________________
न्यायागमानुसारिणीवृस्यलङ्कृतम् [पञ्चम उभयारे स्यादेतत् - यथा भुक्तिक्रियाया निवृत्तिस्तृप्तिफलावसाना, प्रयोजनाभावे कारकानभिसम्बन्धाद भुजेनिवृत्तिर्न क्रियान्तरबाधनात् एवमेतदपि स्यात् । अत्रोच्यते-अत्रापि तु फलं तृप्तिः क्रियान्तरम् । बुभुक्षां हि बाधित्वा भुक्तिः प्रवर्तते, भुक्तिं च बाधित्वा तृप्तिः प्रवर्तते, क्रियाचक्रकाण्येतानि । 5 यदि स्थिति म अवस्तुकमभिधानं विवक्षाशब्दयोरप्रवृत्तिप्रसङ्गः । अथ
द्रव्यमानं स्थितिः द्रव्यस्याविरोधाद् गतावपि स्यात् । यतस्तु खलु विरोध्यविरोधिभावा वाच्यवस्तुस्थितिः तस्माद् भवनानन्यत्व एव गतिविरोधिनी स्थितिः।
__ अत्राह -स्यादेतदित्यादि यावदेवमेतदपि स्यादिति । यथा तु भुक्तिक्रियाया निवृत्तिस्तृप्तिफलावसौना तत् प्रयोजनमुद्दिश्य कारकप्रवृत्तेः, तस्मिंश्चावसिते प्रयोजने कारकाणि न प्रवर्तन्ते, तस्मात् कारकान10 भिसम्बन्धाद् भुजेनिवृत्तिः न क्रियान्तरबाधनात् । एवं गतिरपि प्राप्तिफलावसाना प्रयोजनाभावे कारका
नभिसम्बन्धाद् निवर्तते न क्रियान्तरबाधनात् । अतः संशेमहे - किं स्वप्नजागरणवत् क्रियान्तरन्यङ्यने क्रियान्तरोद्भावस्तादात्म्ये सत्येव स्यात् ? उतात्यन्तनिवृत्तिरेव गतेः फलावसानभुजिक्रियावत् ? इति । अत्रोच्यतेअत्रापि तु मा मंस्थाः 'भुजिनिवृत्तिरभाव एव' इति, किं तर्हि ? फलं तृप्तिः क्रियान्तरं प्रवृत्तेरेव क्रियात्वात् , बुभुक्षां हि बाधित्वेत्यादि यावत् क्रियाचक्रकाण्यतानीति । एतदुक्तं भवति- क्रियान्तर15 प्रादुर्भावेन विना न क्रियानिवृत्तिर्नापि पूर्व क्रियान्यकरणमन्तरेण क्रियान्तरप्रादुर्भावः, बुभुक्षाभुक्तितृप्तिक्रियाचक्रवत् पूर्वपूर्वबाधया उत्तरोत्तरप्रादुर्भावात् समानमेतदपीति । तस्माद् नाभावो गतिनिवृत्तिः,
भाव एव स्थितिरिति । २८७-२ एतदनिच्छोर्दोष उच्यते - यदि स्थिति मेत्यादि । स्थितेर्भावत्वानभ्युपगमे द्वयी गतिः स्थितिशब्दस्य
स्यात् तृतीयविकल्पाभावात् - यद्वा स्थित्यभिधानमवस्तुकम् ? यद्वा द्रव्यमात्रविषयं स्यात् ? किश्चातः? 20 इदमतो भवति दोषजातम् – अवस्तुकत्वे विवक्षाशब्दयोरप्रवृत्तिप्रसङ्गः, यद्यवस्तुविषयं स्थितिशब्दवचनं वक्तुमिच्छा विवक्षा सा स्वनिश्चितमर्थं परं प्रत्याययामीति जायते, अर्थाभावाच्च न स्यात् । तथा च अभिधीयतेऽनेनेत्यभिधानं स्थितिशब्दः, तस्याभावः स्यादर्थाभावात् , काकवासितादिवदनर्थकं वा तत् स्यादिति । एवं तावदवस्तुकत्वे दोषः । अथ द्रव्यमान स्थितिः द्रव्यस्याविरोधाद् गतावपि स्यात् , यथा देवदत्तसद्भावाद् गत्यविरोधाच्च 'देवदत्तो गच्छति' इत्यत्र देवदत्ताभिधानं प्रवर्तते तथा 'देवदत्तस्तिष्ठति 25 गच्छति च' इत्येतदभिधानं प्रवर्तेत, उभयत्र द्रव्यस्यैव सत्त्वात् विशेषाभावाच्च । एवं दोषदर्शनाद् न
गत्यभावमानं स्थितिः । यतस्तु खल्वित्यादि, विरोध्यविरोधिर्भावा वाच्यवस्तुस्थितिः, गतिस्थित्योः परस्परविरोधाद् देवदत्तद्रव्येण सहाविरोधाद् भावावेव गतिस्थिती द्रव्यवत् , अन्थो गतार्थो यावद् भवनानन्यत्व एव गतिविरोधिनी स्थितिरिति । भवनानन्यत्व इति द्रव्यभवनादनन्यैव गतिः स्थितिति प्रवृत्तिभवनानन्यत्व एवेति यथाक्रान्तमुपसंहरति ।
१नु भा० ॥ २ °सान प्र० ॥ ३°सानेभुजि य० ॥ ४ (प्रवृत्तिरेव ? )॥ ५ विरोधाविरोधि प्र० ॥ ६ भावाचाव्यवस्तुस्थिति भा० । भावावस्तुस्थितिः वि० । भावावाव्यस्तुस्थितिः पा० डे० ली० २०॥ ७°पक्रान्त प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org