________________
द्रव्यक्रियाभिन्नत्वसाधनम् ]
द्वादशारं नयचक्रम्
३८७
त्वात्, द्रव्यं त्रिकालविषयम् क्रिया तु त्रिकाला गमनगन्तृवत्, वर्तमान एव देवदत्ते गन्तरि गतित्रैकाल्यम् 'अगमद् गच्छति गमिष्यति' इति तथा 'अभूद् भवति भविष्यति' इति ।
भावस्य द्रव्यादन्यत्वेन तदपृथक्कारकत्वेन च साध्यत्वाद् भावगमनयोरेकार्थत्वाद् दृष्टान्तः साध्यैकदेश इति चेत्, देवदत्तगमनयोस्त्रैकाल्या त्रैकाल्याभ्यां भेदसिद्धेर्द्रव्यभावयोरपि तद्वत्, युगपदयुगपत्तत्त्वख घटवत् ।
अथ द्रव्यार्थभेदत्वादस्य कथमिदं प्रागभावप्रध्वंसाभावात्मकं त्रैकाल्यम् ?
कस्मात् ? त्रिकालत्वात्, त्रयः काला अस्येति त्रिकालः, कोऽसौ ? भावः क्रियालक्षण:, 'अभूद् भवति भविष्यति' इत्युपनेष्यमाणत्वाद् भेदेन त्रिभिरपि कालैरभिसम्बन्धदर्शनाद् भावस्य त्रिकालत्वं सिद्धत्वाद्धेतुः । द्रव्यं त्रिकालविषयमिति भावस्य त्रिधा भिन्नकालत्वेऽपि एकरूपत्वाद् वर्तमानत्वेनावतिष्ठमानं 10 तत्सम्बन्धि द्रव्यं तांस्त्रीनपि विषयीकरोतीति 'त्रिकालविषयम्' इत्युच्यते, त्रिष्वपि कालेषु तदेव भवतीत्यर्थः । अत्रिकालं द्रव्यं त्रिकालविषयमिति क्रिया तु त्रिकाला वर्तमानविषयेत्युक्तं भवति । गमनगन्तृव - दिति दृष्टान्तः । तद्वयाचष्टे - वर्तमान एव देवदत्ते गन्तरि, 'एव' कारोऽवधारणे, त्रिष्वपि कालेषु गन्तुवर्तमानैककालतामवधारयति । गतित्रैकाल्यम्, गमनस्य त्रयोऽपि काला अनवधारितैकरूपा दृष्टाः । तन्निदर्शयति – अगमद् गच्छति गमिष्यतीति, तथाऽभूदित्यादिरुपनयो व्याख्यातार्थः ।
15
२७५-२
भावस्येत्यादि परमताशङ्का । स्यान्मतम् - भावस्य द्रव्यादन्यत्वेन तदपृथक्कारकत्वेन च साध्यत्वाद् भावगमनयोरेकार्थत्वाद् द्रव्याद् भवनपृथक्त्वासिद्धिवद् गन्तुर्गमनपृथक्त्वासिद्धेर्दृष्टान्तः साध्यैकदेश इत्येतस्यां विचिकित्सायां कथं साधनमिति चेत्, उच्यते - देवदत्तगमनयोस्त्रैकाल्या त्रकाल्याभ्यां भेदसिद्धेर्द्रव्यभावयोरपि तद्वदिति सामान्यविशेषयोः साध्यसाधनत्वाभ्यां विवक्षितत्वाददोषः तद्विचिकित्सायामपि तुल्यत्वात् युगपदयुगपत्तत्त्वखघटवदिति दृष्टान्तः, तस्य भावस्तत्त्वम्, तदेव 20 भवतीत्यर्थः । ननूक्तं ‘द्रव्यभेदे द्रव्यार्थत्यागः, अत्यागेऽन्वयाभाव:' इति, नैष दोषः, युगपदयुगपत्तत्त्वविशेषणादात्मादिसर्वैक्याद् युगपत्तत्त्वं खं द्रव्यार्थात्माभेदात् खादेः द्रव्यात्मैव वाऽयुगपत्तत्त्वो घटः, तथा त्रैकाल्यात्रैकाल्यवस्त्वन्यानन्यत्वे द्रव्यभावयोः ।
25
अथेत्यादि । अथ मतम् - द्रव्यार्थभेदत्वादस्य नयस्य द्रव्यार्थस्य च नित्यत्वात् कथमिदं प्रागभावप्रध्वंसाभावात्मकं त्रैकाल्यं युज्यत इति वाक्यशेषः । यत् प्राग् नासीदधुना भवति तद् वर्तमानमित्युच्यते तच्च प्रागभूतम्, यद्विनष्टमतीतं प्रध्वस्तमभूतम्, यद् भविष्यति तदपि प्रागभूतमिदानीमभावात्, अङ्कुरघटकपालादिदर्शनात् । तच्च पूर्वापरकालतुल्यत्वाद् नित्यस्य न युक्तम्, नेर्ध्रुवे ब्
१ दृश्यतां पं० २, १५ ॥ २ प्र० ॥ ३ गते
भा० । गते त्रै' (त्रै ?) य० ॥ ४ तथाभूत्यादि प्र० । दृश्यतां पं० २, ८ ॥ ५ काल्या भेद प्र० ॥ ६ तुल्यत्यते युगप प्र० 11 ७ दृश्यतां पृ० ३८४ पं० २४, पृ० ३८६ पं० ६ ॥ ८ ( चायुग ? ) ॥ ९ वाक्यविशेषः प्र० ॥ १० त्यग्नित्य प्र० । “अव्ययात् त्यप् । ४।२।१०४।‘''त्यब् नेर्भुवे । त्यबू नेर्भुवे वक्तव्यः । नित्यः ।" इति पातञ्जलमहाभाष्ये ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org