________________
४०० न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[पञ्चम उभयारे प्रचयापचयफला इत्युक्तं भाष्यकारेण-सर्वस्य मुहूर्तमप्यनवस्थानात् किं फलं लौकिकम् ? विशेषास्तूपजायमानाः खाश्रयात् कारकान्तराण्यपेक्षन्ते, यथा विक्लेदस्तण्डुलाश्रयः काष्ठादीन्यपेक्षते । तत्र या प्रवृत्तिः सा लोकव्यवहारानङ्गम् । तस्मात् प्रवृत्तिविशेषः क्रिया ने प्रवृत्तिसामान्यम् । 5 भावश्च क्रिया इति यदुच्यते तन्न सिध्यति । प्रवृत्तिसामान्यस्य कुतः क्रियात्वं फलोद्देशकारकसम्बन्धाभावात्, गच्छत्यादिव्यापिरूपता वा प्रवृत्तिविशेषत्वेनाभूतत्वात् कारकवत्, वैधयं तद्भेदवत् । तथा च द्रव्यद्वितीयतापि नैव प्रवृत्तिसामान्यस्य, असत्त्वात् , खपुष्पस्येव । असत्त्वं च अद्रव्यत्वे सति अगत्यादित्वात् खपुष्पवत्। 10 गृहीत्वोक्तं भाष्यकारेणेति तस्याः सर्वत्र वस्तुनि सम्भवन्त्याः स्वरूपफलसद्भावप्रदर्शनार्थमुक्तमिति ग्रन्थं
योजयति, सर्वस्य मुहूर्तमप्यनवस्थानात् किं फलं लौकिकं सांव्यवहारिकम् ? इति व्यवहाराक्षमतां दर्शयति। विशेषग्रहणसामर्थ्यात् पुनर्विशेषास्तूपजायमानाः पच्यादय ओदनादिफलान्तरहेतवः स्वाश्रयात् कारकान्तराण्यपेक्षन्ते । तन्निदर्शयति - यथा विक्लेदस्तण्डुलाश्रयः काष्ठादीन्यपेक्षते इति । तदुपनयति - तत्र या प्रवृत्तिरित्यादि गतार्थं यावद् न प्रवृत्तिसामान्यमिति । इति विशेषग्रहणसाफल्यं 15 व्याख्यातं भवति प्रवृत्तिसामान्यस्या क्रियात्वं च ।
भावश्च क्रियेत्यादि यावत् कुतः क्रियात्वं फलोद्देशकारकसम्बन्धाभावात् ? यदुच्यते 'द्रव्यं च क्रिया च' इति यन्यायबलेन त्वयोच्यते द्रव्यक्रियात्मको भाव इति तन्न सिध्यति त्वदभिप्रेतक्रियाभावासिद्धेरित्यर्थः । ईतश्चासिद्धिः स्वविशेषाव्यापित्वाद् न प्रवृत्तिसामान्यं क्रियेति । तत्प्रतिपादनार्थमाहगच्छत्यादिव्यापिरूपता वा इति 'कुतः' इति वर्तते । गत्यादिव्यापिनी न भवति त्वदिष्टप्रवृत्तिसामान्य20 लक्षणा क्रिया प्रवृत्तिविशेषत्वेनाभूतत्वात् , यद् यत् प्रवृत्तिविशेषत्वेनाभूतं तत् तद् गच्छत्यादीन न व्याप्नोति यथा कारकं कारकाणां प्रवृत्तिविशेषत्वेनाभूतमक्रिया, अक्रियात्वं चावयोः सिद्धमिति दृष्टान्तः साधर्म्यण । वैधयं तद्देदवदिति, या या क्रिया सा सा प्रवृत्तिविशेषत्वेन भूता यथा गच्छतितिष्ठादि
क्रियाभेदाः द्रवण-पतन-सर्पण-रिङ्गणादयो वा गमनविशेषाः । तस्माद् गच्छत्याद्यव्यापित्वादप्यक्रियात्वं २८४-२ प्रवृत्तिसामान्यस्य कारकवदिति । 25 तथा चेत्यादि । एवं च कृत्वा द्रव्यं क्रिया च द्वौ भावाविति 'द्रव्यस्य भावस्य द्वितीयो भावः क्रिया' इत्येतदपि प्रवृत्तिसामान्यक्रियावादिनो नोपपद्यते तस्याः क्रियायास्त्वदिष्टाया असत्त्वात् खपुष्पस्येव, यथा खपुष्पमसत्त्वाद् द्रव्यस्य द्वितीयं न भवति तथा प्रवृत्तिसामान्यमिति । असत्त्वमसिद्धं प्रवृत्तिसामान्यस्येति चेत् , असत् तदद्रव्यत्वे सति अगत्यादित्वात् खपुष्पवत् , अगत्यादित्वं च तदव्यापित्वादिति । तस्मात् प्रवृत्तिविशेषः क्रिया न प्रवृत्तिसामान्यम् इति वैयाकरणपक्षः ।
१ दृश्यतां पृ० ३७९ पं०८, पृ० ३८० टि० १॥ २ दृश्यतां पं० २९, पृ० २८५-१, २९२-२ ॥ ३ दृश्यता पृ० २८५-२॥ ४°मिति विशेष भा०॥ ५क्रियत इति य० । क्रिच इति भा०॥ ६ दृश्यतां पृ० ३९७ टि. ७॥ ७ (वैधये ?)॥ ८ त्याक्रियामेदः प्र० ॥ ९दृश्यतां पृ० ४०० पं० ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |