________________
३९०
न्यायागमानुसारिणीवृत्त्यलङ्कतम् । [पञ्चम उभयारे यथा च कर्म क्रिया विना न भवति तथा करणमपि भवनव्यक्तिमन्तरेण नैव भवेत्, तथा भवनसम्बन्धव्यतिक्रममन्तरेण भूतमिति न स्यात् । पूर्वः पूर्व उत्तरोत्तरकार्यकारणभावेन । ततश्च प्रागादिनिर्विशेषणं नास्ति भवनसम्बन्धव्यतिक्रमाभावात् खपुष्पवत्, असत्कारणत्वाद्वा, अभूतभवनसम्बन्धव्यतिक्रमत्वात् । 5 व्यतिक्रमश्च तृणकमोदी कटविभागादिभवनभूततायाम् । द्रव्यं क्रिया च द्वयमेव
२७७-२
न्धाभावात् । किमिव ? आकाशादिवत् । ततः किं स्यात् ? तथा च तद् भवत् कर्म सत्त्वात् कारणासम्बन्धाच्च सैदसत्कारणमिति नित्यं स्यात्, नित्यलक्षणयोगात् । किं नित्यलक्षणमिति चेत् , उच्यते - सदकारणवत्तन्नित्यम् [वै० सू० ४।१।१] इति नित्यलक्षणं वैशेषिकमतेनेति । एवं तावत् 'कर्म
गमनादि करणसम्बन्धाद् भवति' इत्युपपादितम् । 10 यथा च कर्मेत्यादि । यथा च गमनादि कर्म क्रियया विना न भवत्युक्तविधिना तथा
करणमपि भवनव्यक्तिमन्तरेण भवनक्रियाविर्भावेन विना नैव भवेत् , न भवितुमर्हतीत्यर्थः । तथा भवनसम्बन्धव्यतिक्रममन्तरेण भूतमिति न स्यात् , तत्सम्बन्धे 'भवति' इति भवति तत्सम्बन्धव्यतिक्रमे च 'भूतम्' इति । पूर्वः पूर्व उत्तरोत्तरकार्यकारणभावेनेति क्रियासम्बन्धप्रबन्धं प्रदर्शयति ततश्च प्रागादिनिर्विशेषणमित्यादि भवनसम्बन्धे तद्वयतिक्रमे चासति प्राक्प्रध्वंसेतरेतरशक्तिसंयोगाद्य15 भावाभावादभावभेदरहितो नास्त्यभाव इत्यनर्थान्तरमिति अँविशेषेणैकोऽत्यन्ताभाव एव स्यादभावः भवन
सम्बन्धव्यतिक्रमाभावात् खपुष्पवदिति, यथा खपुष्पं भवनसम्बन्धाभावात् तद्वयतिक्रमाभावाच्च न भैवेदेवं सर्वं घटादि स्यादिति । असत्कारणत्वाद्वा, तदा हि वस्तुनो भवनकारणं योऽसौ करणसम्बन्धो भवनसम्बन्धश्च स नास्ति तद्वयतिक्रमो वेति सत्कारणाभावादकारणत्वादत्यन्ताभाव एव स्यात् खपुष्पवत् सर्व घटादि । तदुपसंहृत्य हेतुमाह - अभूतभवनसम्बन्धव्यतिक्रमत्वादिति, गतिस्थित्यादिकरणभवन20 सम्बन्धव्यतिक्रमसद्भावाद् गच्छति तिष्ठति करोति भवति गतस्थितकृतभूतव्यक्त्यात्मकदेवदत्तवस्तु भवदुपलभ्यते नान्यथेति । स्यान्मतम् - भवनस्य सततसम्प्रवृत्तस्याव्यतिक्रम इति । अत्रोच्यते - व्यतिक्रमश्च तृणकर्मादौ, तृणतन्त्वादीनां क्रियास्तृणकर्म, आदिग्रहणात् संयोगः, यथासङ्खथं कटविभागादिभवनभूततायाम् , अत्रापि आदिग्रहणात् पटविभागसंयोगादयो गृहीताः, भवनस्य भूततायामेवंलक्षणस्य भवति व्यतिक्रमः 'तृणं कटो भवति, गमनकर्म विभागो भवति संयोगश्चान्येन' । स्यान्मतम् - कथं 'तृणं 25 कटो भवति, कर्म विभागो भवति' इत्येतदुच्यते ? इति । अत्रोच्यते , अत्रापि ननूक्तम् -द्रव्यं क्रिया २७४-१ च द्वयमेव सर्वमिदमिति संयोगादि सर्वं गुणक्रियात्वप्रतिपादनात् तस्य भवनस्य भूतता व्यतिक्रम इति ।
. १ भवकर्म प्र०॥ २ (करणास ? ) ॥ ३ सदसतकामिति य० । सदत्ततत्कमिति भा० ॥ ४°णनत्तनित्यम् यः । “सदकारणवन्नित्यम्” इति वैशेषिकसूत्रे पाठः ॥ ५ क्रमन्त प्र. ॥ ६°सम प्रदर्शयति य० । सम्बन्धप्रबन्धप्रबन्धप्रदर्शयति भा० ॥ ७ अविशेषणेकात्य य०॥ ८ (भवेदेवं?)॥ ९ कारण प्र०॥ १० असत्कारणाभावा य० । वस्तुतस्तु अत्र असत्कारणभावा इति पाठः समीचीनो भाति, 'असत्कारणत्वात्' इत्यर्थः ॥ ११ सर्व प्र० ॥ १२ नन्यथेति भा० । अन्यथेति य० ॥ १३ °स्य व्यति . प्र.॥ १४ सर्वगुण वि. २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org