________________
सर्वस्य द्रव्यक्रियोभयात्मकत्वप्रतिपादनम् ] द्वादशार नयचक्रम्
३९१ सर्वमिदम् । एवमेव च भावक्रियाश्रयः कारकाणां कर्मादिभावः।
यदि द्रव्यवत् क्रियापि वस्तुनस्तत्त्वं स्यात् ततस्तया विना नैव वस्तु स्यात् , तत्त्वात्, देवदत्तबालादिवत् घटरूपादिवत् । दृष्टं चैतद् गमनादिक्रियया विनापि देवदत्ताख्यं वस्तु । अन्तरेणापि तु क्रियां भवत्येव वस्तु, तस्मात् ततोऽन्यत् तदन्तरेणापि भावात् घटपटवत् । दृश्यते हि देवदत्ते गच्छत्यधृतिं करोति यज्ञदत्तः ।। यदि द्रव्यपारमार्थ्यवत् क्रियापि स्यात् गमनवत् क्रियात्वात् स्थानमपि परमार्थ
एवमेव चेत्यादि । एवं कृत्वा भावक्रियाश्रयः, भाव एव क्रिया भावक्रिया । द्रव्यं भावः, स एव च क्रिया, द्रव्यस्य वा क्रिया । तदाश्रयो द्रव्यभवनाश्रयोऽयं कारकाणां कर्मादिभावः कर्मकरणादिभावः, न नियतरूपः विचित्रक्रियाभवनसम्बन्धाद् भवति, 'देवदत्तः पचति ओदनं काष्ठैः स्थाल्याम् , ओदनो भवति, काष्ठानि ज्वलन्ति सन्धुक्षन्ति, स्थाली धारयतीत्यधिश्रीयते' इत्येवमादिदर्शनात् । न हि 10 किञ्चिजातिविशेषयोगाद् गोत्वादियोगादिवत् कर्मत्वकरणत्वाधिकरणत्वादियोगात् कर्मैवेदं करणमेवाधिकरणमेव नियतं नान्यदपि भवतीति । किं तर्हि ? अनियतशक्तिविषयम् , शक्तीनां कारकत्वात् , तदेव हि द्रव्यमन्यया क्रियया 'प्रमाष्टिं नेत्रे' इति नेत्रादि कर्म भवति, अन्यया करणम् 'नेत्रेण पश्यति' इति, अन्ययाधिकरणम् 'नेत्रेऽञ्जनं तिष्ठति' इत्यादि । तस्मात् सर्वप्रभेदनिर्भेदं बीजं वस्तु द्रव्यं तत्त्वम् , तद्भेदिभवनव्यक्तिः क्रिया।
- यदीत्यादि एवमनिच्छतो दोषः, यदि द्रव्यवत् क्रियापि वस्तुनस्तत्त्वम् आत्मा स्वरूपं स्यात् ततस्तया विना क्रियया नैव वस्तु स्यात् , तत्त्वात् तदात्मत्वात् स्वरूपत्वात् , यद् यत्तत्त्वं यदात्मास्वरूपं वा न तत् तेन विना भवति देवदत्तबालादिवत् , यथा देवदत्ततत्त्वा बालादयोऽवस्थाविशेषाः क्रमभाविनो न तेन विना भवन्ति तथैतदपि वस्तु क्रियया विना न स्यात् , घटरूपादिवदिति घटतत्त्वा रूपादयो युगपद्भाविनस्तेन विना न भवन्ति तथा क्रियया विना तद् वस्तु न स्यादिति विशेषः । दृष्टं चैतद् 20 गमनादिक्रियया विनापि देवदत्ताख्यं वस्त्वित्यनिष्टापादनमेतत् । दोषदर्शनादपि वस्तु भवतीत्येतदर्थं साधनमाह - अन्तरेणापि तु क्रियां भवत्येव वस्तु तस्माद् विना भावे दोषदर्शनात् ततोऽन्यत् 'क्रियातोऽन्यद् वस्तु' इति प्रतिपत्तव्यम् । न केवलं दोषदर्शनादेव, किं तर्हि ? अन्यत्वहेतुरप्यस्तीत्यत आह - तदन्तरेणापि भावात् , यद् यदन्तरेणापि भवति तत् ततोऽन्यत् घटपटवत् , यथा घटः पटमन्तरेण भवन् पटादन्यः पटश्च घटमन्तरेणापि भवंस्ततोऽन्यस्तथा क्रियामन्तरेणापि भवद् वस्तु ततोऽन्यदिति । 25 तन्निदर्शनान्तरं विचारान्तरास्पदमप्याह - दृश्यते हि देवदत्ते गच्छत्यधृतिं करोति यज्ञदत्त इति । अत्र यज्ञदत्तस्याधृतिकारणं गमनं देवदत्ताख्याद् वस्तुनोऽन्यत् पूर्वोत्तरकालतुल्येऽपि तस्मिन् यतोऽधृतिर्भवति, तस्माद् न क्रिया वस्तुनस्तत्त्वम् ।
२७८-२ यदि द्रव्यपारमार्थ्यवदित्यादि । यदि यथा देवदत्ताख्यस्य वस्तुनो, द्रव्यं परमार्थस्तथा क्रियापि स्यात् गमनवत् क्रियात्वात् स्थानमपि परमार्थ इति प्रागेव स्थानक्रियया गमनविरोधिन्या देवदत्तोऽ- 30
१°योगादि भा० प्रतौ नास्ति ॥ २ य आत्मा प्र० । अत्र यस्यात्मा इत्यपि पाठः स्यात् ॥ ३ न गच्छ प्र० ॥ ४॥ एतदन्तर्गतपाठो य० प्रतिषु नास्ति ॥
-
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org