________________
३९२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [पञ्चम उभयारे इति तस्य गमनं नैव स्यात्, देवदत्तावरुद्धदेशे यज्ञदत्तवत् । अथ गमनतत्त्व एव देवदत्त इष्यते तथापि गमनक्रियापरमार्थदेवदत्तत्वात् स्थानं नैव स्यात् इति यानस्थानयोरभावात् पूर्ववद्धृतिः सततमधृतिर्वा स्यात् तथा । तथा भवने[ऽपि] यथा देवदत्ते गच्छति अधृतिरस्य तथा तदात्मत्वाद् यावद्देवदत्तमधृतिप्रसङ्गः 5 तत्कालवत्, देवदत्त एवास्याधृतिनिमित्तमिति । स्थित्यात्मकत्वाद्वास्य गच्छत्यपि देवदत्ते यज्ञदत्तस्य धृतिरेव सदा स्यात् स्थानकालवत् । यज्ञदत्त.... धृतिरधृतिर्वा ।
२७९-१
वरुद्धः स्यात् । ततश्च तयावरुद्धत्वात् तस्य देवदत्तस्य गमनं नैव स्यात् , कदाचिदपि न गच्छेद् देवदत्त इत्यर्थः । देवदत्तावरुद्धदेशे यज्ञदत्तवत् , यथा देवदत्ताख्यं वस्तु देवदत्तत्वेनावरुद्धमिति 10 तद्विरोधिनो यज्ञदत्तत्वस्यानवकाशात् तत्र यज्ञदत्तत्वं नैव जातु भवति तथा देवदत्ते स्थानेनावरुद्धे गमनं
नैव जातु स्यादिति । अथ मा भूद् यज्ञदत्ताधृतिकारणस्य देवदत्तगमनस्याभाव इति गमनतत्व एव देवदत्त इष्यते तथापि गमनक्रियापरमार्थदेवदत्तत्वात् स्थानं नैव स्यात् कदाचिदपि, गमनेनावरुद्धत्वाद् देवदत्तस्य देवदत्तत्वावरुद्धदेवदत्ते यज्ञदत्तत्ववदेव। इतिशब्दो हेत्वर्थे, ततश्च हेतोर्यानस्थानयोरभावात् , यानाभावात् तावत् पूर्ववैद्धृतिर्यथा प्राग् गमनोत्पत्तेर्गमनासत्त्वादधृत्यभावः तथा गमना1b भावाद् गच्छत्यपि देवदत्ते यज्ञदत्तस्याधृत्यभावः देवदत्तसत्त्वात् गमनकालेऽपि', गमनाभावे यथा यज्ञ....दत्तस्य धृतिर्भवत्येवं सततमधृतिर्वा स्यादिति । एवं स्थानाभावेऽपि धृत्यधृती स्यातामुक्तन्यायेन । तथेति 'तेन प्रकारेण प्रोक्तोपपत्तिक्रमप्रापिताभावप्रकारेण यानस्थानयोरिति । ___ तथा भवने[ऽपी] त्यादि । भवतु वा गमनं स्थानं वेत्यभ्युपगम्यापि दोष उच्यते । तत्र गमने तावद् यथा देवदत्ते गच्छत्यधृतिरस्य तथा तदात्मत्वाद् यावद्देवदत्तमधृतिप्रसङ्गः, यथा देव20 दत्तगमनकाले यज्ञदत्तस्याधृतिहेतुर्देवदत्तो गमनात्मत्वात् तथा यावज्जीवम् आत्मनो यावदायुर्यज्ञदत्ताधृति
हेतुरेव स्यात् गमनात्मत्वात् तत्कालवदिति तस्य देवदत्तस्य गतिपरमार्थत्वाद् वस्तुत्वावस्थानाच्च देवदत्तस्य गमनात्मनः पूर्वोत्तरकालतुल्यत्वात् । अतस्तद्विवरणार्थमाह - देवदत्त एवास्याधृतिनिमित्तमिति, 'इति'शब्दो हेत्वर्थे, यतो देवदत्तो गमनात्मैव तस्मात् सततमधृतिप्रसङ्गः । एवं तावदयं स्थानविरोधिन्या गर्भावेऽभिहितो दोषः । गतिविरोधिन्याः स्थितेरेव वा भावे स्थित्यात्मकत्वाद् वास्य देवदत्तस्य गच्छत्यपि 25 देवदत्ते यज्ञदत्तस्य धृतिरेव सदा स्यात् स्थानकालवद् देवदत्तसद्भावादिति ।
___ एवं तावद् देवदत्तगतिस्थितिविषययज्ञदत्ताधृतिविचारद्वारेण दोषा उक्ताः । इदानीं यज्ञदत्ताधृतिविषयोऽपि विचारस्तथैव कर्तव्यः । अत्रापि यदि द्रव्यपारमार्थ्यवदित्यादिग्रन्थो धृत्यधृतियज्ञदत्तशब्दोधारणेन यथासम्भवं योज्यः । प्रकारान्तरेणापि तु यज्ञदत्तेत्यादि यावद् धृतिरधृतिर्वा । यज्ञदत्तद्रव्यत्वं
१ तस्या प्र० ॥ २'रुद्धं (रुद्ध ?) देव भा० । रुद्धत्वं देव य० ॥ ३ ववृत्तेर्यथा प्र० ॥ ४त्वादृत्यभावः प्र० ॥ ५ त्तस्यत्वात् य० ॥ ६°पि भावे यथा य०॥ ७भवमु वा भा० । भवनमु वा य० ॥ ८ततस्यादत्तस्य भा०॥ ९त्तत्वस्य भा० ॥ १० दृश्यतां पृ० ३९१ पं०६॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org |