________________
३९४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [पञ्चम उभयारे शक्तीनां यथानुरूपं प्रतिविषयनियतप्रत्यायनवृत्तित्वात् नित्यप्रवृत्तिक्रमप्रातिविशिष्टवस्तुभागाभिनिवेशिभिरभिधानः सर्वस्य वस्तुरूपस्याभिधातुमयोग्यत्वात् । यथा 'देवदत्तो गच्छति' इत्यत्र 'देवदत्तशब्दो द्रव्यांशविषयनियतशक्तित्वाद् गत्यादीन् नोपात्त न वा व्युदस्यति तथाख्यातमपि देवदत्तं नोपात्ते न वा व्युदस्यति क्रियांश5 विषयनियतशक्तित्वात् नामाख्यातयोर्नियतवस्तुभागाभिनिवेशित्वात्, तदनुपात्ययं भेदप्रत्ययः । तथैव गतिस्थितिधृत्यधृत्यादिभेदव्यवहाराः सर्वभेदपर्यनुभवार्थत्वाद् नित्यप्रवृत्तेः।
देवदत्तवस्तुना गतिरुपात्तैव तदात्मत्वात् अग्निनेवौष्ण्यम् । गच्छतिशब्देन
२८०-२
विवक्षापि च तासां शब्दशक्तीनां यथानुरूपं प्रतिविषयनियतप्रत्यायनवृत्तित्वात् , सत्यपि 10 सर्वसर्वात्मकत्वे द्रव्यार्थनयस्य वर्णात्मकघटशब्दशक्तेः पृथुकुक्ष्यूर्ध्वग्रीवाद्याकारप्रत्यायने नियता वृत्तिर्नान्यत्र, रूपादिद्रव्यशक्तिप्रवृत्तिभेदनियतेन्द्रियग्राह्यत्ववच्छब्दशक्तिप्रवृत्तिभेदाद् भेदज्ञानव्यवहारीवित्यर्थः । तद्व्याचष्टे -नित्यप्रवृत्तीत्यादिना, नित्यप्रवृत्तेः क्रमप्राप्त्या विशिष्टो यो वस्तुभागस्तदभिनिवेशिभिरभिधानैः सर्वस्य वस्तुरूपस्याभिधातुं शब्दैरयोग्यत्वादिति । तन्निदर्शयति - यथा देवदत्तो गच्छती
यादि यावद् न वा व्युदस्यतीति गतार्थम् । तथाख्यातमपीत्यादि तद्वदेव गतार्थं यावत् क्रियांश15 विषयनियतशक्तित्वादिति, नामाख्यातयोर्नियतवस्तुभागाभिनिवेशित्वादिति तदेव कारणम् , ...तदनुपात्ययं भेदप्रत्यय इत्युपसंहरति, द्रव्यशक्त्यंशनियतशब्दप्रवृत्त्यनुपाति भेदज्ञानमित्यर्थः । तथैव
गतिस्थितिधृत्यधृत्यादिभेदव्यवहाराः सर्वभेदपर्यनुभवार्थत्वाद् नित्यप्रवृत्तेः यासौ सततसम्प्रवृत्तिः सा 'सर्वान् गमनादीन भवनभेदान् पर्यनुभावयामि द्रव्यम्' इति प्रवर्तते, यदि तान् नानुभवेत् क्रियाभेदान् द्रव्यं ततो न ते स्युः तेनापर्यनुभूयमानत्वात् खपुष्पवत् । 'सर्वभेदं निर्भेदं बीजं द्रव्यम्' इति चेष्यते । तद्वा 20 द्रव्यं न स्यात् भेदापर्यनुभवनात् खपुष्पवत्, एवं तद् द्रव्यं बीजं स्याद् यदि तान् भेदान् पर्यनुभवेत् ।
___ आह - यथानन्तरोक्तं देवदत्तशब्दो गत्यादीन नोपादत्ते न च व्युदस्यति अंशनियतत्वाच्छब्दशक्तीनां प्रवृत्तत्वाच्च तथा वस्तुनापि देवदत्तेन गत्यादयः किमनुपात्ताव्युदस्ताः ? नेत्युच्यते विशेषः - देवदत्तवस्तुनेत्यादि, देवदत्तशब्देनानुपादीयमानापि हि गतिर्वस्तुना तेन उपात्तैव अंशनियत्यभावाद् विशेषहेतोश्च । को विशेषहेतुरिति चेत् , उच्यते - तदात्मत्वात् , गत्याद्यात्मको हि देवदत्तः तत्पर्यनु25 भवनात् , यद् यदात्मकं तेन तदुपात्तम् , अग्निनेवौष्ण्यम् , यथा अग्नेरौष्ण्यमात्मेत्यग्निनोपात्तं तथा
देवदत्तेन गतिरिति ।
भावात् समुदायग्रहणम् , गुणक्रियापेक्षया तु प्रत्येकं शक्तः साधनता, तस्याश्च प्रधानक्रियापेक्षया वैचित्र्यात् कर्माकर्मादिविरूपताया वा प्रत्येकं साधनत्वेऽपि समुदायग्रहणं शक्तीनां साधनत्वेन आसां भेदात् एकस्य कार्यभेदोपपत्तिव्याख्यापनार्थम् । तेन अनेकशक्तेरपि पदार्थस्य सत्येव तथा स्थानेऽपि काचिच्छक्तिः क्वचिदुद्भता विवक्ष्यते इति 'घटं पश्य, घटेनोदकमानय, घटे उदकं निधेहि' इत्यादिकर्मकरणादिभावो नियमेन उपपद्यत इति न कारकसाकर्यप्रसङ्गः । द्रव्यस्य तु एकखभावत्वात् कर्मकरणादित्वं नोपपद्यते इति गर्भीकृतेयमत्र शक्तिः शक्तेः साधनत्वे बोद्धव्या ।" इति वाक्यपदीयस्य तृतीयकाण्डे साधनसमुद्देशे हेलाराजकृतायां व्याख्यायाम् ॥ १ दृश्यतां पं० २१॥ २रादित्यर्थः प्र०॥ ३ हारः भा० ॥ ४ दृश्यता पं. ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org