________________
पतञ्जल्यभिहितक्रियालक्षणखण्डनम् ] द्वादशारं नयचक्रम्
ક
यदपि च द्वितीयं विशेषग्रहणप्रयोजनमभिधीयते - सर्वदा सर्वभावानां प्रवृत्तिसमन्वयाद् 'देवदत्तः' इत्यपि नाप्रवृत्तिकं वस्तु, सर्वभेदसम्बन्धानुगुण्यात्तु नायं विशेषः तस्मान्न क्रिया इत्येवमर्थं विशेषग्रहणम् । इदमपि त्यक्तद्रव्यार्थोत्थानम् । यथा तत्र प्रवृत्तिसामान्यनिवृत्त्यर्थे विशेषग्रहणे तथेहापि देवदत्तादिधातुत्वनिवृत्त्यर्थे
विरोधात्, "क्रिया द्रव्यादर्थान्तरम्' इत्यनेन दर्शनेनाविरोधात्, उक्तिवस्तुक्रियालक्षणेन द्रव्य क्रियाश्रयेण 5 च प्रागुक्तेन च न्यायेन चाविरोधादिति ।
एवं तावत् प्रवृत्तिसामान्यक्रियात्वनिवृत्त्यर्थविशेषग्रहणप्रयोजने दोषाभिधानं कृतम्, अधुनेदमपि विशेषग्रहणप्रयोजनं दूष्यते - यदपि च द्वितीयं विशेषग्रहणप्रयोजनमभिधीयते सर्वदेत्यादि । २९२-२ ‘सर्वदा' इति प्रवृत्त्यनिवृत्तिं दर्शयति । सर्वभावानामिति व्याप्तिः । कुतः ? प्रवृत्तिसमन्वयाद्धेतोः देवदत्त इत्यपि नाप्रवृत्तिकं नाक्रियं वस्तु तेन शब्देनाभिधीयते, किं तर्हि ? सप्रवृत्तिकमेवोच्यते, यथा 10 पचत्यादीनां क्रियावचनत्वमेवं देवदत्तादीनां द्रव्यवाचित्वाभिमतानामपि वाच्यस्यार्थस्य प्रवृत्त्या सत्तया गत्यादिसर्वभवनात्मिकया समन्वितत्वम् । ततः पचत्यादिवद् देवदत्तादयोऽपि शब्दाः क्रियावचनाः, तस्मात् क्रियावचनो धातुः [ पा० वा० ||३ | १ ] इति धातुसंज्ञास्तेऽपि स्युः, विशेषग्रहणसामर्थ्यात् पुनः र्विशेषो न भवतीति निवर्त्यते । कस्मात् पुनर्देवदत्तादयो विशेषा न भवन्तीत्युच्यते - सर्वभेदसम्बन्धानुगुण्यात् तु नायं विशेषः, सर्वैर्हसिपठिगम्यादिभिर्भेदैर्देवदत्तभवनप्रवृत्तेः सम्बन्धेनानुगुणत्वात् प्रवृत्ति - 15 सामान्यमेवेदं भवनवत् सत्यपि भवद्भवनभावविशेषे तुशब्दस्य विशेषार्थत्वात् । तस्माद् न क्रियेति देवदत्तादेरक्रियात्वमुपसंहरति इतिशब्दस्य समाप्त्यर्थत्वात् एवमर्थं विशेषग्रहणमिति प्रकृतोपसंहारः, प्रवृत्तिविशेषः क्रिया न प्रवृत्तिसामान्यमिति न भवनमात्रं नापि देवदत्त इत्युपसंहारार्थः । अस्यापि विशेषग्रहणस्य सदोषत्वमुच्यते - इदमपि त्यक्तद्रव्यार्थोत्थानम्, इदं हि विशेषग्रहणप्रयोजनव्याख्यानमुत्थान एव द्रव्यार्थत्यागं कुरुते । अपिशब्दात् प्रागुक्तभवनसामान्यक्रियात्वनिवृत्त्यर्थं विशेषग्रहणमन्ते 20 क्रियामेव त्यजतीति स्मारयति । 'सर्वदा सर्वभावानां प्रवृत्तिसमन्वयात्' इति हेतुवचनेन 'देवदत्त इति नाप्रवृत्तिकम्' इति नामवाच्यार्थस्वरूपवचनेन च प्रवृत्तिमात्रमेवेदं न द्रव्यं नामेति द्रव्यार्थस्य प्रागभ्युपगतस्य त्यागः कृतो भवति अनेनापि विशेषग्रहणप्रयोजनवचनेन द्वितीयेनेति ।
1
25
केवलं द्रव्यार्थ व दोषः, किं तर्हि ? प्राग्व्याख्यातविशेषग्रहणप्रयोजनतुल्यदोषानुबन्धं चेदम् । कथमिति चेत्, उच्यते - यथा तत्रेत्यादि ग्रन्थ उपसंहृते दोषासक्त्या चोद्यमेव उत्तरत्वेन समर्थ -, यति । भाष्यकारेण कारकवत्याः फलोद्देशिन्याः क्रियात्वं प्रतिपाद्य उपसंहृतं तस्मात् प्रवृत्तिविशेषः क्रिया, म प्रवृत्तिसामान्यमिति, तत्र दोष आसैज्यते - यदि प्रवृत्तिविशेषः क्रिया 'प्रवर्तते, ईहते, चेष्टते' इत्यादीनां धातुसंज्ञा न प्राप्नोति, क्रियावचनानामेव धातुत्वात् तेषां चाक्रियात्वात् प्रवृत्तिविशेष क्रियात्वादित्येष दोषो यथा तत्र प्रवृत्तिसामान्यनिवृत्त्यर्थे विशेषग्रहणे तथेहापि देवदत्तादिधातुत्व निवृत्त्यर्थे
१ "सर्वमेदानुगुण्यं तु सामान्यमपरे विदुः । तदर्थान्तरसंसर्गाद् भजते भेदरूपताम् ॥” - वाक्यप० २४४ ॥ २ यतीति य० ॥ ३ प्रत्याख्यात' य० ॥ ४ दृश्यतां पृ० ४०० पं० ३ ॥ ५ संज्य प्र० ॥ ६ वाक्रियत्वात् प्र० ॥
Jain Education International
२९३-१
For Private & Personal Use Only
www.jainelibrary.org