________________
४१०
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [पञ्चम उभयारे त्वन्मनोरथानुवृत्तेस्तु घलादेव अत्याज्याभिमततत्त्वद्रव्यशब्दार्थवशाद द्रव्यादर्थान्तरभूताया गतिस्थित्यादिक्रियाया आपत्तिः, 'भवति भवनं वा द्रव्यम्' इति भव्यार्थत्वात् प्रकृतिप्रत्ययार्थव्युत्पत्तेन॒व्यक्रिययोः सिद्धिः कर्तृभावनानात्वात् ।
__ यत् पुनरेतदुक्तम् 'अविशिष्टदेशसंयोगा वा स्थितिः' इति तन्न युक्तं 5'वा'शब्दवय॑म् , द्वाभ्यामविरोधात् ।
परिस्पन्दपरिणतिः पूर्वस्या औदासीन्यावस्थायाः प्रच्युतिः क्रियान्तरत्वावस्थातो वा । तयोरन्यगतिविचलनयोः प्रतिबन्ध आत्माऽस्या अवस्थानक्रियायाः सान्यगतिविचलनप्रतिबन्धात्मिका, तां दर्शयति षष्ठीति । अथवा तदन्यगतिरिति तस्मिंश्चान्यस्मिंश्च नियमेन गतिर्विचलनम् , शेषं पूर्ववत् । पूर्वस्मिन् व्याख्याने
भेदोऽनयोः - गतिर्देशान्तरप्राप्तिः, चलनं स्वक्षेत्रेऽपि व्यापृततेति । इह पुनरभेद इति विशेषः । तस्माद् 10 व्युत्पत्तावव्युत्पत्तौ च यदि द्रव्यं ततः 'अवस्था' इति विरुध्यते । अथावस्था ततः 'द्रव्यम्' इति विरुध्यते । आदिग्रहणाद् लोके तथा दृष्टत्वात् प्रत्यक्षविरोधः । तथानुमेयत्वादनुमानविरोधः । तद्रूढेश्च रूढिविरोधः । एवं 'द्रव्यावस्थाविशेषः' इति क्रियालक्षणमभ्युपगमादिविरोधादयुक्तम् । कॉलसाधनयोगी भाव इत्येतयोः क्रादिष्वव्याप्तेरलक्षणमिति तैरेव निराकृतमिति ।
त्वन्मनोरथानुवृत्तेस्त्वित्यादि । 'द्रव्यस्यावस्थामा क्रिया, नार्थान्तरम्' इत्येष सायमतानु15 वर्तिनो भवतः परप्रत्ययो मनोरथः स नोपपद्यते, सर्वत्र द्रव्य क्रियात्मकभावापत्तिभावादुक्तवत् । अथापि
त्वन्मनोरथमनुवृत्य द्रव्यमात्रदर्शनाभिमुखीभूयापि अवस्थाशब्दं श्रूयमाणमपि उज्झित्वा यद्यपि त्वदुपर्यनु
कम्पाद्रवीकृतचेतसो न किश्चिद् ब्रूमः, तथापि बलादेवोपपत्तेरेव अत्याज्याभिमततत्त्वद्रव्यशब्दार्थ२९३-१ वशात् , अत्यागार्हमभिमतं तत्त्वं तव साङ्ख्यस्य च द्रव्यमेवार्थः, तदभिधायिनो द्रव्यशब्दस्य वशात्
तदर्थवशाच्च पुनरपि सारं सारं द्रव्यादर्थान्तरभूताया गतिस्थित्यादिक्रियाया आपत्तिः, सा 20 क्रियापन्ना, कस्मात् ? भवति भवनं वा द्रव्यमिति भव्यार्थत्वात् , द्रव्यं च भव्ये [ पा० ५३।०४], भव्यशब्दश्च कर्तरि भावे वास्तु, तथा द्रव्यशब्दोऽपि । तत्र द्रव्यशब्दस्य भव्यार्थत्वात् प्रकृतिप्रत्ययार्थव्युत्पत्तिरवश्यम्भाविनी, ततश्च प्रकृतिप्रत्ययार्थव्युत्पत्तेद्रव्यक्रिययोः सिद्धिा, प्रकृत्यर्थस्य क्रियात्वात् प्रत्ययार्थस्य द्रव्यत्वात् । कथं व्युत्पत्तिरिति चेत् , उच्यते - साध्यसाधनभेदात् , यद् भूयते सा क्रिया, यद् भवति तद् द्रव्यम् , यत् तद् भवता वस्तुना भूयते स प्रकृत्यर्थो भावः, यत् तद् भवति तत् कर्तृ, तस्मात् कर्तृ25 भावनानात्वाद् द्रव्यक्रियानानात्वात् स्यात् , नान्यथा । तस्माद् नयोत्थानप्रकृताद् द्रव्यशब्दार्थवशाद् भव्यभवत्यादिशब्दवशाच बलादेव द्वित्वसिद्धिरिति साधूक्तम् । '
___यत् पुनरेतदुक्तम् 'अविशिष्टदेशसंयोगा वा स्थितिः' इति लक्षणं तन्न युक्तं 'वा'शब्दवज्येम्, तत्रापि 'वा'शब्दस्यानर्थक्यं विकल्पार्थासम्भवात् । कस्मात् पुनस्तदयुक्तम् ? द्वाभ्याम
१°न्दः पप्र० । दृश्यतां पृ० ४०६ पं० ७॥ २ ( सा तदन्यगति ?) ॥ ३ दृश्यतां पृ० ४०९ पं० १॥ ४'भूतभविष्यद्वर्तमानादिकालयोगी भावः, कर्तृकर्मादिसाधनयोगी भावः' इति लक्षणद्वयमत्र क्रियाया विवक्षितम् ॥ ५कादि प्र०॥ ६ वय॑म् य० । वर्जम् भा० ॥ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org