________________
૨૦૦
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ पञ्चम उभयारे
योऽसौ भवति, नोच्यते यत् तद् भूयते केनापि खशब्दोपादानसिद्धभावत्वात् सत्त्वस्य ।
लिङ्गादिमद् द्रव्यम्, क्रिया तद्रहिता । लिङ्गादिमत्त्वादलिङ्गादिमत्त्वाच्च भवतो भवनस्य च उभयमेव भावः । लिङ्गसङ्ख्यावतो द्रव्याद् वस्तुत्वैकत्वगतिः क्रिया
5
तद्विपर्ययेण तु द्रव्यभावस्य प्रश्नप्रतिवचने दृष्टे व्युत्पादनकाले । तद्यथा - कस्य भावः इति प्रश्नः, २७३-१ कस्य क्रिया प्रवृत्तिः ? कर्तरि षष्ठीं कृत्वा । तदनुरूपं प्रतिवचनमपि - योऽसौ भवतीति यो भविता कव
वा द्रव्यलक्षणः स उच्यते । नोच्यते - यत् तद् भूयते तद् भवनमेव । किं भूयते न भूयते केनापि ? इति अनिर्दिष्टकारकं हि भावसामान्यमेव भावस्याभिन्नत्वात् । किं कारणम् ? स्वशब्दोपादानसिद्धभावत्वात् सत्त्वस्य स्वशब्देनैव पृच्छ्यते - कस्य भावः ? को भवतीत्यर्थः । न पृच्छयते - किं भूयते ने भूयते 10 केनापि ? इति । प्रतिवचनमपि तथोच्यते - योऽसौ कोऽपि भवतीति तस्य भावः स भवति तेन भूयते इति । नोच्यते यत् तद् भूयते केनापीति, अविशद भवनमात्रं न व्याक्रियते तस्याष्पृष्टत्वात् । किं कारणम् ? क्रियालक्षणभावव्युत्पादनविपर्ययेण प्रश्नव्याकरणदर्शनात् तथैवार्थप्रसिद्धेस्तद्वाचिशब्दप्रवृत्तेरपि तदनुरूपत्वादिति ।
-
किञ्चान्यत्, लिङ्गादिमदित्यादि यावदुभयमेव भाव इति । द्रव्यं लिङ्ग सङ्ख्या- काल - कारकयोगि, क्रिया तद्रहिता । 'लिङ्गादिमत्त्वादलिङ्गादिमत्त्वाच्च भवतो द्रव्यस्य भवनस्य च यथासङ्ख्यं भिन्नं वस्तु 15 भैवद्-भवनभूतं द्विधा । तस्मादुभयर्वंस्तुतश्चैकमिति प्रतिपाद्यमुपपत्त्येत्यतः प्रतिज्ञायते - लिङ्गसङ्ख्यावत इत्यादि । वस्तुत्वेनैकत्वं वस्तुत्वैकत्वम्, तस्य गतिः आपत्तिः, वस्तुत्वेनैकत्वमापन्ना क्रिया स्वरूपतोऽन्यैव, द्रव्यक्रियास्वरूपभिन्नमेकं वस्त्वित्यर्थः । कस्मात् ? अलिङ्गसङ्ख्यत्वात्, न लिङ्गसङ्ख्ये यस्य तदिदमलिङ्ग२७३२ सङ्ख्यं भवनम् । तद्धि वस्तुत्वेनैकत्वं गतं सद् द्रव्येण सहानन्यद्ध्यन्यदेव इति प्रतिज्ञार्थोऽनेन साध्यते 'अलिङ्गसँङ्खयत्वात्' इति हेतुना । दृष्टान्तः - लक्षादिव भिन्नार्थानामेकसम्बन्धिविषयश्चार्थः, यथा 20 'क्ष धवश्च' इत्यत्र 'च' शब्द : प्लक्षधवयोरन्ययोः समुच्चेतापि समुच्चयमेकमेव सम्बन्धिनं विषयीकृत्य वृत्तत्वादनन्यत्वेऽपि सत्यन्यस्यैवार्थस्य वाचकस्तथा द्रव्यक्रियात्मकवस्तुत्वैकत्वान्यत्वमिति । अत्राह - - द्रव्यादन्यत्वेन पक्षीकृतायां क्रियायां समुच्चयनक्रियैव यदि दृष्टान्तत्वेनोच्यते साध्यत्वाददृष्टान्तः । अथ मा भूदेष दोष इति द्रव्यान्तरसमुच्चयो यदि दृष्टान्त उच्यते तथापि द्रव्यार्थत्यागः लक्षधवसमुच्चयाख्यादिसर्वसत्तार्थसङ्ग्रहार्थत्वाद्
I
१ न भूयते भा० प्रतौ नास्ति ॥ २ शब्द प्र० ॥ ३ भावायु प्र० ॥ ४ लिङ्गादिमत्त्वाच्च प्र० ॥ ५ तद्भवनभूतं तद्विधा य० ॥ ६ वस्तुतश्चैवामिति प्र० । अत्र 'तस्मादुभयं वस्तु, तच्चैकमिति' इत्यपि पाठः स्यात् ॥ ७ संख्यादिति प्र० ॥ ८ लक्षादिवत् प्र० ॥ ९ 'अलिङ्गसङ्ख्यत्वात्' इति हेतोः साध्येनानुगमप्रदर्शनार्थ समुच्चयश्चार्थो दृष्टान्तत्वेन अत्र विवक्षित इति भाति । दृश्यतां पृ० ३८५ पं० १३ । “चार्थे द्वन्द्वः” । २।२।२९ | चार्थ इत्युच्यते, चश्चाव्ययम् तेन समासस्याव्ययसंज्ञा प्राप्नोति । नैष दोषः, पाठेनाव्ययसंज्ञा क्रियते, न च समासस्तत्र पठ्यते । पाठेनाप्यव्ययसंज्ञायां सत्यामभिधेयवलिङ्गवचनानि भवन्ति । यचेहार्थोऽभिधीयते न तस्य लिङ्गसङ्ख्याभ्यां योगोऽस्ति । नेदं वाचनिकम् - अलिङ्गताऽसङ्ख्यता वा, किं तर्हि ? स्वाभाविकमेतत्, तद्यथा - समानमीहमानानां चाधीयानानां च केचिदर्थैर्युज्यन्तेऽपरे न; न चेदानीं कश्चिदर्थवानिति सर्वैरर्थवद्भिः शक्यं भवितुं कश्विद्वाऽनर्थक इति सर्वैरनर्थकैः । तत्र किमस्माभिः शक्यं कर्तुम् यत् प्राक् समासाचार्थस्य लिङ्गसङ्ख्याभ्यां योगो नास्ति समासे च भवति । स्वाभाविकमेतत् ।” इति पातञ्जलमहाभाष्ये २।२।२९ ॥ १० ( द्रव्यान्तरं समुच्चयो ? ) ॥ ११ 'सत्तार्थ भा० प्रतौ नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org