________________
प्रवृत्तिसामान्यस्य क्रियात्वसाधनम्] द्वादशारं नयचक्रम्
४०१ ___ अभ्युपगता तावदस्मदभिमतिवत् सर्वभावविषया प्रवृत्तिर्भावानामात्मा फलान्तरहेतुहेतुभावाविभक्तवृत्तिः सर्वभावेष्वित्युक्तेः । अनन्तरोक्तविशेषद्वयसन्निधानात् फलान्तरहेतुत्वात् तेषामेव ।
यथा च विशेषाः फलनिवृत्तौ कारकान्तराण्यपेक्षन्ते तथा मृद्भवनस्यापि घटफलनिवृत्तौ कारकान्तरापेक्षा, कर्ता कुम्भकारोऽस्य दण्डादिना उदकाद्याहृत्यै । अततः शालायां घटं करोति । मालवनगरे सप्त वर्षशतानि आम एव घटो वर्षे
अत्रोच्यते - अभ्युपगता तावदस्मदभिमतिवदित्यादि । ननु त्वयापि प्रवृत्तिविशेषक्रियावादिना 'प्रवृत्तिसामान्यमेव क्रिया' इत्येतदभ्युपगतमस्मद भिमतिवत् । कथम् ? इति तद्दर्शयति - सर्वभावविषया प्रवृत्तिर्भावानामात्मेति, आदावेव तावदभ्युपगतं त्वया ने हि किञ्चित् स्वात्मनि मुहूर्तमप्यवतिष्ठते वर्धते यावदनेन वर्धितव्यमपायेन वा युज्यते इति ब्रुवता सर्वभावानां सततसम्प्रवृत्तिरात्मा स्वरूपमिति, स 10 चाभ्युपगमोऽस्मन्मतिसाम्यात् प्रवृत्तिसामान्यक्रियात्वं समर्थयति, किं कारणम् ? फलान्तरहेतुहेतुभावाविभक्तवृत्तिः सर्वभावेष्वित्युक्ते, फलं बीजादिप्रवृत्तेर्हेतुर्भूताया अङ्कुरादि, ततोऽन्यानि फलानि फलान्तराणि तदनुबन्धजन्मानि पर्ण-नाल-काण्ड-तुष-शूक-क्षीर-तण्डुलादीनि क्रमेण, हेतवः पूर्वे पूर्वे यथास्वम् , ततोऽपि पूर्वे पूर्वेऽन्तरिता हेतुहेतवः, त एव भावाः क्रियात्मानः, तैरेवाविभक्ता वृत्तिर्वर्तनं । सततसम्प्रवृत्तिः सर्वभावेष्वित्युक्तत्वात् । कथमुक्तम् ? ने हि किञ्चित् स्वात्मनि इत्यादिवचनात् सर्वभावेषु २८५-१ वीजाङ्डरमृत्पिण्डादिषूक्तम् । तच्च प्रवृत्तिसामान्यं तण्डुलविक्लेदादीनामपि तत्स्वारूप्यानतिवृत्तेः । किश्चान्यत् , यदपि चोक्तं “केनचित् फलोद्देशेन प्रवृत्तिविशेषः कारकाणाम्' इति ‘स च विशेषः सहभाविनो रूपा. दयोऽसहभाविनो गमनस्थानादयश्च तैः प्रत्याश्रयं युक्ता तदात्मिका च' इत्यनेनापि वचनेन सामान्यप्रवृत्तेरेवेति क्रियात्वमुक्तं मैंवति । किं कारणम् ? अनन्तरोक्तविशेषद्वयसन्निधानात् सर्वत्र तेषामेव च विशेषाणां सामान्यप्रवृत्त्यात्मकानामोदनााद्देश्यफलरूपत्वात् सन्निधानाच्च फलान्तरहेतुत्वात् तेषामेव, त एव ह्योदनादि-20 फलान्तरहेतवो नान्यः कश्चित् , अतः प्रवृत्तिविशेषात्मिकापि सैव सामान्यप्रवृत्तिरेवेति ।
___ यदपि चोक्तं 'विशेषास्तूपजायमाना इत्यादिस्तदनन्तरोक्तो ग्रन्थो यावद् न प्रवृत्तिसामान्यं लोकव्यवहारानङ्गत्वादिति, अत्रोच्यते- इहापि समानकरूपत्वाद् न दोषः, विशेषग्रहणानर्थक्यं च परपक्ष इत्यत आह - यथा च विशेषा इत्यादि प्रवृत्तिविशेषसामान्यलक्षणयोः क्रिययोरविशेषापादनग्रन्थो गतार्थः । पचे. रोदनफलनिर्वृत्तौ कारकान्तरापेक्षापत् मृद्भवनस्यापि घटफलनिवृत्तौ कारकान्तरापेक्षेति पिण्डादिषु 25 सर्वेषु भवनमेव कुम्भकारादीनि मृदोऽन्यानि कारकाण्यपेक्षत इत्यर्थः । तान्युदाहरति - कर्ता कुम्भकारो. ऽस्येत्यादि कर्तृकरणसम्प्रदानापादानाधिकरणानि कुलालदण्डाद्युदकाद्याहृत्यतच्छाला इति । कालोऽपि केषा-२८५-२ श्चित् कारकमिति तदर्शयन्नाह -मालवनगरे सप्त वर्षशतानीति, तत्र आम एव घटो वर्षे प्रदर्श्यते
१°वादि प्रवृ प्र० ॥ २ दृश्यतां पृ० ३७९ पं० ८॥ ३ भूतस्यांकुरादि प्र० ॥ ४ सर्वे पूर्वे य० । पूर्वे भा० ॥ ५ तत्स्वरूप्या प्र० ॥ ६ दृश्यतां पृ० ३९९ पं० ३ ॥ ७ भवति य० प्रतिषु नास्ति ॥ ८ दृश्यता पृ० ४०० पं० २॥ ९°च्छालाया इति प्र०॥ १० वर्षे त्रदश्यते प्र०॥
नय०५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org