________________
૨૮૮
न्यायागमानुसारिणीवृत्यलङ्कृतम्
[ पञ्चम उभयारे
न, प्रवृत्तिनित्यत्वात् । नित्यत्वस्यापि द्वित्वम् । कूटस्थस्य द्रव्यस्य तं तमात्मानं पर्यनुभवतः धौव्यं कौटस्थ्यं च । इतरस्य तु तथा तथाभिव्यज्यमानस्य अकौटस्थ्यं सततसम्प्रवृत्तिरूपं नित्यत्वं च ।
अत एव भूताभूतभाक्त्वं 'द्रव्यादन्यो भावः' इत्यस्यार्थस्य साधनम् । व्यति॰क्रान्त्यव्यतिक्रान्तिभाक्त्वाद् भिन्नौ क्रियाद्रव्यभावौ, तद्यथा - कृतः कटो देवदत्तेन, कृतः कर्मणा विभागः । क्रिया व्यतिक्रामति, विभागः कर्म च न व्यतिक्रामतः शब्दार्थस्य पिण्डितत्वात । न च व्यतिक्रमाव्यतिक्रमौ निर्निमित्तौ भवितुमर्हतः । दृष्टश्च कर्मविभागयोरव्यतिक्रमे करणस्य विभागविषयस्य व्यतिक्रमः । तत्र
नित्यमिति निरुक्तेः । तस्मादसिद्धं भावस्य त्रैकाल्यम्, द्रव्यार्थाभ्युपगमात् । द्रव्यस्यैव वा त्रैकाल्याभ्युपगमे 10 भावस्य द्रव्यार्थवादत्याग इति । अत्रोच्यते - न दोषः, प्रवृत्तिनित्यत्वात्, नात्रापि द्रव्यार्थत्यागः प्रवृत्ति२७६- १ नित्यत्वात्, भवनप्रवृत्तिर्भाव इत्यर्थः, सा च प्रवृत्तिर्नित्या सदा प्रवृत्तेर्वस्तुनो भावोऽपि नित्य एवेति न द्रव्यार्थत्यागो नात्रैकाल्यमिति ।
इतर आह - कुतो नित्यत्वस्य द्वैतम् ? इति । अत्रोच्यते - वस्तुनो द्रव्यभवनात्मकस्योभयत्वादेव नित्यत्वस्यापि द्वित्वं सिद्धं यथा प्रागुपवर्णितं न हि तदेव नित्यमित्यादि यावत् तदपि हि नित्यं यस्मिं15 स्तत्त्वं न विहन्यते [ पा० म० भा० १|१| पस्पशा० ] इति उक्तत्वात्, इदानीमपि तद्वित्वं प्रदर्श्यते - कूटस्थस्येत्यादि, द्रव्यं हि कूटस्थं नित्यं पूर्वापरकालतुल्यत्वात्, तस्य कूटस्थस्य द्रव्यस्य सर्वप्रभेदनिर्भेदस्य बीजभूतस्य गमनस्थानादिसर्वात्मकत्वेनावस्थितस्य तं तमात्मानं पर्यनुभवतः तत्पर्यनुभवनात्मत्वादेव "ध्रौव्यं कौटस्थ्यं च युज्यते । इतरस्य तु भावस्य तथा तथाभिव्यज्यमानस्य पर्यनुभूयमानस्य क्रमेण युगपद्वा सततप्रवर्तनात्मनो भावस्य प्रवृत्तेरकौटस्थ्यं सतत सम्प्रवृत्तिरूपमव्यवच्छिन्नभवनात्मकं नित्यत्वं चेति 'नित्यत्वस्यापि द्वित्वम्' 20 इति साधूक्तम् ।
अत एवेत्यादि । एतस्मादेव नित्यत्वद्वित्वादन्यदिदमपि कारणं भूताभूतभाक्त्वं द्रव्याद्वैधर्म्यमस्याः प्रवृत्तेरन्यत्वकारि 'द्रव्यादन्यो भावः' इत्यस्यार्थस्य साधनम्, 'द्रव्यविलक्षणो भावः' इत्यत्र हेतुरित्यर्थः । भूताभूता क्रिया, द्रव्यं भवदेव, वृत्ता वर्तमाना च क्रिया, द्रव्यं वर्तत एवेत्यर्थः । अथवा भूतं द्रव्यमभूतं करणं स्थितं गतं च यथासङ्ख्यं, व्यतिक्रान्त्यव्यतिक्रान्तिभाक्त्वाद् भिन्नौ क्रियाद्रव्यभावौ, 25 तद्यथा - कृतः कटो देवदत्तेन, देवदत्तः कटकरणकाले करणोपरमे च कटस्यैकरूप एव, क्रिया तु वीरण२७६-२ संयोगावस्थायामव्यतिक्रान्ता कटनिष्पत्त्युत्तरावस्थायां व्यतिक्रान्ता । तथा कृतः कर्मणा विभाग इति द्वितीयमुदाहरणं कर्तृकर्मसमवायित्वात् क्रियायाः पचिभिदिवत्, वैयाकरणसिद्धान्तेन तु कर्तुरीप्सिततमं कर्म [ पा० - ४४९ ] क्रियैव तु वैशेषिकस्य, इहाविशेषेण विभागहेतुः क्रिया, विभागश्च सन्तत्यनुपरमाद्
१ र्थत्यागः य० ॥ २ ( भवनं प्रवृत्तिर्भावः ? ) ॥ ३ नित्यस्यापि य० ॥ ४ दृश्यतां पृ० २१ पं० २२, पृ० २१२ टि० ४ ॥ ५ द्रव्यं क भा० | द्रव्य य० ॥ ६ भिन्नो क्रियाद्रव्यभावो य० ॥ ७ दृश्यतां
पृ० २८३-२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org