________________
४०२
न्यायागमानुसारिणीवृत्यलङ्कृतम् [पञ्चम उभयारे प्रदर्यते सङ्गोप्यते च गोदोहे वा तडागादौ; तस्यैव क्षणमप्यनवस्थानमुदके प्रक्षिप्तस्य । प्रवृत्तिविशेषत्वेनाभूतत्वाद्यसिद्धतापि चैवमुक्तैव । अगत्यादित्वाच नासत्त्वम् । नन्वगमनस्थानं चाकाशं भवति इति सन्देहहेतुता। . गत्यभावोऽप्रवृत्तिर्गतिनिवृत्तिरिति चेत्, अथ निरुपाख्यमेव गत्यभावमात्रस्थानं तत् प्रामोति अभावत्वादप्रवृत्तत्वात् खपुष्पवत् ।
सङ्गोप्यते च 'सङ्गोपितसाराणि द्रव्याणि' इति ख्यापनार्थं, 'गोदोहे वा तडागादाविति, तस्यैव आमस्य क्षणमप्यनवस्थानमुदके प्रक्षिप्तस्येति च कारकविशेषापेक्षाप्रदर्शनम् ।
यदप्युक्तं प्रवृत्तिसामान्यं प्रवृत्तिविशेषत्वेनाभूतत्वात् कारकवद् गच्छत्यादिव्यापि न भवति इति तदपि नानुमानम् , असिद्धहेतुत्वात् । प्रवृत्तिसामान्यस्य प्रत्तिविशेषत्वेनाभूतत्वमसिद्धं प्रवृत्ति10विशेषस्वरूपत्वादेव, तत्सामान्यस्य प्रवृत्तिविशेषस्वरूपत्वं च सर्वत्र भवनस्याविच्छिन्नत्वात् तदविनाभावाच्च गत्यादिविशेषाणां भवनखात्मवदिति तन्न्यायमनुस्मारयन्नाह -प्रवृत्तिविशेषत्वेनाभूतत्वाद्यसिद्धतापि
चैवमुक्तैव । आदिग्रहणाद् विरोधाविरोधभावौ द्रव्यक्रिययोरेवमुक्तावेवेति । यदप्युक्तम् -असत्त्वाद् द्रव्यद्वितीयतापि नैव प्रवृत्तिसामान्यस्यासत्त्वं च खपुष्पवदगत्यादित्वादिति, अत्रोच्यते - अगत्यादित्वाच्च
नासत्त्वं हेत्वसिद्धेरेवोक्तवद् गत्यादिस्वरूपत्वात् सततभवनस्येति । 15 अभ्युपगम्यापि अगत्यादिहेतुसिद्धिमनैकान्तिकत्वं ब्रमः - नवगैमनस्थानं चाकाशम् अगच्छ___ दतिष्ठच्च व्योम भवति अस्त्येव । तत्र किमगत्यादित्वादसत् स्यात् खपुष्पवत् ? उताकाशवत् सत् स्यात् ? २८६-१ इति सन्देहहेतुतेति । स्यान्मतम् - अगत्यस्तु, कथमस्थानमाकाशम् नित्यस्थितत्वात् ? तस्मात् 'अगतित्वात्'
इति संशयहेतुता स्यात् , 'अस्थानत्वात्' इत्ययुक्तेति । अत्रोच्यते - अस्याप्यस्थानत्वमेव, यस्मात् पठ्यते
ष्ठा गतिनिवृत्तौ [पा० धा० ९२८ ], प्रवृत्ताया गतेर्या निवृत्तिः प्रतिबन्धः सा स्थितिर्वक्ष्यमाणवत् । न चास्य 20 प्रवृत्तगतेराकाशस्य प्रतिबन्धो जीतु प्रगतदेवदत्तगतिनिवर्तनवत् । 'अस्थानम्' इति च स्थानादन्यद् गमनादि
उच्यते न स्थानस्यात्यन्ताभाव एव, तस्मादाकाशमप्यस्थानगमनं सच्चेत्यनैकान्तिकहेतुता तदवस्थैव साधनयोरनयोरिति।
गत्यभावोऽप्रवृत्तिर्गतिनिवृत्तिरिति चेत् । स्यान्मतम् - नन्वभावो गतेर्गतिनिवृत्तिरप्रवृत्तिः, तस्माद् गत्यभावमात्रत्वात् स्थितेरभावत्वाद् नास्थानं न स्थानवदेव चाकाशं गतेरेवाभावादिति । अत्रोच्यते -अथ 25 निरुपाख्यमेवेत्यादि । उपाख्या संज्ञा, निर्गतोपाख्यं निरुपाख्यं त्वत्परिकल्पितगत्यभावमात्रस्थानं तत् प्राप्नोति, अभावत्वात् । अभावत्वं चास्याप्रवृत्तत्वात् खपुष्पवत् । आकाशादि च प्रवृत्तं स्थानवदस्थानं चेति वक्ष्यामः ।
१ गोदाहं बा तडागादाविति तथैव य० । गोदोविति तस्यैव भा० ॥ २ दृश्यतां पृ० ४०० पं० ६ ॥ ३ * * एतचिह्नान्तर्गतपाठस्थाने प्रवृत्तिविशेषत्वेनाभूतत्वमसिद्धं प्रवृत्तिविशेषस्वरूपत्वादेव तत्सामान्यस्य प्रवृत्तिविशेषत्वेनाभूतत्वमसिद्धं प्रवृत्तिविशेषस्वरूपत्वात्सामान्यस्य इति द्विर्भूतः पाठः प्रतिषु ॥ ४ दृश्यता पृ० ४०० पं० ७॥ ५ नन्वगमनं चाकाशम् भा० । (नन्वगमनमस्थानं चाकाशम् ? नन्वस्थानगमनं चाकाशम्)॥ ६ गतिनिवर्तनवदस्थानमिति वृत्तौ य० ॥ ७ प्रवृत्ता । प्रवृत्ताया भा० । प्रवृत्ताऽप्रवृत्ताया य० ॥ ८ जानु य० ॥ ९ भावगते भा० । भागवते य० ॥ १० स्थानतदेव प्र०॥ ११ व प्र.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org