________________
४१३
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ पञ्चमं उभया
विशेषग्रहणे वृतादीनां धातुसंज्ञा नैव प्राप्नोति अक्रियावचनत्वाद् देवदत्तवत्, अस्वशब्दोपादानसाध्यभावादिलक्षणवचनं चानर्थकं स्यात् । यथा च तत्रोच्यतेनैष दोषः, विशेष इति भवतः व सम्प्रत्ययः ? य उपादीयमानोऽन्यं निवर्तयति । radiantarastra यमाना विशेषान् निवर्तयन्ति तथा चोक्तम् -- सामान्यमपि 5 यथा विशेषस्तद्वत् [पा० म० भा० २२ २४ ], ततश्चैषां सिद्धा धातुसंज्ञा । एवमिहापि प्रत्यु
1
विशेषग्रहणे वृतादीनां धातुसंज्ञा नैव प्राप्नोति । किं कारणम् ? अक्रियावचनत्वाद् देवदत्तवत्, तदर्थस्याक्रियात्वादक्रियावचनत्वम्, तदर्थस्याक्रियात्वं सर्वभेदसम्बन्धानुगुण्यात् । स वा देवदत्तः क्रिया स्यात् सर्वभेदसम्बन्धानुगुणत्वात् वृतादिवत् अनिष्टं चैतदिति । किञ्चान्यत्, प्रवृत्तिसामान्यनिवृत्त्यर्थे देवदत्तादिद्रव्यनिवृत्त्यर्थे च विशेषग्रहणे द्विधापि अस्वशब्दोपादानसाध्यभावादिलक्षणवचनं चान10 र्थकं स्यात् । यदुक्तम् 'अशब्दोपादानसाध्यभावो भावः' इति भावलक्षणम्, भावादिग्रहणात 'स्वैशब्दोपादानसिद्धभावं सत्त्वम्' इति द्रव्यलक्षणमुक्तित एव पृथगिति वस्तुतोऽपि लिङ्गसङ्ख्यादिमद्लिङ्गर्संङ्ग्यत्वं च द्वयोः पृथक्त्वं तथा त्रिकालात्रिकालविषयत्वं भूताभूतभेद इत्यादि पृथक्त्वलक्षणवचनमनर्थकं द्वयोरपि क्रियात्वादिति ।
२९३-२
यथा च तत्रोच्यते नैष दोष इत्यादि । एवं दोषेऽभिहिते स्यान्मतं प्रवृत्तिसामान्यनिवृत्त्यर्थ - 15 विशेषग्रहणप्रयोजनदोषं परिहरामीति विशेष इति भवतः क्व सम्प्रत्यय इति प्रश्नोपक्रमं दोषवादिनैव परिहारमभिधापयिष्यतस्ते, दोषवादी किल ब्रूयात्-य उपादीयमानोऽन्यं निवर्तयतीति । परो ब्रूयात् - यद्येवं वृतादयोऽप्युपादीयमाना विशेषान् निवर्तयन्तीति, तैर्हि गच्छत्यादयो विशेषा निवर्त्यन्ते न गच्छति न शेते न भुङ्क्ते वर्तत एव अस्ति भवति विद्यत एव केवलमिति । तस्मादुपादीयमाना गमनादीन् विशेषान् निवर्तयन्ति वृतादयः, तिष्ठत्यादिवत् । तथा चोक्तं भाष्यकारेण - सामान्यमपि 20 यथा विशेषस्तद्वदिति ज्ञापकमिदम् इति वर्तत्यादिर्विशेष एव उपादीयमानत्वे विशेषनिवृत्तिहेतुत्वात् तिष्ठत्यादिनिवृत्तिहेतु गच्छत्यादिवत् । ततश्चैषां सिद्धा धातुसंज्ञा वृतादीनामिति यथैष सामान्यप्रवृत्तिनिवृत्त्यर्थे विशेषग्रहणे परिहार एवमिहापि प्रत्युंच्येत द्रव्यनिवृत्त्यर्थेऽपि विशेषग्रहणे परिहार उच् प्रत्युच्येत । सर्वदा सर्वभावानां प्रवृत्तिसमन्वयाद् 'देवदत्तः' इत्यपि नाप्रवृत्तिकं वस्तु, तस्मात् तन्निवृत्त्यर्थं सर्वभेदसम्बन्धानुगुण्यात् तु नायं विशेषः इत्येतदर्थेऽपि विशेषग्रहणे देवदत्तस्य क्रियात्वं 25 स्यात्, वृत्तादीनां तद्बदक्रियत्वाद्वा धातुसंज्ञा मा भूत्, स्वशब्दोपादानसिद्धतादिवचनानर्थक्यं "चे[त्या]दिदोषापादने कृते स एव परिहार उच्यते त्वया - विशेष इति भवतः क्व सम्प्रत्ययः ? इत्यादि यावत् सिद्धा धातुसंज्ञा ।
१ वृत्तादीनां भा० । वृत्तानांदी य० ॥ ३८३ पं० २ ॥ ५ दृश्यतां पृ० ३८४ पं० १ ॥ ८ च्यते य० ॥ ९ दृश्यतां पृ० ४११ ० २ ॥ दोषा प्र० । अत्र चेति दोषा इत्यपि पाठः स्यात्
॥
Jain Education International
२० ॥ ३ मुक्तिवचनं डे० ० ॥ ६ सयत्वे च द्वयोः पृथक्त्वे प्र० ॥ १० त्वाद्वा संज्ञा भा० । त्वा संज्ञा य० ॥ १२ दृश्यतां पृ० ४१२ पं० ३ ॥
४ दृश्यतां पृ०
७ वृत्त प्र० ॥ ११ चेदि
For Private & Personal Use Only
www.jainelibrary.org