________________
द्रव्यक्रिययोभिन्नत्वप्रतिपादनम्] द्वादशारं नयचक्रम्
३८९ देवदत्ते द्रव्ये कर्मणि वा करणलक्षणया प्रवृत्त्या भवितव्यमविच्छेदेन, सा च तदतद्भवनखरूपा। __ यथा च संयोगविभागफलं कर्म गमनं गन्तुः पदार्थान्तरम्, तत्सम्बन्धं चान्तरेण गमनं न भवति तथा गमनाद्यपि करणसम्बन्धमन्तरेण न भवति, अन्यतो भिन्नं खतत्त्वाद् द्रव्याद्वा न स्यात् कर्मेति न स्यात् । तथा भवद्वा 'कृतम्' इति व्यपदेशं न जनयेत्, करणसम्बन्धाभावात् , आकाशादिवत् । तथा च तत् सद् असत्कारणमिति नित्यं स्यात् । द्रव्यवदवस्थित इति विवक्षितं तस्य, विभागः कटकर्तुश्चलनात्मकस्य कर्मण ईप्सिततमत्वात् कर्म चलनेन द्रव्यं देशान्तरं प्रापयता क्रियत इति सा क्रिया व्यतिक्रामति, विभागः कर्म च न व्यतिक्रामतः, शब्दार्थस्य पिण्डितत्वाद् नामत्वादित्यर्थः । न च व्यतिक्रमाव्यतिक्रमौ निर्निमित्तौ भवितुमर्हतः । दृष्टश्च वर्तमानयोः 10 कर्मविभागयोः द्रव्ययोरव्यतिक्रमे करणस्य क्रियाया विभागविषयस्य व्यतिक्रमः। न चैकस्मिन् व्यतिक्रमाव्यतिक्रमौ युगपद् भवतः विरोधात् प्रमाणान्तरापेक्षामन्तरेण, तस्मादेतदनुमेयं तंत्र देवदत्ते द्रव्ये कटस्य कर्तरि कर्मणि वा कर्तरि चलने वीरणानां कटे वा कर्मणि करणलक्षणया प्रवृत्त्या भवितव्यमविच्छेदेन । सा च प्रवृत्तिः क्रिया तदतद्भवनस्वरूपा, तस्मिन् द्रव्येऽतस्मिंश्च करणे भवनमस्याः प्रवृत्तेः स्वरूपम् , तया च [व्यतिक्रमाव्यतिक्रमविभागतया द्विरूपैयाऽवश्यमव्यवच्छिन्नँया[5]कूटस्थया प्रवृत्तिभवनात्मिकया भवितव्यमिति । 15
यथा च संयोगेत्यादि । इदमधुना गन्तृगमनदृष्टान्तयोर्भवितृभवनदार्टान्तिकयोश्च प्रागुक्तवदू भेदानभ्युपगमे दोषाभिधित्सयोच्यते । 'संयोगविभागाः कर्मणां कार्य सामान्यम्, गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणं कारणं सामान्यम् [वै० सू०] इति वचनाद् देशान्तरसंयोगं द्रव्यस्य देशान्तरविभागं च गमनकर्मारभते गुरुत्वादिजनकं चोत्क्षेपणं कर्म । तस्मात् संयोगविभागफलं कर्म गमनं गन्तुः, पदार्थान्तरम् , तयोः संयोगविभागयोस्तत्कारणस्य च कर्मणो यावद्रव्यभावाभावाद् वैशेषिकसतवत् 20 पदार्थान्तरतायां सत्यां गन्तुर्गमनेन सम्बन्धः, तत्सम्बन्धं चान्तरेण गमनं [न] भवति, 'गच्छति देवदत्तः' इति हि गमनसम्बन्धाद् दृष्टम् , व्यतिलविन्तगमनश्च 'गतः' इत्युच्यते, तस्मात् तद्वयतिक्रममन्तरेण 'गतम्' इति न भवति । एष विधिः कर्मविशेषे गमने दृष्टः । तथा गमनाद्यपि करणसम्बन्धमन्तरेण न भवतीति क्रिया सिध्यति, अन्यतो भिन्नमिति स्वतत्त्वात् कर्मत्वात् द्रव्याद्वा कर्मत्वस्य स्वतत्त्वस्याश्रयो न स्यात् कर्मेति न स्यात् , क्रियमाणत्वाद्धि तत् कर्म करणे सति, करणव्यतिक्रमे च 'कृतम्' इति न स्यात् । 25 कर्मणि तु भिन्ने द्रव्यात् स्वतत्त्वाद्वा स्यादिति । तथा भवद्वेत्यादिना करणं भवदपि स्वसम्बन्धव्यतिक्रममन्तरेण 'कृतम्' इत्येतं व्यपदेशं न जनयेत् , तच्च दृष्टम् , किं कारणं न स्यादिति चेत्, करणसम्ब
१ कर्मटकर्तु डे० ली । कर्मचटकर्तु २० ही० । कर्मचमोटकर्तु पा० । दृश्यतां पं० ९ । 'विभागः कर्तुश्चलनात्मकस्य' इत्यपि पाठोऽत्र स्यात् ॥ २ तत्त भा० । तत्वत् डे० लीं० २० ही० । तत्वव पा० । ते तत्वत् वि०॥ ३°पतया य० ॥ ४'नयाकूट भा० । न्नकूट य० ॥ ५ यथारसंयों प्र०॥ ६ “द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् । १।१।१८ । 'द्रव्याणां द्रव्यं कार्य सामान्यम् । १।१२३ । गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् । १।१।२९ । संयोगविभागाश्च कर्मणाम् । १।१।३० । कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम् । १।१।३१।" इति वैशेषिकसूत्रे पाठः ॥ ७ इति भवति भा०॥ ८करणे सति पा. डे. ली. रं. ही । (कर्म, करणेऽसति करणव्यतिक्रमे च?)॥
२७७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org