________________
३९९
भवनस्य द्रव्यक्रियारूपत्वाभिधानम् ] द्वादशारं नयचक्रम्
अनया च शब्दार्थगतिभावनया भवनमेवेदमेकरूपं देवदत्तभेदं गतिस्थित्यादिभेदं वा भवति, तेन तथा भूयत इति । ____ननु कारकाणां प्रवृत्तिविशेषः क्रिया । सर्वत्र प्रवृत्तिसम्भवे केनचित् फलोद्देशेन कारकवत्याः परिग्रहार्थं विशेषग्रहणम् । सर्वभावेषु हि प्रवृत्तिरस्ति सहभाविभिरसहभाविभिश्च विशेषैः प्रत्याश्रयं सहिता प्रादुर्भावतिरोभावात्मिका
न्तरसन्निध्यौचितीदेशकालव्यक्तिस्वरादिसामर्थ्यभेदैरर्थस्यानवगम्यमानस्य वक्त्रभिप्रायानुवर्तिभिर्व्याख्यातृभिविशेषेऽवस्थापनं दृष्टम् , तच्च तेनैव शब्देनोपात्तार्थत्वे घटते नान्यथेति । तथा श्रोत्राप्यश्रुतोऽपि गृह्यते स इति 'गच्छति' इत्युक्ते को गच्छति ? 'देवदत्तः' इति अन्तेऽवसाने नाम्नः कर्तृत्वप्रतिपत्तिः, यद्यपि तिपा उपात्तं कर्तृत्वं तथापि यां तां गतिं गत्वा 'नामपदार्थ एव कर्ता' इति प्रतिपत्तिः श्रोतुरपि भवन्ती दृष्टा, तस्माद्धेतोस्तस्या दृष्टायाः प्रतिपत्तेः, केव ? वक्तृवत्, वक्तरीव वक्तृवत, यथा 10 वक्तरि प्रतिपत्तिः प्रागुपजाता 'गच्छति देवदत्तकर्तृविषयं प्रयुञ्जेऽहम्' इति श्रोतुरपीति । एवम् 'अन्योन्याभिसम्बद्धद्रव्यक्रियावाचिनौ नामाख्यातशब्दौ' इति साधूक्तम् । एवमुपपत्त्यन्तरं शब्दार्थोऽपि द्रव्यक्रिया- २८३-२ त्मकवस्तुविषय इति भावितम् ।
अनया चेत्यादि । एतयापि शब्दार्थगतिभावनयास्मद्वयाख्यातया लोके दृष्टया भवनमेवेदमेकरूपं देवदत्तभेदं गतिभेदं स्थितिभेदं धृत्यधृतिहसनकथनादिभेदं वा भवति सर्वत्र व्यक्तेर्भवति । यस्मात् 15 तेन तथा भूयत इति, 'इति'शब्दहेत्वर्थत्वाद् यस्मादेकमेव भवनं देवदत्तद्रव्यरूपं गतिस्थित्यादिक्रियारूपं च भवति, तेनैव तेन तेन रूपेण भूयते, न भवनशून्यमन्यत् किञ्चिदस्ति, भवनमेव भवतीति ।
ननु कारकाणामित्यादि । 'भवनमेवाविशिष्टं सर्वत्र क्रिया' इत्यापादिते तदमृष्यता इदं वैयाकरणेन क्रियालक्षणमभिधीयते - प्रवृत्तिविशेषः क्रिया इत्येतज्ज्यायः क्रियालक्षणम् , न सततसम्प्रवृत्तिमात्रम् । तत्र 'कारकाणाम्' इत्येतस्य व्याख्यानमुद्भूतशब्दैः कारकस्यैव क्रियात्वं मा विज्ञायि भवता, 'कारक- 20 पृथग्भूता गृह्यताम्' इति भेददर्शनार्था षष्ठी । विशेषग्रहणं पुनः किमर्थमिति चेत्, तत आह - सर्वत्र प्रवृत्तिसम्भव इत्यादि । केनचित् फलोदेशेनेति सांव्यवहारिकमोदनादिफलमुद्दिश्यते, कारकैवत्या इति स्वाश्रयपृथग्भूतकरणादिसाधनवत्या इत्यर्थः, सर्वा हि क्रिया कर्तृसमवायिनी कर्मसमवायिनी वा स्यात् पचतिभिनत्तिवत् फलवतीति एवंरूपायाः पचिपठिगम्यादेः परिग्रहार्थ भिद्यादेश्च विशेषग्रहणमिति ।
प्रवृत्तिमात्रपरिग्रहे त्वत्पक्षे दोष उच्यते -सर्वभावेषु हि प्रवृत्तिरस्तीत्यादि, रूपादिभिः सह-25 भाविभिरसहभाविभिर्गतिस्थित्यादिभिश्च विशेषैः प्रत्याश्रयं वस्तुनि वस्तुनि सहिता युक्तैव सा प्रवृत्तिः, प्रादुर्भावतिरोभावात्मिकेति रूपमस्याः कथयति, पंचयापचयफलेति कार्यस्य प्रवृत्तिमाह क्रियायां २८४-१
१ दृष्टा तं य० ॥ २°स्माद्धतोस्तस्मा भा० । वि० विना द्वतोस्तस्मा द य० । द्वतोमाट वि० ॥ ३ 'तिदे प्र० ॥ ४°म्बन्धद्रव्य प्र०॥ ५त्यनन्तरं प्र०॥ ६ चाभवति प्र.॥ ७ य० । व्याक्तार्भवति भा० । ( व्यक्तौ भवति ? व्यक्तीभवति?)॥ ८वावशिष्टं प्र०॥ ९ कवृत्त्या प्र० ॥ १० प्रचयापचयफलेति कार्यसाप्रवृत्तिमहि प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org