________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [पञ्चम उभयारे तथा च विनापि तथाभूतशब्दसन्निधिं पूर्वश्रुतशब्दोपात्तार्थवृत्तिरेव, तथानियतत्वात् , यथा प्रविश पिण्डीमिति । वक्तुर्विवक्षायामन्यथोक्त्यानर्थक्यात् अर्थप्रकरणाद्यापादनाच अन्ते नाम्नः कर्तृत्वप्रतिपत्तिः श्रोतुरपि भवन्ती दृष्टा । तस्माद् वक्तृवत् प्रतिपत्तिः श्रोतुरपि । 5 मा च मंस्थाः - केवलोपपत्तिमात्रकमेवैतदुच्यते 'प्रथमपदोपात्तार्थवाचि द्वितीयपदम्' इति । किन्तु लोकव्यवहारेऽपि प्रसिद्धिस्तथा दृष्टेति तद् दर्शयितुमाह - तथा च विनापीत्यादि यावत् प्रविश पिण्डीमिति इति । एवं च कृत्वा तथाभूतस्यानुवादमात्र भिन्नार्थस्य शब्दस्य सन्निधिमन्तरेणापि पूर्वश्रुतशब्दोपात्तस्यार्थस्य 'वृत्तिरेव तथानियतत्वात् , तथा हि तच्छब्दवृत्तिर्नियता यथा क्वचिदश्रयमाणद्वितीयपंदोऽपि तत्पदार्थविषयप्रतिपत्तिहेतुर्भवति तथैव च प्रतिपत्तारो दृश्यन्ते, येथा 'प्रविश पिण्डीम्' 10 इत्यत्र 'प्रविश'शब्दश्रवणात् प्रवेशयोग्यं प्रकरणादिभिः 'सुषिरं गृहादि कर्मपदमत्र' इति 'पिण्डीम्' इति च
कर्मपदश्रवणादनन्तरोक्तप्रविश्यसम्भवात् 'तद्योग्यभक्षिक्रियाकर्तृकर्मकम्' इति प्रतिपद्यन्ते । तस्मात् 'प्रथम२८३-१ पदोपात्तार्थव्यञ्जनं द्वितीयपदम्' इति साधूक्तम् । यथा देवदत्तशब्दोपात्तार्थवाची गच्छतिशब्दस्तथा
'गच्छति' इति च तिपा उपात्त एव कर्ता, किं कारणम् ? 'लः कर्तरि च' इति कर्तरि विहितलकारादेशत्वात् तिपः । कोऽसौ कर्ता इति चेत्, उच्यते- स च देवदत्त एव विशिष्टः, विशिष्टकर्तृविषयगमनविवक्षित15 त्वात् । अथवा गच्छतिः स्वांशोपात्तार्थविषयक एव तच्छब्दव्यवस्थाप्यस्वरूपत्वात् , 'यो यच्छब्दव्यवस्थाप्यस्वरूपः शब्दः स स्वांशोपात्तार्थविषयक एव दृष्टः, यथा घटशब्दव्यवस्थाप्योर्ध्वत्वादिरिति ।
एवमनिच्छतो दोष उच्यते -वक्तुर्विवक्षायामन्यथोक्त्यानर्थक्यादिति, देवदत्तकर्तृविषयां गतिं अंतिपिपादयिषता हि वक्त्रा गच्छतिः प्रयुक्तो यदि तमेवार्थ न ब्रूयादुक्तेर्वाच्यः कोऽर्थः स्यात् ? इत्यानर्थक्यं प्राप्तमिति । किश्चान्यत् , अर्थप्रकरणाद्यापादनाच्च, "संसर्गविप्रयोगसाहचर्यविरोधार्थप्रकरणलिङ्गशब्दा
१ "वाक्यैकदेशप्रयोगाद्वा ॥ अथवा दृश्यन्ते हि वाक्येषु वाक्यैकदेशान् प्रयुञ्जानाः पदेषु च पदैकदेशान् । वाक्येषु तावद्वाक्यैकदेशान् 'प्रविश, पिण्डीम् , प्रविश, तर्पणम्' इति । पदेषु पदैकदेशान् 'देवदत्तो दत्तः, सत्यभामा भामा' इति । एवमिहापि, संप्रसारणनिर्वृत्तात्संप्रसारणनिर्वृत्तस्येत्येतस्य वाक्यस्यार्थे संप्रसारणात्संप्रसारणस्येत्येष वाक्यैकदेशः प्रयुज्यते । ते निवृत्तस्य विधि विज्ञास्यामः 'संप्रसारणनिवृत्तात्संप्रसारणनिर्वृत्तस्य' इति।" इति पातञ्जलमहाभाष्ये १।१।४४ । अस्य व्याख्या"प्रविशेति । प्रवेशनक्रिया कर्म योग्यमाक्षिपति, तत्र पिण्ड्यां प्रवेशासंभवाद् गृहप्रतिपत्तिः। एवं पिण्डीमिति कर्म योग्यां क्रियामाक्षिपद्भक्षणक्रियां प्रकरणवशात् प्रत्याययति, एवं संप्रसारणादित्येतन्निवृत्तार्थमाक्षेप्स्यतीत्यर्थः । यथा च पदैकदेशप्रयोगस्तथा 'सिद्धे शब्दार्थसंबन्धे' इत्यत्र प्रतिपादितम् ॥” इति कैयटविरचितायां प्रदीपाख्यायां पातञ्जलमहाभाष्यव्याख्यायाम् १।१।४४ । अस्य व्याख्या-“वाक्येष्विति । स्वार्थबोधनाय वाक्येषु प्रयोक्तव्येष्वित्यर्थः । योग्या क्रिया दर्शनादिरपीत्यत आह - प्रकरणेति । तत्तद्वाक्यस्य वाक्यार्थे शक्तिग्रहणकाले तत्तदेकदेशस्यापि तत्तद्वाक्यार्थे शक्तिग्रहः, पदैकदेशस्य पदार्थ इवेति शक्त्यैव बोधः । पूर्वपरिहारे संप्रसारणपदस्य तजन्यवणे उपचारात्प्रयोगः । अत्र त्वेकदेशेन शक्त्या तदर्थप्रतिपत्तिरिति भेदः । तदाह - आक्षेप्स्यतीति । आक्षेपोऽत्र बोधनमेव । भाष्ये 'इत्येतस्य वाक्यस्यार्थे' इति । अत्र 'वाक्य'पदं पदसमुदायपरम् । इत्येतस्य - इत्येतदर्थकस्य, संप्रसारणादुत्पन्नो यस्तस्मादित्यस्येति संप्रसारणस्य यत्कार्य तस्येति च 'वाक्यस्यार्थे' इत्यर्थः ।" इति नागेशभट्टविरचितायाम् उड्योताभिधायां पातञ्जलमहाभाष्यप्रदीपस्य व्याख्यायाम् १।१।४४ ॥ २ वृत्तरेव प्र० ॥ ३ तथाहि भा० प्रतौ नास्ति ॥ ४(°पदेऽपि?)॥ ५ तथा प्रविश प्र० । (तद्यथा प्रविश ?)॥ ६ प्रविशिसम्म प्र०। (प्रवेशासम्भवात् ?)॥ ७ दृश्यतां पृ० १२६ टि० ७॥ ८ योग्यं यच्छ भा०॥ ९त्वादिविति प्र०॥ १० वक्तुवि प्र०। (वक्तृवि ? )॥ ११ प्रतिपादविषता भा० । प्रतिपादविषयता य०॥ १२°दुक्तेर्वान्यःभा० पा० डे० लीं ॥१३ दृश्यतां पृ० १२७ पं० ११ । दृश्यतां वाक्यपदीये २।३१७,३१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org