________________
पतअल्यभिहितक्रियालक्षणखण्डनम् ] द्वादशारं नयचक्रम्
४१३. च्येत । एवं चोच्यमाने नन्वस्मद्धृदय एव दृष्टम् , नन्वस्माभिरप्यभिहितं प्रवृत्तिरेव प्रवृत्तिविशेष इति । एवं च कृत्वा प्रवृत्तिमात्रस्य...... अनर्थकमुभयोरपि व्याख्याविकल्पयोः । न चाफलमेव, अनिष्टकृदपि । एवं देवदत्तस्य क्रियात्वं स्यात्, अन्यनिवर्तनप्रवृत्तिविशेषत्वात्, पचादिवृतादिवत् । वृतादयोऽप्यक्रियाः, तच्छब्दानामधातुसंज्ञा च स्यात्, सर्वभेदसम्बन्धानुगुणविशेषत्वात्, देवदत्तवदेव ।।
यत् पुनरुच्यते न वयं वस्तुन्यसहभावतां निवृत्तिं ब्रूमः, किं तर्हि ? पंचति'..
एवं परिहारद्वयेऽपि सैमानमुत्तरमिदमुच्यते-एवं चोच्यमाने नन्यस्मद्धृदय एव दृष्टम् । 'ननु' इत्यनुज्ञापने, अनुज्ञातं त्वयैतद् यदस्मद्धृदयक्षेत्र उप्तस्य दर्शनबीजस्य त्वद्वचनसलिलसेकेन फलमभिव्यक्तम् । तद्विवृणोति स्मारयन् - नन्वस्माभिरप्यभिहितं 'प्रवृत्तिरेव प्रवृत्तिविशेषः' इति, यदुच्यते ४.१ वृतादिसामान्यमुपादीयमानं गमनादिविशेषं निवर्तयतीति ताज्येत यदि घृतादिसामान्यव्यतिरेकेण गमनादि-10 विशेषः स्यात्, ‘स तु सामान्यमेव' इत्युक्तम् । तस्माद् न सामान्यं विशेषाभावादुपादीयमानं विशेषान् निवर्तयितुमर्हति खपुष्पादिविशेषानिव । अतः प्रवृत्तिविशेषत्वाभावादुभयत्र परिहारे विशेषग्रहणोनर्थक्यदेवदत्तक्रियात्व-वृताद्यक्रियात्वदोषास्तदवस्था एवेति । तदुपसंहरति-एवं च कृत्वा प्रवृत्तिमात्रस्येत्यादि गतार्थं यावदनर्थकमुभयोरपि व्याख्याविकल्पयोरिति ।
एवं तावद् विशेषग्रहणमनर्थकम् , न केवलमनर्थकमेव, किं तर्हि ? अनर्थार्थमपीत्यत आह -न 15 चाफलमेव, अनिष्टकृदपीति । तदनिष्टकृत्त्वं साधनेनैव भाव्यते - एवं देवदत्तस्य क्रियात्वं स्यात्, अन्यनिवर्तनप्रवृत्तिविशेषत्वात् पचादिवृतादिवदिति, प्रवृत्तिविशेषत्वमन्यत्वं तन्निवर्तनं चेति. द्रव्यादन्यस्य प्रवृत्तिसामान्यव्यतिरिक्तस्यार्थस्याभावादेवायुक्तम् , अभ्युपगम्यापि दोषः - देवदत्तः क्रिया स्यात्, अन्यनिवर्तनत्वे सति विशेषप्रवृत्तित्वात् , स गच्छत्यादिविशेषनिवर्तनो यज्ञदत्तादिविशेषनिवर्तनश्च सामान्यत्वात् , उपादीयमानत्वे सति अन्यनिवर्तनत्वात् प्रवृत्तिविशेषश्च । ततश्च पचत्यादिवद् वर्तत्यादिवच्च क्रिया, 20 क्रियात्वात् तद्वाचिनः शब्दस्य धातुसंज्ञा, पूर्वप्रक्रान्तन्यायक्रमेण पच्यादिवद् वृत्यादयः, तद्वद् देवदत्तादय इति सर्वं क्रियैवेत्यापन्नम् । अनिष्टं चैतदावयोरिति । येऽप्यमी वृतादयस्तेऽप्यक्रियाः, तच्छब्दानामधातुसंज्ञेत्यादि, सर्वभेदसम्बन्धानुगुणविशेषत्वाद् देवदत्तवदेव । पचादीनां च गमनादिसर्वधात्वर्थव्यापित्वस्य प्रागुपपादितत्वात् सिद्धहेतुत्वात् साधीयः साधनमिदमपि, चशब्दसूचितत्वादनन्तरोदाहृत-" द्विविधक्रियावाचिशब्दप्रकृतत्वाच्च सर्वनामशब्दता च स्यात् ।
. 25 येत् पुनरित्यादि यावदयं च धर्मो वृतादीनामप्यविशिष्ट इति । 'पचादिविशेषनिवर्तकत्वाद् । वृतादयो धातुसंज्ञा भवन्ति' इत्युक्ते परस्याशङ्का स्यात् 'नैव निवर्तयन्ति पचादीन् वृतादयः, विरोधाभावश्च धूताद्यन्तर्भावात् पचादीनाम् , अतो विशेषनिवर्तकत्वाभावाद् न धातुसंज्ञा वृतादयः स्युः' इत्या
१एवं च कृत्वा प्रवृत्तिमात्रस्य प्रवृत्तिविशेषत्वाद् विशेषग्रहणमनर्थकमुभयोरपि व्याख्याविकल्पयोः।' इत्याशयको मूलपाठोऽत्र स्यात् ॥ २ 'पचति' इत्युक्ते पचतिशब्दः क्रियान्तरनिवृत्तिविज्ञानमादधाति, अयं च धर्मो वृतादीनामप्यविशिष्टः ।' इत्याशयकोऽत्र मूलपाठः सम्भाव्यते ॥ ३ समानमिदमुत्तरमिद य० ॥ ४ वृत्तादि प्र० ॥ ५ णार्थक्य । प्र०॥ ६ वादेवेत्युक्तम् प्र० ॥ ७ (वृतादयः?)॥ ८°याकविशब्द प्र०॥ ९ यत्र पुन प्र० ॥ १० वृताधंच(यंश यंग ? )भावात् प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org