________________
४०९
द्रव्यक्रिययोरन्यत्वप्रतिपादनम्] द्वादशारं नयचक्रम्
एवमभिधानात्तु अन्युत्पत्ती व्युत्पत्तौ वा खवचनादिविरोधः । तत्र तावदव्युत्पत्तौ अवस्थायास्ततोऽन्यत्वम्, तत्वादिविषयशब्दवाच्यत्वात्, देवदत्ताश्ववत् । शिलापुत्रकशरीरवन्नेति चेत्, न, अवस्थाशरीरशब्दप्रयोगानर्थक्यात् अनापि शरीरावस्थाक्रियात्वात्।
व्युत्पत्तावपि कर्तरि षष्ठीयं 'द्रव्यस्यावस्था' इति, सा यद्विषयं द्रव्यस्य कर्तृत्वं तामात्मनोऽक्रियात्वात् तदन्यगतिविचलनप्रतिबन्धात्मिकामवस्थां दर्शयति ।
एवमभिधानात्त्वव्युत्पत्ती व्युत्पत्ती वेत्यादि । अत्र 'द्रव्यावस्था' इत्यस्य शब्दस्यार्थद्वयकल्पना स्यात् - राजवृक्षादिशब्दवदव्युत्पत्तिर्युत्पत्तिर्वा राजपुरुषशब्दवत् । उभयथापि स्ववचनविरोधः । तद्व्याचष्टे -तत्र तावदव्युत्पत्तो अवस्थायास्ततोऽन्यत्वम् , द्रव्यादन्यावस्था, तत्स्वादिविषयशब्दवाच्यत्वात् , तस्य स्वस्वामिसम्बन्धादिष॑ष्ठीविषयेणावस्थाशब्देन वाच्यत्वं द्रव्यस्य, इतरथा द्रव्यशब्दोऽ- 10 वस्थाशब्दो वानर्थकः स्यात्, इंह यद्विशेषवाचिनोऽपि शब्दस्य वाच्यार्थोऽन्य इत्यवश्यमभ्युपगन्तव्यम् , देवदत्ताश्ववत् , यथा देवदत्ताश्व इत्युक्ते देवदत्तस्य स्वमश्वः सोऽस्य स्वामीति तेन स्वामिविषयेण २९१-१ 'अश्व'शब्देन तस्य देवदत्तस्य वाच्यत्वात् ततोऽन्यत्वं दृष्टमेवं द्रव्यावस्थेति ।
__ शिलापुत्रकशरीरवन्नेति चेत् । स्यान्मतम् – यथा 'शिलापुत्रकस्य शरीरम्' इत्यत्र शिलापुत्रकादनन्यस्मिन्नपि शरीरे स्वादिविषयशब्दवाच्यत्वदर्शनादनैकान्तिकतेति । एतच्च न, अवस्थाशरीर-15 शब्दप्रयोगानर्थक्यात् , यद्यनन्यच्छिलापुत्रकाच्छिलापुत्रकशरीरं 'शिलापुत्रक एव शरीरं शरीरमेव शिलापुत्रकः' इति घटकुटशब्दवत् पर्यायमात्रत्वात् प्रतीतपदार्थकं श्रोतारं प्रति अन्यतरप्रयोगानर्थक्यं स्याद् गतार्थत्वात् । तथा द्रव्यमेवावस्था द्रव्यावस्थेत्यन्यतरानर्थक्यम् । तस्मादन्यतरानर्थक्याद् नेदमुपपन्नम् , शिलापुत्रकशरीरवदू नानैकान्तिकतेति । किश्चान्यत् , अत्रापि शरीरावस्थाक्रियात्वादयुक्तम् , नन्वस्माभिरुपपादितम् - द्रव्यक्रियात्मकं सर्ववस्त्विति । तस्मादत्रापि शिलापुत्रकेण शीर्यते, शरारुत्वाच्छ- 20 रीरमिति शरारु भवति, तेन शरारुणा भूयत इति द्रव्य क्रियाभिधानं नातिवर्तते । तथा च द्रव्यावस्था द्रव्यमवतिष्ठते द्रव्येणावस्थीयते इत्यवस्थानस्य क्रियात्वानतिवृत्तेस्ततोऽन्यत्वमेव । एवं तावदव्युत्पत्तौ ।
व्युत्पत्तावपि सामासिकपदत्वात् समासस्य च षष्ठीसमासत्वात् षष्ठयाश्च कर्तरि विहितत्वात कर्तरि तु षष्ठीयं 'द्रव्यस्यावस्था' इति द्रव्यमवतिष्ठत इत्यादि प्राग्वत् । सा यद्विषयमित्यादि यावत् तदन्यगतिविचलनप्रतिबन्धामिकामवस्थां दर्शयति । सा षष्ठी यद्विषयं द्रव्यस्य कर्तृत्वं 25 यां क्रियां साधयत् साधनं कर्तृ भवति तद् द्रव्यं ततोऽर्थान्तरभूतां तामवस्थानक्रियां दर्शयतीति सम्भन्स्यते । किं कारणम् ? आत्मनोऽक्रियात्वात् तस्य द्रव्यस्य स्वयमक्रियात्वात् , क्रियामन्तरेण कर्तुः२९१-२ कर्तृत्वाभावात् कर्तरि षष्ठी न स्यात्, ततस्तस्माद् द्रव्यांदन्यत्र गतिरन्यस्य गतिर्द्रव्याद् विचलनं
१व्युत्पत्ती वे प्र० ॥ २ व्युत्पत्तिर्वा प्र० ॥ ३ दितिविष प्र० ॥ ४ षष्ठ्यविषयेणा भा० । 'षष्ठ्यविषयिणों य० ॥ ५ इह द्विशेष भा० । ( इह विशेष ? इह तद्विशेष ?) ॥ ६ तेन विषतेन स्वामि य० ॥ ७ (खादिविषयेण ? ) ॥ ८ 'गादान भा० ॥ ९ पुत्रकाच्छिलापुत्रकशरीरं शरीरमेव य० । पुत्रकशरीरं शिलापुत्रक एव शरीरं शरीरमेवभा०॥ १० इति वस्था प्र०॥ ११ षष्ठीस्यात् प्र० ॥ २२ दन्यामन्यत्र य० ॥
नय० ५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org