________________
द्रव्यक्रिययोभिन्नत्वसाधनम्] द्वादशारं नयचक्रम्
३८५ खरूपतोऽन्यैव, अलिङ्गसङ्ख्यत्वात् , प्लक्षादिव भिन्नार्थानामेकसम्बन्धिविषयश्चार्थः ।
द्रव्यार्थस्य । अथ द्रव्यार्थं मा त्याक्षमित्येकमेवेष्यते पुनरपि दृष्टान्ताभावः द्रव्याद् भिन्नस्यार्थान्तरस्याभावादिति । अत्रोच्यते - पदार्थानामिति पदार्थग्रहणाद् नैष दोषः । प्रातिपदिकार्थो हि क्रियासम्बन्धी अन्तरङ्गत्यात् क्रियायाः, न पदार्थो बहिरङ्गत्वात् । यथा पुत्रमिच्छति पुत्रीयतीति द्वितीया बहिरङ्गकर्माभिधायिनी पुत्रस्य इषिणान्तरङ्गेण सम्बद्धत्वात् , उक्तं च-प्रातिपदिकानां क्रियाकृताः सम्बन्धा भवन्ति [पी० म० भा० २।३।५० ] इत्येषितुर्देवदत्तस्य पुत्रेणाभिसम्बन्धो न पदार्थेन विभक्त्यन्तेन, पदान्तरसन्निधौ तु तद्वयक्तिः कारकाणां प्रवृत्तिविशेषः क्रिया [पाँ० म० भा० १॥२॥१] इति वचनात्, क्रियया सम्बन्धमित्वा कर्मादित्वमेतीति पूर्वमेव क्रियया सम्बन्धः । यदि च क्रियासम्बन्धवत् प्रातिपदिकावस्थायामेव समुच्चयादिसम्बन्धोऽपि स्यात् ततः प्रातिपदिकार्थातिरेकात् सम्बोधनवद् यत्नान्तरविधेया प्रथमा 10 स्यात् , द्वितीयादयश्च न स्युः, कर्माद्यधिके हि प्रातिपदिकार्थे ता विधीयन्ते । यदि तु समुच्चयाद्याधिक्ये २७४-१ कर्माद्यस्तीति द्वितीयादयः स्युस्ततः कर्माद्याधिक्येऽपि प्रातिपदिकार्थोऽस्तीति प्रथमैव स्यात् । अतः पदार्थोत्तरकालभाविनि वाक्यार्थ उपजायमाने तस्योपकुर्वन्तश्चादयः पदैरभिसम्बध्यन्त इत्यत उच्यते-भिन्नानां पदार्थानामिति क्रियासम्बन्धव्युदसनार्थम् । स च समुच्चय एकसम्बन्धिविषयः । कोऽसावेकः सम्बन्धी ? वाक्यार्थः प्लक्षधवाद्येकदेशता अन्वाचयसमुँचययोरानयननयनादि । उक्तं च-चार्थे द्वन्द्वः [पा० २।२।२९], चस्य च कोऽर्थः ? समुच्चयोऽर्थोऽन्वाचयः समाहार इतरेतरयोगश्च पदार्थोत्तरकालभाविनः । तत्र 15 समुच्चयः गामश्वं पुरुषं शकुनि पशुमहरहर्नयमानो वैवस्वतो न तृप्यति सुरया इव दुर्मदीति । अन्याचयो यथा- देवदत्त भिक्षामट यज्ञदत्तं चानय । पाणिपादं ब्राह्मण-क्षत्रिय-विट्-शूद्राः रामकेशवाविति समाहारेतरेतरयोगौ । ये च द्रव्याणां गुणानां क्रियाणां च दृश्यन्ते यथा घटश्च पटश्चेति रूपं च रसश्चेति हसति तिष्ठति रमते 'वेत्यादयः पदार्थोत्तरकालभाविनः समुच्चयविकल्पादेयः न ते द्रव्यं न क्रिया न [णः, किन्तु द्रव्यस्यैव क्रियात्वाद् 'वीरपुरुषविशेषणविशेष्यैकात्मवद् वस्तुत्वैकत्वगत्यनन्यान्यत्वभाजो धर्माः प्रवृत्तिरेवेति 20
१ अ द्रव्यार्थ मा त्याक्षामि प्र० ॥ २ सम्बन्धत्वात् प्र० ॥ ३ “प्रातिपदिकानां क्रियाकृता विशेषा उपजायन्ते तत्कृताश्चाख्याः प्रादुर्भवन्ति-कर्म करणमपादानं सम्प्रदानमधिकरणमिति ।" इति पातञ्जलमहाभाष्ये ॥ ४“न ब्रूमः कारकाणि क्रियेति । किं तर्हि ? कारकाणां प्रवृत्तिविशेषः क्रिया ।" इति पातञ्जलमहाभाष्ये ॥ ५“प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा । सम्बोधने च ।” पा० २।३।४६-४७ । दृश्यतां पाण्म०भा० २।३॥४६॥ ६ जायते तस्यों प्र०॥ ७°च्चयोरान प्र०॥ ८ञ्चयार्थों य० ॥ ९ "अहरहर्नयमानो गामश्वं पुरुषं पशुम् । वैवस्वतो न तृप्यति सुराया इव दुर्मदी ॥ १॥” इति पातञ्जलमहाभाष्ये । २।२।२९ ॥ १० णत्वाच यथा य० ॥ ११ (चेत्यादयः?)॥ १२ दयः । न चेद्रव्यं प्र० ॥ १३ गुणाः भा० ॥ १४ “समानाधिकरणेषूपसङ्ख्यानमसमर्थत्वात् । समानाधिकरणेषूपसङ्ख्यानं कर्तव्यम् , वीरः पुरुषो वीरपुरुषः । किं पुनः कारणं न सिध्यति ? असमर्थत्वात् । कथमसामर्थ्यम् ? 'द्रव्यं पदार्थ इति चेत् । यदि द्रव्यं पदार्थः, न भवति तदा सामर्थ्यम् भेदाभावात् । अथ हि गुणः पदार्थः, भवति तदा सामर्थ्यम् । अन्यो हि वीरत्वं गुणः, अन्यो हि पुरुषत्वम् । नान्यत्वमस्तीतीयता सामर्थ्य भवति, अन्यो हि देवदत्तो गोभ्यश्चाश्वेभ्यश्च, न चैतस्यैतावता सामर्थ्य भवति । को वा विशेषो यद् गुणे पदार्थे सामर्थ्य स्याद् द्रव्ये च न स्यात् ? एष विशेषः-एकं तयोरधिकरणम् , अन्यश्च वीरत्वं गुणः अन्यः पुरुषत्वम् ।" इति पातञ्जलमहाभाष्ये २।१११॥ १५ गत्यान य० ॥
नय०४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org