________________
४०८ ___ न्यायागमानुसारिणीवृत्त्यलङ्कतम्
[पञ्चम उभयारे यदप्यादिनैगमनयदर्शनमनवबुध्य पूर्वनयनिपाति स्थितिखरूपनिरूपणं क्रियते 'सा तु द्रव्यावस्थाविशेषो गतिवत् प्रतिपत्तव्या' इति अत्रापि यत्नप्रसाधितक्रियान्तिरत्वत्यागः अव्यक्तद्रव्यावस्थात्वात् । यत् तद् द्रव्यं ततोऽनन्या क्रिया, तदवस्थात्वात् , देवदत्तबालकुमारादिवत् । तथा चाभ्युपगमविरोधः।
5 सर्वभावव्यापिता' इति वर्तते । भाष व्यक्तायां वाचि [पा० धा० ६१२] ज्ञा अवबोधने [पा० धा० १५०० ] श्विता वर्णे [पा० धा० ७४२ ] गडि वदनैकदेशे [पा० धा० ६५,३६१ ] इत्येवमादीनां पूर्वोक्तपूर्वापरीभूतव्यक्त्यव्यक्तिलक्षणभवनैकत्वात् । एकमेव हि पूर्वापरीभूतं भवनं गतिस्थित्यादिवत् क्रियात्वादित्युक्तम् । तथा भाषत्यादीनामपि पूर्वापरीभूतैकभवनव्यक्त्यव्यक्तिलक्षणक्रियात्वानतिवृत्तेः सर्वभावव्यापितैव । पूर्वमभाषमाणो गच्छंस्तिष्ठन्नुदासीनो वा पश्चाद् भाषते, तथा पश्यति जानाति इच्छति द्वेष्टि प्रयतते स्मरतीत्यादिषु 10 तुल्यश्चर्चः । तस्मान्न काचिदपूर्वापरीभूता क्रियास्ति, क्रियात्वाच्च 'सर्वधात्वर्थाः सर्वधात्वर्थव्यापिनः' इति साधूक्तम्।
एवं तावत् प्रवृत्तिसामान्यमेव क्रिया प्रवृत्तिविशेष इत्युक्तम् , अधुना लक्षणान्तर परीक्ष्यम् , अत आह - यदप्यादिनैगमेत्यादि ।
. णेगेहिं मिणति माणेहिं णेगमो एस तस्स रुत्ती । 15
संगहितपिंडितत्थं संगहवयणं समासेण ॥ [आवनि० ] इत्येवमादिनयलक्षणे द्रव्य क्रियात्मकद्वित्वाचनेकधा गमो नैगम इति निरुक्त्यपेक्षया द्रव्यक्रियाद्वित्वास्मकवस्तुवाद आदिनैगमनयदर्शनम् , त्रित्वादिदर्शनानां द्वितीयादिनैगमत्वात् । एतद् दर्शनमनवबुध्य पूर्वनयनिपाति संग्रहनयं निपतितुं शीलं यस्य निरूपणस्य तदिदं स्थितिस्वरूपनिरूपणं क्रियते सङ्ग्रहनय
दर्शनानुपाति । प्रथमाद् विधिभङ्गाद् व्यवहारनयादारातीया येऽतीताः पूर्वनयास्ते सङ्ग्रहनयभेदाः, तदनु२४. पाति यदुत्तरं क्रियालक्षणं स्थित्युदाहरणद्वारेणोच्यते तत्स्वरूपनिरूपणाय तदविदितनयविषयविवेकैरेवो
च्यते । कथं पुनस्तैः स्थितिस्वरूपनिरूपणं क्रियते ? उच्यते - सा तु द्रव्यावस्थाविशेषो गतिवत् प्रतिपत्तव्या इत्येवं निरूप्यते । यथा गतिर्द्रव्यस्यावस्थाविशेषो बालकुमारादिवद् द्रव्यादनन्या तथा स्थितिरिति । गतिस्थितिवश्च सर्वक्रिया इति । अत्रापि लक्षणान्तरे दोष उच्यते अविकल्पिते क इति चेत्, उच्यते--
यत्नप्रसाधितक्रियार्थान्तरत्वत्यागः, प्राक् त्वया यत्नेन प्रसाधितमुक्तिवस्तुक्रियालक्षणाभिधानेन 'द्रव्या25 दर्थान्तरं क्रिया' इति तस्य त्यागो दोषः । किं कारणम् ? अव्यक्तद्रव्यावस्थात्वात् , इह ह्यवस्थाशब्देनाध्यक्ताः क्रमभाविनो बालकुमारादयो धर्मा द्रव्यस्यैव देवदत्तादेरंशा एवोच्यन्ते, ते चांशास्तदवयवत्वात् ततोऽनन्ये । तस्मान्न ततोऽर्थान्तरमित्येतदापन्नम् । स चाभ्युपगतद्रव्यार्थान्तरभूतक्रियापदार्थत्यागो दोषः । एष प्रयोगेणैवोद्भाव्यते - यत् तद् द्रव्यं ततोऽनन्येत्यादि गतार्थं यावदभ्युपगमविरोध इति ।
१ पश्चाषते प्र०॥ २ सेणं पा०वि०॥ ३"णेगेहिं माणेहिं मिणइत्ती णेगमस्स नेरुत्ती। सेसाणं पिणयाण लक्खणमिणमो सुणह वोच्छं ॥ २२२ ॥ संगहियपिंडियत्थं संगहवयणं समासओ बिंति ।......॥ २२३ ॥” इति आवश्यकनिर्युक्तौ पाठः॥ ४द्यनेकमा गमो प्र०॥ ५ क्या प्र.॥ ६भा० २० विनान्यत्र-ल्पितक इति ॥ ७ ततो नान्ये य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org