________________
क्रियानित्यत्वे भेदज्ञानव्यवहारोपपादनम्] द्वादशारं नयचक्रम्
३९३ न, तदतद्भवनाविच्छेदात्मकप्रवृत्तिनित्यत्वस्याकूटस्थत्वाद् भवनमेवेदं गतिधृतिस्थित्यादि । भेदज्ञानव्यवहारौ तु शब्दभेदद्रव्यप्रवृत्तितत्त्वानुरूप्यात्, शब्द
हि वस्तुस्वरूपम् , धृत्यधृतिक्रिये च तदव्यतिरिक्ते । ततो देवदत्तयानस्थानयोरपि देवदत्ताव्यतिरेकात २७९-२ तद्वद् यावद्देवदत्तं गमनं स्थानं वेति धृतिरेवाधृतिरेव वा स्याद् यज्ञदत्ततत्त्ववत् , विरोधिनः क्रियान्तरस्याभावात् पूर्ववत् । तस्मादेतेन क्रियाया अपि नित्यत्वादित्याह -ने, तदतद्भवनाविच्छेदात्मकप्रवृत्ति-5 नित्यत्वस्याकूटस्थत्वात् , तद्भवनमतद्भवनं तदतद्भवनं च सरूपैकशेषात् तदतद्भवनम् । तद्भवनं तावदस्तिभवत्यादिविषयम् , पुनः पुनर्भवत्येवेति । अतद्भवनं स्थानाद् गमनं गमनाच्च स्थानमिति । तदतद्भवनं भवनसहिते ते एव स्थानगमने तथा धृत्यधृती । तस्याविच्छेद आत्मा यस्याः प्रवृत्तेरविच्छेदात्मिकायाः सा तदतद्भवनाविच्छेदात्मकप्रवृत्तिः, तस्या नित्यत्वम्, तदकूटस्थं कूटस्थद्रव्यनित्यत्वविलक्षणम् , तद्भावात् तदतद्भवनाविच्छेदात्मकप्रवृत्तिनित्यत्वस्याकूटस्थत्वाद् भवनमेवेदं गतिधृतिस्थित्यादि, एता 10 यानस्थानधृत्यधृत्यादिकाः परस्परविरोधिन्यः क्रियास्ता एता भवनमेव सततसम्प्रवृत्तिरूपभवनात्मकत्वाद् भवद्भवनविलक्षणं नित्यं च प्रवृत्तिभवनमात्रमेवेत्यभिन्नं क्रियामात्रम् । अतो द्रव्यं क्रिया चोभयं नित्यं भावः । स्यान्मतम् - क्रियाभेदाभावाद् भेदज्ञानव्यवहाराभावः स्यात् , दृश्येते भेदज्ञानं भेदव्यवहारश्चेति । एतचायुक्तम् , तस्माद् भेदज्ञानव्यवहारौ तु 'गच्छति तिष्ठति धृतिं करोत्यधृतिं वा न वा' इति द्वावप्येतौ शब्दभेदद्रव्यप्रवृत्तितत्त्वानुरूप्यात्, शब्दो भेदो यस्या द्रव्यप्रवृत्तेः सा शब्दभेदद्रव्यप्रवृत्तिः, न 15 शब्दोऽन्यो द्रव्यात्, प्रवृत्तिः क्रिया गुणोऽपि क्रियेति प्रागुक्तम् । रूपरसगन्धस्पर्शभेदायाः प्रवृत्तेः शब्द-२८०-१ भेदा प्रवृत्तिरन्या, तस्यास्तत्त्वं वर्णात्मकत्वादि रूपम् , तदानुरूप्याच्छब्दभेदप्रवृत्तितत्त्वानुरूप्याद् भेदज्ञानं भेदव्यवहारश्च भवति । शक्तिमतो द्रव्यस्य शक्तयो युगपद्भाविन्यो रूपरसादयः क्रिया एव, गमनस्थानादिक्रियास्तु क्रमभाविन्यः । यथोक्तम् - शक्तिमात्रासहायस्य विश्वस्याद्भुतकर्मणः ।
20 सर्वथा सर्वदा भावात् कचित् किञ्चिद् विवक्ष्यते ॥ [वाक्यप० ३।७२] इति । १त्ततत्ववत् प्र० । (तत्ववत् ? ) ॥ २ दृश्यतां पृ० ३९५ पं० १०॥ ३ मतद्भवनं च सरूपैकशेषात् तदतद्भवनं तावद य० ॥ ४ का सा तद प्र० ॥ ५ तस्यापि नि प्र०॥ ६ भवनवद्भवनवि य० ॥ ७ (यस्माद् ?) ॥ ८°द्रव्यत्तिर्न शब्दो भा० । द्रव्यत्तिदर्शनानं शब्दों यः॥ ९ वर्णावर्णात्म प्र०॥ १० “कथं पुनरेतदवगम्यते 'शक्तिः साधनम् , न पुनर्द्रव्यम्' इत्याशङ्कयाह ----शक्तिमात्रासमूहस्य विश्वस्यानेकधर्मणः। सर्वदा सर्वथा भावात क्वचित किञ्चिद विवक्ष्यते ॥ [वाक्यप० ३।१२] । घटादयो भावा विश्वशब्दवाच्याः, ते च तत्तदुदकाहरणादिकार्यसाधिकानां शक्तीनां समूहरूपाः । अत एव ताः शक्तयः तत्र मात्रा भागाः इति शक्तिसमाहारमात्रं घटादयः । ताश्च शक्तयोऽनेकविधाः, काश्चित् खहेतोरेव दैवात् भवन्ति, आश्रयादिनाशं मत्वेव न च विनश्यन्ति यथा बोधप्रदीपानां प्रकाशशक्तयः । काश्चित् पौरुषेऽप्यन्तःस्थिता एव आश्रये निरुध्यन्ते यथा बा(बो?)धादिशक्तयः, ता हि समभ्यासेन दृष्टद्रव्योपयोगेन जायन्ते । अन्याः सत्यो वा अपरपुरुषप्रयत्नेन विध्वंस्यन्ते, यथा विषस्य मारणशक्तिः बीजस्य अङ्करजननशक्तिः। अन्याः प्रभावातिशयवता विपरिवर्त्यन्ते, यथा योगिना सर्वभावानां रूपपरिवृत्तिराधीयते। काश्चित् कालपरिवासेन व्यज्यन्ते यथा धर्माधर्मशक्तिः फलदाने इत्याद्यनेकविधमुन्नेयम् । एवमनेकस्वभावत्वे शक्तिसमुदायस्य विचित्रे कार्ये यथाशक्ति भेदविवक्षायां प्रतिनियतसाधनभावोपपत्तिः । द्रव्यस्य तु साधनत्वे तस्यैकरूपत्वात् कार्यवैचित्र्यं न स्यादित्यर्थः । तदुक्तं भाष्ये 'गुणसमुदायः साधनम्' इति । प्रधानक्रियाया एकैकशक्तिसाध्यत्वा
नय० ५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org