________________
भेदज्ञानव्यवहारोपपादनम्] द्वादशारं नयचक्रम् च देवदत्त उपात्तः, शब्दस्य द्रव्यभेदपर्यनुभवनप्रवृत्त्यात्मत्वात् ।
__ अर्थोपनिपातित्वात्तु वचसो [देवदत्तशब्देनापि गत्यादि न नोपात्तम् , अर्थवत् तद्भवनार्थत्वात् । देवदत्तशब्दो हि द्वितीयादिविनाभूतः केवले कर्तर्येव प्रयुज्यते, कर्ता च क्रियायाः साधनत्वात् क्रियासु तथा तथा वर्तमानस्तथा तथा शब्दोऽपि तत्तदर्थवाची। यथाहरन्ततः- अस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति । गम्यते, 'वृक्षः' अस्तीति गम्यते [पा० म० भा० २।३।१] ।
___ एवं तावद् देवदत्तवस्तुना गतिरुपात्ता न देवदत्तशब्देन इति विशेष उक्तः । किं गच्छतिशब्देन गच्छत्यर्थेन च देवदत्तार्थ उपात्तो न ? इत्यत्रोच्यते - गच्छतिशब्देन च देवदत्त उपात्त इति, पुंल्लिङ्ग देवदत्ताभिसम्बन्धात् । शब्देन चेदर्थ उपात्तोऽर्थेन गच्छतिलक्षणेन देवदत्तार्थ उपात्त एव तदात्मत्वादिति विशेषः । यथा 'ने, तदतद्भवनाविच्छेदात्मकप्रवृत्तिनित्यत्वस्याकूटस्थत्वाद् भवनमेवेदं गतिस्थितिधृत्य- 10 धृत्यादि' इति गम्यादिप्रवृत्तिभवनेन भवद्भवनमुपात्तमेव उभयात्मत्वाद् वस्तुनो द्रव्यक्रियात्मद्वैरूप्यात् अर्थेन गाद्युपात्तं देवदत्तादि गमयतीत्युक्तं क्रियाया द्रव्यभेदपर्यनुभवात्मकत्वादिति तथा शब्देऽप्येष विधिः- गच्छतिशब्दे [ने] त्यादि, गच्छतिशब्देन च देवदत्त [उपात्त] उक्तवदुभयवस्तुत्वात् प्राक् शब्दस्य द्रव्यभेदपर्यनुभवनप्रवृत्त्यात्मत्वादिति । __एवं तावत् सर्वसर्वात्मकद्रव्यार्थनयत्वादसतो भेदान् कल्पितानाश्रित्य भेदज्ञानव्यवहारावुक्तौ, 15 परमार्थतस्तु अर्थोपनिपातित्वात् तु वचस इत्यादि । [ देवदत्त शब्देनापि गत्यादि न नोपात्तम्, उपात्तमेव, अर्थवत् । कुतः ? तद्भवनार्थत्वात , तस्य भवनं तद्भवनं गत्यादिभवनमेवार्थो देवदत्तशब्दस्येति देवदत्तार्थेनेव गत्याद्यर्थोऽप्युपात्त इति गृहाण । मा शकिष्टाः - तद्भवनार्थत्वमसिद्धमिति, अत आह -- देवदत्तशब्दो हीत्यादि । यदा स्वार्थ-द्रव्य-लिङ्ग-सङ्ख्या-कर्मादिवाचि प्रातिपदिकं, विभक्तयस्तदंभिव्य
२८१-१ ञ्जिकाः, विवक्षावशाच्च कारकविशेषाश्रयणम् , कर्मादीनामपि कारकत्वात् कर्तृत्वमिष्टमेव' इति सिद्धान्तस्तदा 20 विशेषानाश्रयणेऽपि द्वितीयादिविनाभूतो देवदत्तशब्दः केवले कर्तर्येव प्रयुज्यते, कर्ता च क्रियायाः साधनत्वात् क्रियामन्तरेण [न ] भवति, क्रियाश्च आसिशयितिष्ठत्यादयः, तासु तासु स्वयमसौ कर्ता तेन तेन प्रकारेण वर्तमानस्तथा तथा शब्दोऽपि तत्तदर्थवाची । यथाहुरन्तत इति ज्ञापकम् , विचारावसाने वैयाकरणैरेतद् निश्चितम् – अस्तिर्भवन्तीपर इत्यादि । लड् 'भवन्ती' इत्युच्यते । शेषं गतार्थम् । प्रथममध्यमोत्तमान्तमन्यदपि क्रियापदं भवत्येव दिङ्मात्रोल्लिङ्गनात् 'त्वमसि अहमस्मि "तिष्ठति तिष्ठसि तिष्ठामि' इत्यादीनां 25 नियमाभावात् , 'क्रियापदेन "विना न भवति' इत्येष हि नियमः ।
१ दृश्यतां पृ० २६१ पं० ६ टि० २॥ २ दृश्यतां पृ० ३९३ पं० १॥ ३°वनेन न भव भा० ॥ ४ गत्वायु वि. डे. ली. । गत्वायु २० ही. पा०॥ ५°भ्यर्थे द्रव्य प्र० । दृश्यतां पृ० ५६ पं० १३ ॥ ६°वाचिप्रातिपदिके भा० ॥ ७°भिष्वञ्जिकाः प्र०॥ ८°श्रयाणामपि प्र० ॥ ९ तासु स्वय' य० ॥ १० दृश्यतां पृ० २६१ पं० ५॥ ११ भत्येव प्र०॥ १२ ति तिष्ठसि प्र० ॥ १३ विना भवति प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org