________________
४०६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [पञ्चम उभयारे न्यथाभवनं तथा 'विनश्यति' इत्यादि । खपुष्पादीनामपि ननु तथा अभवनम् , अन्यथा न तु अभवनम् । अगतिस्थितिरन्यथाभवनमेवं खपुष्पादिरपि, सति नियतत्वात् प्रकाराणाम् ।
एवं च एक एव पूर्वापरीभूतो भावः प्रवृत्तिरित्युच्यते स च एवान्तर्भावित5 स्वप्रभेदत्वात् प्रवृत्तिविशेष इत्युच्यते, भुजिविशेषवत्, यथा भुजावेव द्रव्यक्षेत्र
व्यापितां दर्शयति । वक्ष्यते चास्योदाहरणमतिदेशस्य । इदं तु तावत् प्रकृतं भाव्यते-यथा 'तिष्ठति, पचति' इत्यन्यथाभवनम् , अन्येन प्रकारेण परिस्पन्दपरिणतस्य द्रव्यस्य ततः प्रकारादन्येन अपरिस्पन्दपरिणतिप्रकारेण भवनं तिष्ठति आस्ते शेत इत्यादि, तण्डुलादिकठिनद्रव्यमृदूभवनं पचत्यादि । यथैताः क्रियाः
अन्यथाभवनमात्रभेदाः प्रवृत्तिसामान्यं भवनं नातिवर्तन्ते तथा 'विनश्यति प्रध्वंसते 'नितिष्ठति' इत्याद10 योऽपि भवनप्रकाराः प्रवृत्तिसामान्य भावत्वं च नातिवर्तन्ते । एवं क्रियापदवाच्यस्यार्थस्य अन्यथाभवनमात्रता व्याख्याता । येऽप्यत्यन्ताभावाभिमताः खपुष्पादिशब्दवाच्यास्तेषामपि ननु तथा अभवनम् , अन्येन प्रकारेण न त्वभवनम् , भवनमेव, नात्यन्ताभवनमित्यर्थः । कथम् ? अगतिस्थितिः, गतेरन्या स्थितिरगतिस्थितिः, न तु गत्यभावमात्रम् , गतेरेव प्रकारान्तरता । यथा सा स्थितिरन्यथाभवनमेवं खपुष्पादिरपि
अन्यथाभवनम् । किं कारणम् ? सति नियतत्वात् प्रकाराणाम् , प्रकारत्वात् सन्नेव खपुष्पादिः, यो यः 15 प्रकारः स सन्नेव, यथा गतिनिवृत्तिः स्थितिरुक्तन्याया सती । कथं खपुष्पादेः प्रकारता इति चेत्, उच्यते - खपुष्पस्य च समवायरूपेणानभिव्यक्तिः अशोककुसुमादिप्रकारेणाभिव्यक्तिरिति प्रकारत्वानतिवृत्तः, द्रव्यक्रिययोः सर्वात्मकत्वादस्मिन् द्रव्यार्थनयभेदे सर्वं द्रव्यं क्रिया च गमनादि, द्रव्यभेदानां गमनादिक्रियाभेदानां चोक्तवद् भवनद्वयाभेदात् कतमत् खं कतमद्वा पुष्पाणां विकसनमन्यत् ? इति देवदत्तगमन
भवनद्वयत्ववत् तदपीति खपुष्पादिरपि भावः । २८९.२ एवं चेत्यादि । एवं च कृत्वा गमनस्थानादिक्रमभाविनीनामपि क्रियाणां सततसम्प्रवृत्तितादात्म्या
नतिक्रमादेक एव पूर्वापरीभूतो भावः प्रवृत्तिरित्युच्यते, एवमेव च तदुपपद्यते यदुक्तं पूर्वापरीभूतं भावमाख्यातेनाचष्टे व्रजति पचति [ निरुक्त० १।१] इत्यादीति सर्वधात्वैकार्थ्यस्य चानन्तरमापादयिष्यमाणत्वात् । कस्मात् स भावः प्रवृत्तिरित्युच्यते ? ब्रूमः -प्रकर्षेण वर्तनात् । स च प्रकर्षः सदा सर्वप्रभेदानु
भवनरूपः, स च एवान्तर्भावितस्वप्रभेदत्वात् प्रवृत्तिविशेष इत्युच्यते रूपादिगत्यादीन स्वप्रभेदान 25 अन्तर्भावयन्नेव भावः सामान्यभवनलक्षणो भवन् , भेदानां परस्परतो विशेषाविशेषौ "भेदानुस्यूतत्वात् , न त्वदिष्टः कारकाणां प्रवृत्तिविशेषः सामान्यप्रवृत्तेर्भिन्नः कश्चिदिति । दृष्टान्तः - भुजिविशेषवदिति । तद्वथाख्यानम् - यथा भुजावेवेत्यादि यावत् प्रकारमात्रं भिद्यत इति । अशन-पान-खाद्य-खाद्यादिद्रव्यभेदेन
१।। एतदन्तर्गतः पाठो भा० प्रतौ नास्ति ॥ २ निस्तिष्ठति य० ॥ ३ वृत्तिस्थि प्र०॥ ४ चा भा० वि०॥ ५मचा य० ॥ ६ दृश्यतां पृ० १२६ पं० २४॥ ७°मापायांतर्भाविदयिष्य य० ॥ ८स च एचान्त भा० । (स एव चान्त?)॥ ९भव में वि० । भाव में डे० ली. । (भवेत् ?)॥ १०विशेषो य० ॥ ११ मेदानुभ्युतत्वात् भा० । मेदानुभ्युपगतत्वात् य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org