________________
३९६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [पञ्चम उभयारे देवदत्तशब्दो न देवदत्तकर्बर्थप्रत्यायनार्थो नानर्थकः, अर्थप्रत्यायनार्थत्वाद् वचनप्रवृत्तेः । देवदत्तशब्देन देवदत्तार्थो विज्ञायमान एवानूद्यते स गच्छति' इति विधानाय, गतिविधानं स्थानविपरीतदेवदत्तकर्तृकगमनप्रतिपादनाय 'यो गच्छति स देवदत्तः' इति तथा 'योऽसौ स गच्छति' इति । 5 तथा चेदमानर्थक्यं पौनरुक्त्यं च अविभक्तविध्यनुवादार्थ वक्तारं प्रति । प्रथमपदोपादानसन्निहितार्थव्यञ्जनं द्वितीयपदं तत्सन्निधिमात्रेण तथा प्रतिपत्तुः श्रोतुरुपकारकं नान्यस्य ।
स एष उपात्तगत्यर्थो देवदत्तशब्दो न देवदत्तकप्रर्थप्रत्यायनार्थो नानर्थकः सम्यक्प्रत्यवेक्षायामिति वैर्तते, तस्या अर्थप्रत्यायनार्थत्वाद् वचनप्रवृत्तेः 'अर्थ प्रत्याययिष्यामि' इति वचनं प्रवर्तते 10 तस्मान्नानर्थकम् , समीक्ष्यार्थ्यक्तित्वात् । प्रमाणान्तरोपलब्धत्वाच्च देवदत्तस्य न देवदत्तवाचकः, किं तर्हि ?
देवदत्तशब्देन देवदत्तार्थो विज्ञायमान एवानूद्यते, ज्ञातार्थो ह्यनुवादो विध्यङ्गत्वात् । किमर्थोऽनुवाद इति चेत् , स गच्छतीति विधानाय, देवदत्तविशिष्टगतिविधानाय । गतिज्ञातार्थत्वाद् विधीयते देवदत्तकर्तृका । देवदत्तानुवादो गतिविधानार्थोऽस्तु, गतिविधानं किमर्थमिति चेत्, उच्यते - स्थानविपरीतेत्यादि । अध्यारूढदेवदत्तकर्तृसाधनं स्थानविपरीतं गमनं विवक्षितम् , तत्प्रतिपादनाय 'देवदत्तं गतिकर्तृत्वेन 15 अध्यारोहयामि' इति प्रयुज्यते। तन्निदर्शयति - यो गच्छति स देवदत्त इति तथा 'योऽसौ स गच्छति' २४१-२ इति देवदत्तो गतिक्रियायाः कर्तेति अज्ञातार्थस्य ज्ञातार्थेनानूद्यमानेन विधानाद् द्रव्यक्रियावाचिनोश्चा
भिन्नार्थत्वाच्च वस्तुतः।
___एवं सति पौनरुक्त्यमिति चेत् , अभ्युपगम्यते तथा चेदमित्यादि । एवं च कृत्वा 'देवदत्तः' इत्युक्ते विशिष्टक्रियात्मककर्तृनिर्देशाद् गतेर्गतत्वाद् गच्छतिशब्दोऽनर्थकः पुनरुक्तं च तथा गच्छतिशब्दादेव 20 विशिष्टकर्तृकगमनवचनाद् देवदत्तार्थगतेदेवदत्तशब्दोऽपि । तौ च आनर्थक्यपौनरुक्त्यदोषौ न विभक्तविध्यनुवादार्थ वक्तारं श्रोतारं वा प्रति भवतः, " तर्हि प्रति ? उच्यते - अविभक्तविध्यनुवादार्थ वक्तारं प्रति, अविभक्तो विधिरयमविज्ञातार्थत्वाच्छब्दः अनुवादोऽयं विज्ञातार्थत्वाद् विध्यङ्गत्वाच्च इत्यविवेक्तारं वक्तारं श्रोतारं वाऽऽसाद्य आनर्थक्यं पौनरुक्त्यं वा स्यादन्यतरस्यैवानयोः, न विवेक्तारं वक्तारं
श्रोतारं वा आसाद्य आनर्थक्यं पौनरुक्त्यं वा स्यादन्यतरस्यैवानयोविवेक्तारं 'विध्यनुवादार्थों' इति । 25 स्यान्मतम् – अस्तु स्वयं निश्चितद्रव्यक्रियात्मकैकवस्तुविध्यनुवादार्थं वचनं वक्तारं प्रति, कथं पुनः
श्रोतुरिति चेत् , उच्यते - तस्यापि प्रथमपदोपादानेत्यादि यावच्छ्रोतुरुपकारकमिति । प्रथमं पदमत्र 'देवदत्तः' इति 'गच्छति' इति वा यथाविवक्षं प्रयुक्तम् । प्रथमपदमुपादानमस्य सोऽर्थः प्रथमपदोपादानः,
१'त्यपेक्षाया प्र०॥ २ वर्ततेस्था भा० ॥ ३ दृश्यतां पातञ्जलमहाभाष्ये २।१।१ । दृश्यतां पृ० १३३ टि. ११॥ ४°कारयुक्ति प्र० ॥ ५रीतीत्यादि प्र०॥ ६ तप्दा भा० ॥ ७ योऽसौ गच्छति य० ॥ ८°ब्दादेविशि भा० । 'ब्दादेर्विशि य० ॥ ९ वादार्थ प्र० ॥ १० किं प्र० ॥ ११ °नुवक्तारं य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org