२५५-१ मलम्, शब्दानां बुद्धिप्रवृत्तिनिवृत्ति क्रियायां प्रभुत्वाद् वस्तुप्रवृत्तिनिवृत्त्योर प्रवृत्तत्वादिति ।
अन ब्रूमः - वस्तुनः प्रवृत्तावित्यादि यावद् वैधर्म्येणेति । अवसितप्रयोजनमिदं वचः, त्वयैव वस्तुप्रवृत्तेः सर्वप्रवृत्तिविशेषसहिताया एवाभ्यनुज्ञातत्वाद् भावितत्वाच्च, सँम्भावनैव हि न वस्तुप्रवृत्तिः 15 सर्वप्रवृत्तिविशेषात्मिकेत्यतीतविचारेषु विस्तरेण चरितार्थमेतत् । कथं ? विशेषवान् वाग्ब्यवहारो विशेषा#तरप्रवृत्तिनिवृत्तिविषयो न वस्तुन्यत्यन्तनिर्भेदात्मके प्रभवति इति भावयता भवतैव सुभाषितत्वात् किमस्माभिर्वाच्यं वृतादीनां पचादीनां वा धातुसंज्ञा प्राप्नोति न प्राप्नोतीति ? सर्वेषां धातूनामस्मदभिमतप्रवृत्ति - सामान्यक्रियावचनत्वानतिवृत्तेर्वस्तुव्यवहारे शब्दव्यवहारे वेति न किञ्चिद् न प्रसिध्यति । त्वया तु पुनरस - दर्थविषयत्वाद् भ्रान्तिज्ञानं शब्दार्थविषयं व्यवस्थापितं वस्त्वसंस्पर्शादित्यलं प्रसङ्गेन ।
20 प्रकृतमुच्यते - एकमयं स उभयनयो योऽसौ मया आदावुद्दिष्टो विधिनियमात्मक उभयनय इति, विधिश्व नियमश्च सर्वत्र द्रव्यं क्रिया चेति विधिनियमम्, द्वन्द्वैकवद्भावात् स एष निर्दिष्टः प्रत्यक्षीकृतस्ते । कस्य पुनरयमार्षाभिहितानां नयानां भेद इत्यत्रोच्यते - नैगमदेशत्वाद् द्रव्यार्थोऽयम्, न पर्यायार्थः । द्रव्यपर्यायसङ्गृहीतानां बहुभेदानां मध्ये द्रव्यार्थभेदेषु नैगम-सङ्ग्रह - व्यवहारेषु यो नैगमोऽनेकभेदस्तस्यैकदेशोऽयं तद्भेद इत्यर्थः । एक्केको य सतविधो सत्त णयसता हेवंति ते चेवं [ अवनि० २२६ ] इति
25 वचनात् ।
१ सप्तम्यन्तोऽयं निर्देशः ॥ २ वस्तुनि विवृत्तिः प्र० ॥ ३ संभवादी प्र० ॥ ५ यज्ञात प्र० ॥ ६ सभाव प्र० ॥ ७ एतदन्तर्गतः पाठो य० प्रतिषु नास्ति ॥ भा० । मात्मः उतनय य० ॥ ९ हवंतेवं य० । दृश्यतां पृ० ३७३ पं० नयसया हवंति एमेव । अन्नो वि य आएसो पंचेव सया नयाणं तु ॥ २२६ ॥
[ पञ्चम उभयारे
Jain Education International
४योत्तर ० ॥
८ मात्मनः उतनय ११ ॥ १० "इक्किको य सयविहो सत्त
इति आवश्यक निर्युक्तौ पाठः ॥
For Private & Personal Use Only
www.jainelibrary.org