________________
गतिनिवृत्तेर्भावत्वोपपादनम् ]
द्वादशारं नयचक्रम्
४०३
गतिविशेषणसामर्थ्यादिति चेत्, तदेवेदमस्मदिष्टं स्थानस्य सत्त्वं गत्यभावस्य गतिविशेषणयोगात् सिद्धम् । गतिविशेषणसामर्थ्यापादितस्थित्याद्युत्तरभाव सत्यस्वात् अत एव च सर्वात्मकभवनखतत्त्वमालम्ब्य तत्खाभाग्यात् पूर्वोत्तर भावयोरेकस्याभिव्यक्त्या इतरस्य अनभिव्यक्त्या च भवनं भावः । विरोधिभावप्रादुर्भावे हि भावान्तर निवृत्तिः भाव एव विरोधिभावप्रादुर्भावत्वादेव, यथा जागरणेन स्वमो 5 निवर्त्यते । न हि क्रियान्तरमन्यङ्गीय क्रियान्तरं प्रादुर्भवतीह किञ्चित् । इहापि च गतिभवनमन्यङ्गीय न स्थितिभवनं प्रादुर्भवति ।
गतिविशेषणसामर्थ्यादिति चेत् । स्यान्मतम् - यदि सर्वथा स्थानं निवृत्तिरभावः इत्यविशेष्य ब्रूयां खपुष्पवद् निरुपाख्यं स्यात्, किं तर्हि ? 'गत्या विशिष्टं स्थानं गतिनिवृत्तिः' इति ब्रूमः । तस्माद् 'गत्यभावः' इति सोपाख्यमिति । अत्रोच्यते - तदेवेदमस्मदिष्टं स्थानस्य सत्त्वं गत्यभावस्य स्थित्य - 10 भावस्य गमनस्य सत्त्ववद् गतिविशेषणयोगाद् भवन्मतविरुद्धं सिद्धम्, तस्मिंश्च सिद्धे स्थाने तद्वद् २८६-२ गतिस्थित्यादि सर्वक्रियापदाभिधेयं भावः सत्यमेव नासदिति सिद्धम् । तस्माच्च गतिविशेषणसामर्थ्यापादितस्थित्याद्युत्तरभावसत्यत्वात् अत एव च सर्वात्मकेत्यादि यावद् भवनं भाव इति । येयं निरुक्तिः 'भवनं भावः' इति साध्येतस्मादेव कारणाद् गतिस्थित्यादिसर्वात्मकमेव भवनंस्वतत्त्वमालम्ब्य तदपरित्यागेन तत्स्वाभाव्यात् तत्तद्भवनानुभवस्वभावत्वात् पूर्वस्य गतिभावस्य उत्तरस्य च स्थितिभावस्य अथवा पूर्वस्य 15 स्थितिभावस्य उत्तरस्य च गतिभावस्य यथाविवक्षाक्रमं यथापरिणतिक्रमं चे यथासम्भवमेकस्याभिव्यक्त्या इतरस्यानभिव्यक्त्या च भवनं भाव इति निरुच्यते ।
स्यान्मतम् - विरोधिनो भावस्य उत्तरस्य स्थित्यादेः प्रादुर्भावाद् गतेर्विनाश: गतेर्वा प्रादुर्भावे स्थिते:, स चाभावो विनाशः पाकजोत्पत्तिवदिति । अत्रोच्यते - योऽप्यभावाभिमतो विनाशो विरोधिभावप्रादुर्भावे हि भावान्तर निवृत्तिरितीष्टः, स च भावान्तरानभिव्यक्तिस्तस्य भावान्तरस्य स्थितेरन्यस्य गत्यादेः 20 गर्वान्यस्य स्थित्यादेर्भाव एव नाभावः, विरोधिभावप्रादुर्भावत्वादेव । यथा जागरणेन स्वप्नो निवर्त्यते, 'किमुक्तं भवति ? निवर्त्यतेऽनभिव्यक्ति नीयत इत्युच्यते । यथा जागरणेन स्वप्नोऽनभिव्यक्ति नीयते तथा स्वप्न जागरणम्, जाग्रतोऽपि च सुप्तवद् मन्द मन्दतर- मन्दतमचैतन्यदर्शनात् सुप्तस्यापि जायत इवाभिव्यक्त[व्यक्त]तरव्यक्ततमस्वदर्शनात् तदेव हि चैतन्यं तीव्रमन्दावरणोदयक्षयोपशमापेक्षं निद्रा-निद्रा[निद्रा]-प्रचलाप्रचला [प्रचला ] दिभेदं पटु- पटुतर - [पटु ] तँमेन्द्रियादिभेदं च दृश्यते । तस्मादेकस्यैव वस्तुनो - २८७-१ ऽभिव्यक्त्यनभिव्यक्तिकृते स्वप्नजागरणे, अन्यतरन्यङ्यनेनान्यतरभवनात् सर्पस्फटाटोप कुण्डलकीभवनवत् । अत आह- न हि क्रियान्तरमन्यङ्गीयेत्यादि गतार्थं यावदिह किञ्चिदिति । एषा दृष्टान्तवर्णना । इहापि च गतिभवनमित्यादि गतार्थं दार्शन्तिकवर्णन मपि । तस्मात् क्रियान्तरप्रादुर्भावे पूर्व भावनिवृत्तिः नाभाव इति ।
25
१ स्य तत्त्व य० ॥ २ २० विना च यथासंख्यमे प्र० । ( चायथासंख्यमे ? ) ॥ ४ सा प्र० ॥ ५ एतदन्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ८° व च वस्तुनो भा० ॥
६० ॥
Jain Education International
For Private & Personal Use Only
३ पिनाशः प्र० ॥ ७ तमैन्द्रि ं य० ॥
www.jainelibrary.org