________________
खपुष्पादेरपि भावत्वोपपादनम्] द्वादशारं नयचक्रम्
४०५ स्यादेतत्-स्थित्या विरोधवत् खपुष्पादिना गत्यभावेनापि विरोधः, तत्र तद्विरोधित्वात् तदविनाभावित्वे कुत एतद् भावविषयमेव अभावविषयमेवैतदिति वा कुतः ? यद्यभावोऽपि भावेन अभावेन वा भावो विरुध्यते तावुभौ भावावेव तर्हि विरोधित्वात् यत्किश्चिद्वत् । अनुत्पद्यमानस्थितौ गतिनिवृत्ती गतिस्थित्याघेकभूतभवनाविनाभूतद्रव्यविनाशविषयं 'स्थानम्' इत्यभिधानं स्यात् । तस्माद् गत्यभावलक्षित.......।
एवं खपुष्पाद्यसत्तावाचिशब्दानां भावार्थत्वम् , यथा 'तिष्ठति पचति' इत्य
स्यादेतदित्यादि । स्यान्मतम् – 'विरोधित्वात्' इत्येतदनैकान्तिकमभावत्वप्रसङ्गात् । गतेरभावो गत्या विरुध्यते प्रकाशाभावेनेव तमसा प्रकाशः, यथा त्वन्मतेनैव ननु प्राग् गतिरेव क्रियान्तरप्रादुर्भावेनानभिव्यक्तिं नीयमाना भाव एव इत्युक्तम् , तत्र स्थित्या विरोधवत् खपुष्पादिना गत्यभावेनापि विरोधः । तत्र 10 तद्विरोधित्वात् तदविनाभौवित्वे इति गतिरभावाविनाभाविनी स्यात् तद्विरोधित्वात्, यच्च यद्विरोधि २४४-१ तत् तेनाविनाभावि दृष्टम् , यथा - गतिः स्थित्या । खपुष्पादेर्वा भावत्वमेव स्यात् , गतिविरोधित्वात् , स्थितिवत् । एवं तदविनाभावित्वे सति कुत एतद् भावविषयमेव एतदभिधानं 'स्थितिः' इति ? 'खपुष्पादिः' इत्यभावविषयमेवैतदिति वा कुतः ? विशेषो वात्र वाच्य इति । _ अत्र 'ब्रूमः - यार्थभावोऽपीत्यादि । खपुष्पादेर्विपक्षं कृत्वा भावत्वाद् नानिष्टापादनम् । किं 15 'विशेषेणोक्तेन ? यथा स्थितेरभावत्वायुक्तिस्तथा खपुष्पादेरपीत्यभिप्रायः । तत् कथं भाव्यते ? इति तदुच्यते- यद्यभावो भावेन अभावेन वा भावो विरुध्यते तावुभौ यो विरुध्यते येन च विरुध्यते भावावेव तर्हि विरोधित्वात् यत्किञ्चिद्वदिति उदाहरणसौलभ्यं दर्शयति अहिनकुलादिवद् घटपटादिवद् घटकपालादिवद्वा सर्वत्र सहानवस्थानलक्षणविरोपदर्शनाद् देशतः कालतो वेति । तस्मात् खपुष्पादेरपि भावत्वाद् नानिष्टमिति ।।
20 ___ यदपि च त्वया स्थित्यभिधानमभावविषयमिति मन्यते तस्यापीयमुपपत्तिः स्याद् भवन्ती, तद्यथागत्यभावमात्रविषयत्वं चानुत्पद्यमानस्थितिर्गतिनिवृत्तिरिति, तथा च कल्प्यांनायामनुत्पद्यमानस्थिती गतिनिवृत्ती, गतिस्थित्यादि एकभूतं भवनं प्रागुक्तन्यायकम् , तेनाविनाभूतं द्रव्यम् , तस्य विनाशोऽत्यन्तमभावः, तद्विषयं 'स्थानम्' इत्यभिधानं स्यात् , न चैवं द्रव्यस्य कूटस्थनित्यत्वाद् भवितुमर्हति । तस्मादेव च तदनिष्टभयात् प्रतिपत्तव्यम् - गतिनिवृत्तिः स्थिति भावः, तथा खपुष्पादिश्चेति । तदुपसंहरति-तस्माद् 25 गत्यभावलक्षितेत्यादि गतार्थम् ।
अनन्तरं खपुष्पादिरपि प्रसङ्गतोऽभिहितो योऽसावभावाभिमतस्तत्रापि 'अभावः' इति च नापदार्थ उच्यते, किं तर्हि ? नत्रः पर्युदासवाचित्वाद् भावादन्यो भाव इति भावविशेषः, अब्राह्मणक्षत्रियादिवत् । २४० एवं खपुष्पोद्यसत्तावाचिशब्दानां भावार्थत्वम्, एवमसद्भावाभिमतेष्वपि सदर्थविषयत्वमिति न्याय
१ तेनेव प्र० ॥ २ भावत्वे भा० । भावत्ते य० ॥ ३ वा धूमः भा० ॥ ४॥ एतदन्तर्गतः पाठो भा० प्रतौ नास्ति ॥ ५भावाद् य० ॥ ६ विशेषेणा वि. विना० ॥ ७°धादर्शनाद् प्र० ॥ ८ पा० विना 'मानायामुद्यमानस्थितौ य० । मानायानुधमानस्थितौ पा० । मानस्थितौ भा० ॥ ९पादिसत्वा प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org