________________
३८६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [पञ्चम उभयारे साधु भवति देवदत्तादौ यत् त्रिलिङ्गं तन्न भवति भवने, तथा एकस्मिन् द्वयोबहुषु वा भवत्सु याः सङ्ख्यास्ता न भवन्ति । प्रत्ययपरप्रकृतिव्यवस्थया तु प्रथमैकवचने, अतिक्रमकारणाभावात् । नपुंसकंच भवनस्याव्यक्तत्वात् , किमपि दृश्यते इति
तथा त्रिकालविषयाद् द्रव्यादन्यो भावो न च तेन विना कारकः त्रिकाल
5 सम्बन्धः । यथात्र वीरशब्दः पुरुषसामानाधिकरण्याद् वस्तुत्वेनैकत्वं गतस्तथा पुरुषशब्दोऽपि वीरसामाना२७४, धिकरण्यात् , अन्यथा वैयधिकरण्याद् घटपटादिवदसम्बन्धादिदोषाः स्युः । अथ च वीरो विशेषणं पुरुषो
विशेष्य इति परस्परतो भिन्नार्थत्वमनयोः, इतरथा सामानाधिकरण्यात् तादात्म्यात् पौनरुक्त्यादिदोषाः स्युः। दृष्टं चानयोरैकात्म्यं सामानाधिकरण्यात् , विशेषणविशेष्यभावाच्चान्यत्वम् । एवं प्लक्षादिपैदत्वेन
दृष्टान्तपरिपूर्णत्वे सत्युत्तरकालभाविनश्वार्थस्यैकसम्बन्धिविषयत्वं प्लक्षधंवाद्युपात्तैकसमुच्चयगोचरत्वमित्यन10न्यत्वम् , अन्यत्वं तु प्लक्षधवयोरेवासी समुच्चय इति, तथा द्रव्यादलिङ्गसङ्खयो भावो वस्तुत्वैकत्वगतिरनन्योऽन्यश्चेति । इत्थं वा व्याख्यानेऽन्यत्वैकान्तो द्रव्यार्थत्यागोऽन्वयत्यागश्चेति परिहृता दोषाः ।
अतः परमलिङ्गसङ्घयत्वप्रसाधनायोत्तरो ग्रन्थः साधु भवतीत्यादिर्यावद् भवत्सु याः सङ्ख्यास्ता न भवन्तीति । एकस्मिन् द्वयोर्बहुषु वा देवदत्तादिभवितृषु लिङ्गसङ्ख्याभेदव॑त्सु यत् त्रिलिङ्ग सङ्खयाश्चैकत्वाद्यास्ता न भवन्ति भवने नपुंसकलिङ्गमेकवचनमेव चानुमीयते तद्विशेषणे साधुशब्दे श्रूयते च 'साधु 15 भवन्तं पश्य' इत्यादि कारकादिव्यतिरेकेऽपि । तस्मादन्यद् भवनं भवद्भयो देवदत्तादिभ्यः स्वरूपतः सत्यपि वस्तुत्वैकत्वे। स्यान्मतम् - किमर्थं नपुंसकलिङ्ग प्रथमैकवचनं च ? इत्यत्रोच्यते-प्रत्ययपरप्रकृतिव्यवस्थया तु प्रथमैकवचने, किं कारणम् ? अतिक्रमकारणाभावात् । अवश्यं च प्रत्ययपरा प्रकृतिः प्रयोक्तव्या, प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा [पा० २।२।४६ ] इति सत्तामात्रेऽपि प्रथमाविधानात् ततोऽतिरिक्तार्थासम्भवात् प्रथमातिलङ्घने फलाभावात् वचनस्य च नान्तरीयकत्वात् सत्तामात्रार्थकारणत्वात् कारणा20न्तराभावात् , कारणाद्धि तदतिक्रमः स्यात् । नपुंसकं च भवनस्याव्यक्तत्वात् , अव्यक्ते गुणसन्देहे २७५-१
नपुंसकलिङ्गं प्रयोक्तव्यमिति । किं तथा लोके दृष्टमिति चेत्, उच्यते-किमपि दृश्यते इति, यथा हस्त्यश्वनरादिसमूहं दृष्ट्वा वक्तारो भवन्ति - किमपि दृश्यते, इतिः प्रदर्शने, एतदेव वाक्यमुदाहरणत्वेन प्रदर्शयति ।
तथेत्यादि पूर्वसाधनवत् तस्मिन्नेव पक्षे हेत्वन्तरमुपचयरूपेणोच्यते । तेन प्रकारेण तथा यथा पूर्व 25 'वस्तुत्वैकत्वगत्यनन्यदन्यत्' इति पक्षीकृत्य साधितं तथात्रापि त्रिकालविषयाद् द्रव्यादन्यो भावो न
च तेन विना कारक इति पक्षः, द्रव्येण विना न स्वयं कारको भावः, तत्सहवृत्तिरेवान्यत्वेऽपीत्यर्थः,
१ पदत्तेन पा० डे. ली. २० ही० । (पदं, तेन,?)॥ २ धवादिउपा प्र० ॥ ३ (च?)॥ ४°वस्तु पतत्रिलिङ्गं प्र० ॥ ५ नमेव वानु य० । 'नमेवानु भा० ॥ ६ स्थाया य० ॥ ७°स्य वचनान्त प्र०॥ ८ दृश्यतां पृ० २४२ पं० ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |