________________
प्रवृत्तिसामान्यस्य क्रियात्वव्यवस्थापनम् ] द्वादशारं नयचक्रम्
४०७ कालभावभेदेन प्रकारमानं भिद्यते एवं गतिस्थित्योरस्तिम्रियत्योर्वा । सर्वैव वासी ....... क्रियैव ।
एवं च भुजिगतिस्थितिपक्त्यादीनामपि तथा तथा सर्वभावव्यापिता, भाषतिजानातिश्वेतत्यादीनामपि पूर्वोत्तरव्यक्त्यव्यक्तिभवनैकत्वात् ।।
कांसपाध्यां पाणौ शरावे वेति क्षेत्रभेदेन प्रथमद्वितीयग्रासादिना दिनरात्र्यादिना सायंप्रातराशादिना वा 5 कालभेदेन तीव्रमन्दक्षुधितग्लानौषधस्वस्वरसायनादिभावेन च प्रकारमात्रेणैव भिद्यते न भुजित्वेन । न हि तेषु प्रकारभिन्नेषु कश्चिद्भुजिर्भवति अक्रिया वा । किन्तु सर्वोऽप्यसौ भुजिरूपानतिक्रमाद् भुजिरेव, अथ च परस्परतः प्रकारमात्रभेदाद् भिद्यन्ते तथा सामान्यप्रवृत्तिरेव प्रवृत्तिविशेषः, वर्ततेरस्त्यर्थस्य सर्वगतिस्थित्यादिभेदात्मकत्वात् । एवं गतिस्थित्योरस्तिम्रियत्योर्वेति विरोधिभावप्रादुर्भावोऽपि सामान्यभवनस्यैव प्रकारमात्रभिन्नस्य विस्पन्दितमिति तन्निगमयति - सर्वैव वाऽसाविति यावत् क्रियैव । तस्मादस्ति-भवति-10
२८९-२ विद्यति-पद्यति-वर्ततीनामेकार्थत्वात् प्रकारभेदाच्च ततो नासामान्यः प्रवृत्तिविशेषो भुजिसामान्यमानप्रकारभिन्नभुजिविशेषवदिति ।
किश्चान्यत् , एवं चेत्यादि । न केवलमस्त्यादय एव सर्वधात्वर्थव्यापित्वात् सामान्यप्रवृत्तिमात्रत्वभावनायां निदर्शनम् , किं तर्हि ? भुजिगतिस्थितिपक्त्यादीनामपि तथा तथा सर्वभावव्यापिता, भुक्तेस्तावद् अँजेरभ्यवहरणार्थस्य उपयोगपर्यायत्वात् उपयोगस्यापत्त्यर्थत्वात् आपत्तेः परिणामार्थत्वात् परिणामस्य 15 वृत्तिसत्ताभवनार्थत्वात् । तथा गतिरपि सर्वभावव्यापिनी गमन-चलन-स्पन्दन-परिणामाघेकार्थत्वात् , द्रवति द्रोष्यति दुद्रावेति दुः, द्रोविकारो द्रव्यम् , द्रव्यं च भव्ये [पा० ५।३।१०४ ], द्रव्यं सदैव गत्यात्मकं विपरिणामात्मकमित्यर्थः । आर्षेऽपि यथा- परमाणुपोग्गले णं भंते ! किं एयति वेयति चलति फंदति खोभति खुभति तं तं भावं परिणमति ? हंता गोतमा ! तदेव जाव परिणमति [ भगवतीसू० ५।७।२१२ ] इति । स्थितिरपि तिष्ठत्यास्तेऽस्ति स्वरूपं न त्यजति परिणमति तथा तथा भवतीत्यर्थः । पचति-कृषति-लिखत्यादयः 20 पक्त्यादयः, तेषामपि पक्त्यादीनामस्त्याद्यविशेषः पाकस्य क्रियाफलत्वात् क्रियायाश्च हेतुफलरूपाभिन्नपरिणतित्वात् 'पच्यते पचत्यात्मानं बीजमकरीभवति जायतेऽस्ति विपरिणमति' इत्यायेकार्थत्वात् । यथा कृषि-विलिखेती तथात्मनः शिरां दर्शयति तथा तथा सर्वभाववृत्तेः कण्डूयत इत्याद्येकार्थम् । स्यान्मतम् - अस्तु भुज्यादीनां सर्वभावव्यापिता गतिस्थितिसत्ताविपरिणामाद्यनतिक्रमात् , पठि-हसि-विदि-श्विति-गड्यादीनां कथमिति चेत् , उच्यते --भाषतिजानातिश्वेतत्यादीनामपि पूर्वोत्तरव्यक्त्यव्यक्तिभवनैकत्वात् ‘एवं च तथा तथा ३०-१
१°रात्रा प्र०॥ २ सायंप्रातराशादिना य० प्रतिषु नास्ति ॥ ३ स्वस्वरेसायना य० । स्वरसायंना भा० ॥ ४ ततोन्यसामान्यः य० । वतोन्यसामान्यः भा० । (ततोऽनन्यसामान्यः ?)॥ ५ “भुज पालनाभ्यवहारयोः"-पा० धा० १४५५॥ ६“परमाणुपोग्गले णं भंते ! एयइ वेयइ जाव तं तं भावं परिणमइ ? गोयमा । सिय एयइ चेयइ जाव परिणमइ, सिय णो एयइ जाव णो परिणमइ ।" इति भगवतीसूत्रे पाठः॥ ७इत्यादि दोषार्थ या इत्यादोषार्थत्वात् भा०॥ ८"कृष विलेखने"-पा० धा०९९०॥ ९खति प्र०॥ १० तथा सर्व भा० वि० २०॥ ११ इति आधेकार्थ्यम् प्र०। (इत्याद्यैकार्थ्यम् ?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org