________________
द्रव्यक्रियोभयार्थप्रतिपादनम् ] द्वादशारं नयचक्रम्
३८३ उभयार्थवत्त्वप्रदर्शनाय च कोऽसौ भावो नाम ? यत् तद् भूयते केनापि, नोच्यतेयोऽसौ भवति कोऽपि, अखशब्दोपादानसाध्यभावत्वाद् भावस्य । कस्य भावः ?
२७२-२ व्यभिचरतीति चेत्, अत एव तदर्थगतेरन्यत्र चोभयप्रयोगदर्शनादनुमीयते द्वयर्थतेति । व्युत्पादनकालेऽपि प्रकृत्यर्थव्युत्पत्तिरन्यथा अन्यथा प्रत्ययार्थव्युत्पत्तिः शास्त्रेऽन्वयव्यतिरेकाभ्यां क्रियते । तत् किमर्थमिति चेत् , उभयार्थवत्त्वप्रदर्शनाय चेत्यादि यावत् कोऽपीति । कोऽसौ भावो नाम ? इति प्रश्नोपक्रमं व्युत्पाद्यते क्रिया, यत् तद् भूयते केनापि, 'भूयते' इति भावे लकारविधानात् 'यत् तत्' इति च भवनमेव प्रकृत्यों निर्दिश्यते । नोच्यते-योऽसौ भवति कोऽपीति, येन भूयते योऽसौ भवति कर्ता प्रत्ययार्थः स नोच्यते तस्मिन् प्रश्ने । तस्मात् प्रकृत्यर्थपरा व्युत्पादनैवम्प्रकारा । किं कारणम् ? अस्व. शब्दोपादानसाध्यभावत्वादू भावस्य । अस्मदुक्तानुकाराद् यथोक्तमन्यैर्द्रव्यभावयोरुक्तिक्रियालक्षणे भेदोपप्रदर्शने 'स्वशब्दोपादानसिद्धभावं सत्त्वम् , अस्वशब्दोपादानसाध्यभावो भावः' इत्येतदुक्तिक्रिया 10 श्रयं सत्त्वभावयोः पृथक्त्वम् [ ] इति । प्रसिद्धं हि लोके शास्त्रेषु च - क्रियावाचकमाख्यातं द्रव्याभिधायकं नामेति, स्वभावसिद्धं द्रव्यं हि क्रिया चैव हि भाव्यते' [पा० म० भा० १॥३।१] तथा पूर्वापरीभूतं भावमाख्यातेन आचष्टे उपक्रमप्रभृत्यपवर्गपर्यवसानं परिनिष्पन्नं नाम्ना मूर्त सत्त्वं यथासङ्ख्यं व्रजति पचति व्रज्या पक्तिः [निरुक्त. ॥१] इति । तस्माद् घटपटादिशब्दा द्रव्यस्य स्वशब्दाः, पचतिगच्छत्यादयः क्रियायाः, भावशब्दश्च द्वयोरपि दृष्टः । तत्रास्वशब्दस्य द्रव्यवाचिनो घटदेवदत्तादेरुपादानेन 15 साध्यो भावः साध्यत्वम् , यासावनुमानगम्या क्रिया न शक्या साधनात् पृथग् दर्शयितुं गर्भवद् नि ठिता सा परतः साधनत एव यथा आत्मानं लभते तथाभिधानेऽपीत्यस्वशब्दोपादानसाध्यभावो भावः क्रियेत्यर्थः । तद्भावादस्वशब्दोपादानसाध्यभावत्वाद् भावस्य प्रवृत्तिलक्षणस्यैवं प्रश्नप्रतिवचनसिद्धिरिति ।
१ अत्र उभयार्थत्वप्रदर्शनाय इति पाठः समीचीनो भाति, दृश्यतां पृ. ३८२ पं० ९। २ एतत्समानार्थिका चर्चा पातञ्जलमहाभाष्ये इत्थमुपलभ्यते - “लुप्ताख्यातेषु चोपसङ्ख्यानं कर्तव्यम् , निष्कौशाम्बिः निर्वाराणसिः ।....... सिद्धं तु क्वाखतिदुर्गतिवचनात् 'प्रादयः कार्थे' इति । तदर्थगतेा । तदर्थगतेर्वा पुनः सिद्धमेतत् । किमिदं तदर्थगतेरिति ? तस्यार्थस्तदर्थः, तदर्थस्य गतिस्तदर्थगतिः, तदर्थगतेरिति यस्यार्थस्य कौशाम्ब्या सामर्थ्यं स निसोच्यते । अथवा सोऽर्थस्तदर्थः, तदर्थस्य गतिस्तदर्थगतिः, तदर्थगतेरिति योऽर्थः कौशाम्ब्या समर्थः स निसोच्यते ।” पा०म० भा० २।१।१॥ ३ “कथं पुनर्ज्ञायते - अयं प्रकृत्यर्थः, अयं प्रत्ययार्थ इति ? सिद्धं त्वन्वयव्यतिरेकाभ्याम् । अन्वयाच व्यतिरेकाच्च । कोऽसावन्वयो व्यतिरेको वा ? इह ‘पचति' इत्युक्ते कश्चिच्छब्दः श्रूयते पच्छब्दश्चकारान्तः, 'अति'शब्दश्च प्रत्ययः । अर्थोऽपि कश्चिद् गम्यते विक्लित्तिः कर्तृत्वमेकत्वं च । 'पठति' इत्युक्ते कश्चिच्छब्दो हीयते कश्चिदुपजायते कश्चिदन्वयी; पच्छब्दो हीयते पठशब्द उपजायते 'अति'शब्दोऽन्वयी । अर्थोऽपि कश्चिद्धीयते कश्चिदुपजायते कश्चिदन्वयी, विक्लित्तिहीयते पठिक्रियोपजायते कर्तृत्वं चैकत्वं चान्वयी । ते मन्यामहे यः शब्दो हीयते तस्यासावर्थो योऽर्थो हीयते, यः शब्द उपजायते तस्यासावर्थो योऽर्थ उपजायते, यः शब्दोऽन्वयी तस्यासावर्थों योऽर्थोऽन्वयी ।" इति पातञ्जलमहाभाष्ये १।३।१॥ ४ दृश्यतां पृ० १२५ पं० ७ । “एवं तर्हि कर्मसाधनो भविष्यति 'भाव्यते यः स भावः' इति । क्रिया चैव हि भाव्यते, खभावसिद्धं तु द्रव्यम् ।” इति पातञ्जलमहाभाष्ये पाठः ॥ ५ दृश्यतां पृ० १२६ पं० २४ ॥ तत्र स्व प्र०॥ ७ “क्रिया नामेयमत्यन्तापरिदृष्टा अशक्या क्रिया पिण्डीभूता निदर्शयितुम् , यथा गर्भो निलठितः । साऽसावनुमानगम्या। कोऽसावनुमानः ? इह सर्वेषु साधनेषु सन्निहितेषु कदाचित् 'पचति' इत्येतद् भवति, कदाचिन्न भवति । यस्मिन् साधने सन्निहिते ‘पचति' इत्येतद् भवति सा नूनं क्रिया । अथवा यया देवदत्त इह भूत्वा पाटलिपुत्रे भवति सा नूनं क्रिया ।" इति पातञ्जलमहाभाष्ये १।३।१॥ ८°दानासाप्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org