________________
आनर्थक्यपौनरुक्त्यदोषपरिहारः] द्वादशारं नयचक्रम्
३९७ प्रथमपदोपात्तार्थमेव द्वितीयपदम् उद्घाहितार्थविवरणार्थत्वाद् भाष्यग्रन्थवत्, नादित एव तदर्थज्ञानस्य कारकं तथाव्यक्तव्यञ्जनत्वात् प्रदीपवत्।
सन्निहितश्च द्वितीयपदाभिधेयाभिमतः, तस्य व्यञ्जनशब्दो द्वितीयपदम् , तत्सन्निधिमात्रेण प्रयोगमात्रेण प्राक् प्रतिपन्न एवाभिव्यज्यते सोऽर्थस्तेनेत्यर्थः, तथा प्रतिपत्तुः श्रोतुरिति वक्तुरभिप्रायमूहितुं समर्थस्य गृहीतसङ्केतस्येत्यर्थः उपकारकं प्रतिपत्त्याधानसमर्थ, नान्यस्येति अविभक्तविध्यनुवादार्थस्याकृतसङ्गीतेर्वा ।5। न स पुनः शब्दापराधो यदसौ तदर्थं न प्रतिपद्यते, यथा - न हि स सूर्यस्यापराधो यदेनमुलूको न २८२-१ पश्यतीति । तस्मादैकार्थे सत्यपि विध्यनुवादभिन्नार्थावेतौ।
अत्र प्रयोगः --प्रथमपदोपात्तार्थमेव द्वितीयपदम् , उदाहितार्थविवरणार्थत्वात् , उद्राहितो गमनभवनाभिसम्बन्धी देवदत्तः, तद्विवरणार्थो गच्छतिशब्दः, 'देवदत्तः' इत्युक्ते आगृहीतगतिरपि न परेण ज्ञायत इत्युक्तत्वात् । यदुद्राहितार्थविवरणार्थं पदं तत् पूर्वपदोपात्तार्थमेव दृष्टम् , भाष्यग्रन्थवत् , यथा 10 वृद्धिरादैच् । पा० १।१।१] इति सूत्रेणैवोपात्तमर्थं भाष्यग्रन्थे पदानि विवृण्वन्ति – 'वृद्धिः' इतीयं संज्ञा भवति 'आदेच्'वर्णानामिति, साँध्वनुशासनादिविचाराधारेण सूत्रेणैवोपात्तत्वात् । तथा चोक्तम् -
सूत्रेष्वेव हि तत् सर्वं यद् वृत्तौ यच्च वार्तिके। उदाहरणमर्थस्य प्रत्युदाहरणं पशोः ॥ [
] इति । स्यान्मतम् - प्रथमपदोपात्तार्थं चेत् प्रथमपदोच्चारणकाल एवं तथा प्रतिपत्तुः श्रोतुरुपकारकं स्यात 15 तेनैव व्यक्तत्वादिति । अत्रोच्यते - कस्यचिद् भवत्यपि, केषाश्चिद् नादित एव तदर्थ[ज्ञान]स्य कारकम् , तथाव्यक्तव्यञ्जनत्वात् , तेन प्रकारेण व्यक्तस्तथाव्यक्तः, देवदत्तशब्दोच्चारणमात्रेण श्रोतुः 'विशिष्टक्रियाविषयकर्तृको देवदत्तः' इत्येतावत् तावदाधीयते बुद्धौ तस्मात् तथाव्यक्तः, तस्य व्यञ्जनो गच्छतिशब्दः नापूर्वं किञ्चिदाह तदनुवादित्वात् , अतस्तथाव्यक्तव्यञ्जनत्वात् प्रदीपवत् , यथा प्रदीपः प्रागभिव्यक्तं टमपवरकस्थं व्यनक्तीति नादित एव तदर्थज्ञानस्य कारकः तथात्र वाक्ये गच्छतिशब्दोऽपीति । 20 अथवा द्रव्यार्थवादे कुम्भकारोऽपि विद्यमानमेव घटं तथाभिव्यनक्ति नाविद्यमानमुत्पादयति प्रदीपवत् । तस्मात् कुम्भकारस्यापि व्यक्तव्यञ्जनत्वात् पिण्डाद्यवस्थायामपि व्यक्त एव घटः क्रियाक्रमाभिव्यक्तिप्रत्यक्षत्वात् प्रदीपाभिव्यक्तघटवत् , तथा 'देवदत्तो गच्छति' इत्यत्रापि व्यक्तव्यञ्जनत्वाद् नादित एव तदर्थज्ञानस्य कारक इति ।
१ (व्यञ्जनं शब्दो?)॥ २ द्वियपदम् प्र० ॥ ३ आदैव( आदैज् ? )वर्णा प्र० ॥ ४ साद्यनु य० ॥ ५“न हि सूत्रत एव शब्दान् प्रतिपद्यते । किं तर्हि ? व्याख्यानतश्चेति । परिहृतमेतत् - तदेव सूत्रं विगृहीतं व्याख्यानं भवतीति । ननु चोक्तम् - न केवलानि चर्चापदानि व्याख्यानम् - वृद्धिः, आत् , ऐजिति । किं तर्हि ? उदाहरणं प्रत्युदाहरणं वाक्याध्याहार इत्येतत् समुदितं व्याख्यानं भवतीति । अविजानत एतदेवं भवति । सूत्रत एव हि शब्दान् प्रतिपद्यते।” इति पातञ्जलमहाभाष्ये पस्पशाह्निके । एतदुपरि कैयटविरचिते भाष्यप्रदीपोझ्योते पूर्वार्धमात्रमस्य श्लोकस्य उद्धृतं दृश्यते ॥ ६°णमंथस्य प्र.॥ ७॥ एतच्चिह्नान्तर्गतः °व तथा प्रतिपत्तुः इत्यत आरभ्य श्रोतुरपि भवन्ती दृष्टा त° [पृ० ३९९ पं० १०] इत्यन्तः पाठो य० प्रतिषु इतश्चासिद्धिः स्ववि [पृ० ४०० ५० १८] इत्यनन्तरं वर्तते ॥ ८ दृश्यतां पं० २३ ॥ ९ * * एतदन्तर्गतः पाठो भा० प्रतौ नास्ति ॥ १० घटमपरमस्थं भा० । घटमस्थं य० ॥११ एव च तद य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org